Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
चतुर्थः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । सेनापतिर्गृहपतिः, पुरोधो-वर्द्धकी अपि । चत्वारि नररत्नानि, स्वपुर्यां तस्य जज्ञिरे ॥ ७११ ॥ गजा-ऽश्वरत्ने वैतात्य गिरेर्मूले बभूवतुः । उदग्विद्याधरश्रेण्यां, स्त्रीरत्नं तूदपद्यत ॥ ७१२ ॥ नयनानन्ददायिन्या, मूर्त्या मोम इवाऽशुभत् । दुःसहेन प्रतापेन, भरतो भानुमानिव ॥ ७१३ ॥ अलब्धमध्यः सोऽम्भोधिरिव पुंरूपतां गतः । प्राप्तो मनुष्यधर्मेव, मनुष्यस्वामितां पुनः ॥ ७१४ ॥ अशोभत महारत्नैः, स चतुर्दशभिः सदा । जम्बूद्वीप इव गङ्गासिन्धुप्रभृतिसिन्धुभिः ॥ ७१५ ॥ पादाधःस्थतया तस्य, नवाऽपि निधयोऽनिशम् । हेमाजानीव वृषभप्रभोविहरतोऽभवन् । ७१६ ॥ सदा षोडशभिर्देवसहः पारिपार्श्विकैः । अनल्पवेतनक्रीतैरात्मरक्षैरिवाऽऽवृतः ॥ ७१७॥ नृपाणां नृपकन्यानामिव निर्भरभक्तितः । द्वात्रिंशता सहस्रैः स, निरन्तरमुपास्यत ॥ ७१८ ॥ द्वात्रिंशता सहस्रैः स, नाटकानामिवाऽनिशम् । जानपदीनां कन्यानामरस्ताऽवनिवासवः ॥ ७१९ ॥ म जगत्यामेकभूपः, सूपकारवरैरभात् । शतैस्त्रिभिस्त्रिषष्ट्यग्रैर्वा सरैखि वत्सरः ।। ७२० ॥
10 श्रेणिप्रश्रेणिभिः सोऽष्टादशभिः पृथिवीतले । प्रावर्तयद् व्यवहारं, लिपिभिर्नाभिभूरिव ।। ७२१ ॥ लक्षश्चतुरशीत्याऽभात् , स रथद्विपवाजिनाम् । प्रत्येकं ग्रामपत्तीनां, षण्णवत्या च कोटिभिः ॥ ७२२ ॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च स प्रभुः ॥ ७२३ ॥ महस्रोनद्रोणमुखलक्षस्याऽधिपतिश्च सः । पत्तनाष्टाचत्वारिंशत्सहस्राणां च सोऽधिभूः ।। ७२४ ॥ कर्बटानां मडम्बानामिव साडम्बरश्रियाम् । चतुर्विंशतिसहस्रसङ्ख्यातानां स ईशिता ॥ ७२५ ॥ 15 स विंशतिसहस्राणामाकराणां करेश्वरः । तथा खेटसहस्राणां, पोडशानां प्रशासिता ॥ ७२६ ॥ चतुर्दशानां सम्बाधसहस्राणामपि प्रभुः । अधिपोऽन्तरोदेकानां, स पट्पञ्चाशतोऽपि च ॥ ७२७॥ पश्चाशतः कुराज्यानामेकोनायाश्च नायकः । स मध्ये भरतक्षेत्रमन्येषामपि शासिता ।। ७२८ ॥ विनीतायां स्थितः कुर्वन्नाधिपत्यमखण्डितम् । अभिषेकोत्सवप्रान्ते, स्मर्तुं प्रववृते स्वकान् ॥ ७२९॥
षष्टिं वर्षसहस्राणि, विरहाद् दर्शनोत्सुकान् । अदर्शयन् निजान राज्ञो, नियुक्तपुरुषास्ततः ॥ ७३० ॥ 20 ततः कृशां ग्रीष्मकालाक्रान्तामिव तरङ्गिणीम् । म्लानां हिमानीसम्पर्कवशादिव सरोजिनीम् ॥ ७३१ ॥ प्रनष्टरूपलावण्यां, हैमनेन्दुकलामिव । पाण्डुक्षामकपोलां च, रम्भां शुष्कदलामिव ।। ७३२ ॥ सोदरां बाहुबलिनः, सुन्दरी गुणसुन्दरः । नामग्राहं स्वपुरुौदर्यमानां ददर्श सः।।७३३॥[त्रिभिर्विशेषकम्] तथाविधां च सम्प्रेक्ष्य, तां परावर्तितामिव । सकोपमवनीपालः, स्वायुक्तानित्यवोचत ।। ७३४ ॥
किं कदाप्यस्मदीयेऽपि, सदने नौदनान्यरे ! ? । न किं लवणपाथोधी, विद्यन्ते लवणान्यपि ? ॥७३५।। 25 सूपकारा न किं सन्ति, तत्तद्रसवतीविदः । निरादराः किमथवा, तद्यमी वृनितस्कराः? ॥ ७३६ ॥ द्राक्षाखर्जूरमुख्यानि, खाद्यान्यपि हि नेह किम् ? । न हि किं विद्यते स्वर्णमपि स्वर्णशिलोचये ॥७३७॥ किमुद्यानेषु ते वृक्षा, बभूवुरवकेशिनः ? । फलन्ति तरवः किं हि, न नन्दनवनेऽपि हि ? ॥ ७३८ ॥ न वा दुग्धानि धेनूनां, घटोनीनामपीह किम् ? । किं नु शुष्कस्तनस्रोताः, सञ्जाता कामगंव्यपि ? ॥७३९॥ अथ भोज्यादिसम्पत्सु, सतीष्वपि हि सुन्दरी । न किञ्चिदश्नाति यदि, तदसावामयाविनी ॥ ७४० ॥30 आर्मयः कोऽपि चेदस्याः, कायसौष्ठवतस्करः । तत् किं वभूवुः सर्वेऽपि, कथाशेषी भिषग्वराः ? ॥७४१॥
१ पुरोहितः। * पादाध स्थितयस्तस्य खंता ॥ । पार्श्वकैः खं, सं१॥२ बहुमूल्यकीतैः। राजभी राजकन्याभरिव सं२, आ॥ || नाटकैरिव चारुभिः । जानपदीभिः कन्याभिरं सं २, आ॥ मृदान मत्यराजत सं १, खं ॥ [स्त्रिदिनोनार्कवर्षवत् सं, खं: लक्षश्चतुरशीत्येभरवैरिव रथैरिव । स कोटिभिः पण्णवत्याऽभाद् ग्रामैरिव पत्तिभिःसंह, खं॥ + गां नरेश्वरः खं ॥ ३ अन्तरद्वीपानाम् । ४ हेमन्तकालचन्द्रकलामिव । ५ कदलीम् । ६ परावर्तितरूपामिव । ७ आजीविकाचौराः। ८ निष्फलाः । ९ कामधेनुः। १० रोगिणी । ११ रोगः । १२ मृत्युङ्गताः । १३ वैद्याः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254