Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 175
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [ प्रथमं पर्व ७०४ ॥ कुसुमाहरणां विद्याधराणामिव तत्र सः । कुसुमावचयक्रीडां, यूनामैक्षिष्ट कौतुकात् ॥ ६९४ ॥ ग्रथित्वा पुष्पनेपथ्यं, बरवामभ्रुवः स्वयम् । प्रसूनेधन्वनः पूजामिव तस्योपनिन्यिरे ॥ ६९५ ॥ सर्वाङ्गपुष्पाभरणाश्चिक्रीडुस्तत्पुरोऽङ्गनाः । ऋतुश्रिय इवाऽसङ्ख्यीभूतास्तं समुपासितुम् ॥ ६९६ ॥ रराज राजराजोऽपि सर्वतः पुष्पभूषणः । तासामृतुदेवतानामिवैकमधिदैवतम् ।। ६९७ ॥ 5 कदाचित् क्रीडितुं क्रीडादीर्घिकां सवधूजनः । राजहंस इव खैरं प्रययौ भरतेश्वरः ।। ६९८ ॥ तत्र चक्रे जलक्रीडां, वामनेत्राभिरार्षभिः । करेणुकाभिः सहितो, रेवायामिव कुञ्जरः ॥ ६९९ ॥ आलिङ्गन्त्यः क्षणं कण्ठे, क्षणं दोष्णोः क्षणं हृदि । तमापेतुः पयोवीच्यो, वामाक्षीशिक्षिता इव ॥ ७०० ॥ अवतंसीकृताम्भोजश्चलन्मौक्तिककुण्डलः । भरतो वरुणः साक्षादिवाऽलक्ष्यत वारिणि ।। ७०१ ॥ लीलाविलाससाम्राज्यनिवेशायेव भूपतिः । अहंपूर्विकया स्त्रीभिरभ्यषिच्यत वारिभिः ॥ ७०२ ॥ अप्सरोभिरिव जलदेवताभिरिवाऽभितः । जलकेलिप्रसक्ताभी, रेमे ताभिर्महीपतिः ॥ ७०३ ॥ स्वप्रतिस्पर्द्धिनां वारिजन्मनामिव दर्शनात् । वारिभिस्ताम्रतामापुः कुरङ्गकदृशां दृशः अङ्गनानामङ्गरागैरङ्गाद् विगलितैर्घनैः । आपः सकर्दमा यक्षकर्दमत्वं प्रपेदिरे ।। ७०५ ।। सङ्गीतकं कारयितुं, कदाचिदपि शक्रवत् । विलासमण्डपास्थानीमातस्थौ पृथिवीपतिः ।। ७०६ ॥ ॐकारमिव मत्राणामाद्यं सङ्गीतकर्मणाम् । सुखरं पूरयामासुर्वेणुं वैणविकोत्तमाः ॥ ७०७ ॥ 15 पुष्पादिभिः श्रुतिसुखैर्व्यक्तैर्व्यञ्जनधातुभिः । वैणिका वादयामासुर्वीणा एकादशाऽपि ताः ॥ ७०८ ॥ तत्तत्कवित्वानुगतं, नाम्ना प्रस्तारसुन्दरम् । रङ्गचार्या दधुस्तालं, नृत्ताभिनयमातरम् ।। ७०९ ॥ प्रिय मित्रवदन्योऽन्यमनुज्झन्तो मनागपि । मार्दङ्गिकाः पाणविकाः स्वं स्वं वाद्यमवादयन् ॥ ७१० ॥ जातिरागान् नवनवान्, खरगीतिमनोरमान् । गायनाश्च जगुर्हाहाहूह्वहङ्कारहारिणः ॥ ७११ ॥ चित्रीयमाणाश्वित्रैश्वाऽङ्गहारैः करणैरपि । नर्त्तक्यो ननृतुस्तारं, लास्यताण्डवपण्डिताः ।। ७१२ ।। 20 प्रेक्षाञ्चक्रे प्रेक्षणीयानीत्यविघ्नं महीपतिः । यत्र तत्र प्रसक्तानां प्रभूणां को हि बाधकः १ ।। ७१३ ॥ सांसारिक सुखान्येवं, भुञ्जानो भरतेश्वरः । खामिमोक्षदिनात् पूर्वलक्षाः पञ्चात्यवाहयत् ।। ७१४ ॥ अपरेद्युः कृतस्नानः, प्रक्लृप्तबलिकर्मकः । देवदूष्यांशुकोन्मृष्टशरीरः स्रग्विकुन्तलः ।। ७१५ ॥ गोशीर्षचन्दनकृतसर्वाङ्गीणविलेपनः । सर्वाङ्गनिहितानर्घ्यदिव्यरत्नविभूषणः ॥ ७१६ ॥ सोऽन्तःपुरनिकेतान्तर्वरस्त्रीपरिवारितः । वेत्रिण्या दर्श्यमानाध्वा, रत्नादर्शगृहं ययौ ॥ ७१७ ॥ [ त्रिभिर्विशेषकम् ] प्रतिबिम्बितमत्यच्छे, गगनस्फटिकोपमे । यथाप्रमाणं सर्वाङ्ग, रूपं तत्र हिं दृश्यते ॥ ७१८ ॥ तत्र च प्रेक्षमाणस्य, स्वं वपुर्भरतेशितुः । अङ्गुल्या एकतमस्या, निपपाताऽङ्गुलीयकम् ॥ ७१९ ॥ तदङ्गुल्या गलितमप्यङ्गुलीयं महीपतिः । नाऽज्ञासीद् बेर्हिणो बर्हभाराद् बर्हमिवैंककम् ॥ ७२० ॥ वपुः पश्यन् क्रमेणेक्षाञ्चक्रे तां चत्र्यनर्मिकाम् । अङ्गुलीं गलितज्योत्स्त्रां, दिवा शशिकलामिव ।। ७२१ ॥ अहो ! विशोभा किमसाङ्गुलीति विचिन्तयन् । ददर्श पतितं भूमावङ्गुलीयं नरेश्वरः ॥ ७२२ ॥ किमन्यान्यपि विशोभान्यङ्गान्याभरणैर्विना १ । इति मोक्तुं स आरेभे, भूषणान्यपराण्यपि ॥ ७२३ ॥ आदावुत्तारयामास, माणिक्यमुकुटं नृपः । तद्धीनं च शिरोऽपश्यच्युतरत्नामिवोर्मिकाम् || ७२४ ॥ माणिक्यकुण्डले प्रोज्झ्य, तद्धीनौ च ददर्श सः । कर्णपाशावनैकेंन्दू, पूर्वापरदिशाविव ॥ ७२५ ।। 10 25 30 १५४ १ कामदेवस्य । २ नर्मदायाम् । ३ भुजयोः । ४ जलदेवः । * इत आरभ्य + एतहिपर्यन्तं पाठो नास्ति खंपुस्तके ५ कमलानाम् । नानाप्र सं १, खं ॥ ६ सूत्रधाराः । ७ मृदङ्गवादकाः । ८ पणववादकाः । दृश्यत खंता ॥ [ भरतेश्वरः सं २, आ ॥ ९ मयूरस्य । १० पिच्छम् । ११ सूर्यचन्द्ररहिते । स्निग्धकुन्तलः आ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254