Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 174
________________ पष्टः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । १५३ महसेनान्वयनभश्चन्द्र! चन्द्रप्रभ ! प्रभो ! । भगवन् ! लक्ष्मणाकुक्षिसरसीहंस! रक्ष नः॥ ६६१ ॥ श्रीरामानन्दनाराममहीकल्पमहीरुह! । सुग्रीवसूनो! सुविधे !, विधेहि शिवमाशु नः ॥ ६६२ ॥ नन्दादेवीहृदानन्द !, स्वामिन् ! दृढरथात्मज! । जगदाह्लादशीतांशो', श्रीशीतल ! मुदे भव ॥६६३।। श्रीविष्णुदेवीतनय, विष्णुराड्वंशमौक्तिक! । निःश्रेयसश्रीरमण !, श्रेयांस ! श्रेयसे भव ॥६६४॥ जयाविदूरभूरन !, वसुपूज्यनृपात्मज! । वासुपूज्य ! जगत्पूज्य !, विश्राणय शिवश्रियम् ॥६६५ ॥ 5 श्यामाशमीशमीगर्भ!, कृतवर्मनृपात्मज!। भगवन् ! विमलस्वामिन् !, विमलीकुरु मे मनः ॥६६६॥ श्रीसिंहसेनभूपालकुलमङ्गलदीपक! । सुयशःस्वामिनीसूनोऽनन्ताऽनन्तं सुखं तनु ॥ ६६७ ॥ सुव्रतामाग्गिरितटीभानो! भानुनृपात्मज! । श्रीधर्मनाथ ! भगवन्!, धेहि धर्मे धियं मम ॥६६८॥ विश्वसेनकुलोत्तंसाऽचिरादेवीतनूद्भव! । श्रीशान्तिनाथ! भगवन् !, भव नः कर्मशान्तये ॥६६९॥ सूरान्वयवियत्सूर!, श्रीराज्ञीकुक्षिसम्भव! । कुन्थुनाथ ! जगन्नाथ, जयोन्मथितमन्मथ ! ॥६७०॥10 देवीशरच्छ्रीकुमुद !, सुदर्शननृपात्मज ! । अरनाथ ! वितर मे, भवोत्तरणवैभवम् ॥ ६७१ ॥ कुम्भाम्भोधिसुधाकुम्भ, प्रभावत्यङ्गसम्भव! । कर्मक्षयमहामल्ल, मल्लिनाथ ! शिवं दिश ॥६७२।। सुमित्रहिमवत्पग्रहद ! पद्मावतीसुत! । मुनिसुव्रततीर्थेश, नमस्ते परमेश्वर ! ॥ ६७३ ॥ वप्रावज्राकरमहीवज्र! श्रीविजयात्मज! । जगन्नमस्यपादाब्ज!, नमस्तुभ्यं नमिप्रभो! ॥ ६७४ ॥ शिवगामिन् ! शिवासनो, समुद्रानन्दचन्द्रमः! अरिष्टनेमे ! भगवन् !, नमः कारुणिकाय ते॥६७५॥15 अश्वसेनावनीपालकुलचूलामणे! प्रभो ! । वामामुनो ! नमस्तुभ्यं, श्रीमत्पार्श्वजिनेश्वर ! ॥ ६७६ ॥ सिद्धिसम्प्राप्तिसिद्धार्थ, सिद्धार्थनृपनन्दन ! । त्रिशलाहृदयाश्वास!, श्रीवीर ! भवते नमः ॥६७७॥ इति स्तुत्वा नमस्कृत्य, सवोन प्रत्येकमहेतः। चैत्यात सिंहनिषद्याया.निर्ययौ भरतेश्वरः॥६७८॥ विलोकयन् वलद्वीवं, तच्चैत्यं प्रियमित्रवत् । उत्तताराष्टापदादूर्भरतः सपरिच्छदः ॥ ६७९ ॥ प्राग्विलग्नमना लग्नवस्त्राञ्चल इवाऽचलत् । मन्दं मन्दं प्रत्ययोध्यमयोध्याधिपतिस्ततः ॥ ६८०॥ 20 सैन्योद्धृतै रजःपूरैः, शोकपूरैरिवाऽऽकुलाः । दिशोऽपि कुर्वन् शोकार्तस्तां पुरीं प्राप भूपतिः ॥ ६८१॥ तदुःखदुःखितैर्वाद, सोदरैरिव नागरैः । सास्रग्भिदृश्यमानो, विनीतां प्राविशन्नृपः ॥ ६८२ ॥ सारं सारं स्वामिपादान , वृष्टशेष इवाऽम्बुदः । सोऽसाम्बुविनुषो वर्षन् , खं विवेश निवेशनम् ॥ ६८३॥ तिष्ठन् गच्छन् स्वपन् जाग्रद् , बहिर्मध्ये दिवा निशि । दध्यौ स प्रभुमेवार्थ, हृतार्थ इव तद्धनः ॥६८४॥ अप्यन्यहेतुनाऽऽयातानष्टापदतलानरान् । प्रभुं प्रथयतः पूर्व, स पूर्ववदमन्यत ।। ६८५॥ आदौ पशुवदज्ञानं, व्यवहारनये जनम् । इमं प्रवर्त्तयामास, गृहवासस्थितोऽपि यः ॥ ६८६ ॥ आत्तदीक्षश्च भगवानचिरोत्पन्नकेवलः । उद्दिधीर्षर्भवाम्भोधैर्धर्मे प्रावर्त्तयजगत् ।। ६८७ ॥ कृतकृत्यः स्वयं कृत्वा, कृतकृत्यान् जनानपि । यः पदं परमं प्राप, तं कथं नाम शोचसि ? ॥६८८ ॥ शोकाकुलः कुलामात्यैः, कथञ्चिदपि बोधितः । शनकै राजकार्येषु, प्रावर्त्तत महीपतिः॥ ६८९ ॥ [चतुर्भिः कलापकम् ] 80 शनैः शनैः शोकमुक्तो, राहुमुक्त इवोडपः । बहिर्विहारभूमिषु, विचचार नरेश्वरः ॥ ६९० ॥ स्वामिपादानसौ स्मृत्वा, गजो विन्ध्यस्थलीमिव । विषदन्नेत्याऽऽप्तजनैः, सदाऽऽसनैय॑नोद्यत ॥ ६९१ ॥ परिवारानुरोधेन, कदाऽप्यारामवीथिषु । विनोदोत्पत्तिभूमिषु, जगाम जगतीपतिः ॥ ६९२ ॥ स्त्रीराज्येनेवाऽऽगतेन, समं वैणेन तत्र च । लतामण्डपशय्यासु, रेमे रम्यासु भूपतिः ॥ ६९३ ॥ , सूरवंशगगनसूर्य!। २ देवीशरलक्ष्मीकुमुद !। ३ सुमित्राहिमाचलपानद!। ४ अश्रुजलबिन्दून् । ५ कृपणः । उद्वर्तुमिच्छुः । ७ आगत्य । ८ स्त्रीसमूहेन । त्रिषष्टि. २० 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254