Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 176
________________ षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । प्रैवेयकमहासीच, ग्रीवां तद्रहितामथ । नृपो ददर्श निःश्रीकां, निम्नंगामिव निर्जलाम् ॥ ७२६ ॥ हारमुत्तारयामासाऽऽलोकयामास च क्षणात् । वक्षःस्थलं तद्विहीनं, व्योमेव गततारकम् ॥ ७२७॥ केयूरे चाऽमुचद् बाहू, तन्मुक्तौ च ददर्श सः । उद्वेष्टितार्द्धलतिकापाशौ सालद्रुमाविव ॥ ७२८ ॥ कङ्कणौ चाऽत्यजत् पाणिमूले ताभ्यां च वर्जिते । निरामलसारकाग्रप्रासादवदुदैवत ॥ ७२९ ॥ अन्यान्यप्यङ्गुलीयानि, तत्याजाऽऽलोकयच्च सः । तद्धीना अङ्गुलीभ्रष्टमणीः फणिफणा इव ॥ ७३० ॥ तत्याज पादकटकौ, ददर्शाऽङ्गी तदुज्झितौ । गलितवर्णवलयौ, राजेभदशनाविव ॥ ७३१ ॥ इति क्रमेण भरतस्त्यक्तसर्वाङ्गभूषणम् । खमपश्यत् गतश्रीकं, शीर्णपर्णमिव द्रुमम् ॥ ७३२ ॥ अचिन्तयच्च धिगहो, वपुषो भूषणादिभिः । श्रीराहार्यैव कुंड्यस्य, पुस्तायैरिख कर्मभिः ॥ ७३३ ॥ अन्तःक्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं शरीरस्य, किमप्यस्य न शोभनम् १ ॥ ७३४ ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपाथांस्यूपरभूरिव ॥ ७३५ ॥ विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य, जगृहे तत्त्ववेदिभिः॥ ७३६ ॥ इति चिन्तयतः सम्यगपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य, शुक्लध्यानमुपेयुषः ।। ७३७ ॥ घातिकर्मक्षयादाविरासीत् तस्याऽथ केवलम् । सूर्यप्रकाशो जीमूतपटलापगमादिव ॥ ७३८ ॥ सहसाऽऽसनकम्पोऽभूत् , तदानीं च दिवस्पतेः । महद्भ्यो महतामृद्धिमपि शंसन्त्यचेतनाः ॥ ७३९ ॥ भक्त्या तमभ्यगाच्चेन्द्रो, भक्ता हि प्रतिपत्तिदाः । स्वामिवत् खामिपुत्रेऽपि, किं पुनः प्राप्तकेवले १ ॥७४०॥15 शक्रोऽभ्यधाद् द्रव्यलिङ्गं, प्रतिपद्यस्व केवलिन् ! । यथा वन्दे विदधे च, तव निष्क्रमणोत्सवम् ॥७४१॥ ततश्च बाहुबलिवद्, विदधे भरतेश्वरः । प्रवज्यालक्षणं केशोत्पाटनं पञ्चमुष्टिकम् ॥ ७४२ ॥ उपनीतं यथा सन्निहितदेवतया ततः। रजोहरणमुख्योपकरणं भरतोऽग्रहीत् ॥ ७४३॥ ववन्दे देवराजेन, ततश्च भरतेश्वरः। न जातु वन्द्यते प्रामकेवलोऽपि बदीक्षितः ॥ ७४४॥ राज्ञां दशसहस्राश्च, प्रावजन्नार्षभिं श्रिताः । तादृशखामिसेवा हि, परत्राऽपि सुखाकरी ॥ ७४५॥ __अथ विश्वम्भराभारं, सोढुर्भरतजन्मनः । राज्याभिषेकमकरोदादित्ययशसो हरिः ॥ ७४६ ॥ आरभ्य केवलोत्पत्तेऋषभखामिवत् ततः । ग्रामाकरपुरारण्यगिरिद्रोणमुखादिषु ॥ ७४७॥ धर्मदेशनया भव्यान् , देहभाजः प्रबोधयन् । पूर्वलक्षं विजहार, भरतः सपरिच्छदः ॥ ७४८॥ अष्टापदगिरौ गत्वा, ततश्च भरतेश्वरः । चक्रे चतुर्विधाहारप्रत्याख्यानं यथाविधि ॥ ७४९ ॥ अथैकमासपर्यन्ते, चन्द्रे श्रवणऋक्षगे । सिद्धानन्तचतुष्कोऽसौ, सिद्धिक्षेत्रमुपाययौ ॥ ७५० ॥ 25 ____ एवं च भरतः पूर्वलक्षाणां सप्तसप्ततिम् । कुमारभावेऽमयत्, प्रभौ शासति मेदिनीम् ॥ ७५१ ॥ एकं माण्डलिकत्वे च, सहस्रं शरंदामसौ । अतिवाहितवांश्छद्मस्थतया भगवानिव ॥ ७५२ ॥ एकवर्षसहस्रोनपूर्वलक्षाणि षद् तथा । आर्षभिर्व्यतिचक्राम, चक्रवर्तित्वमुद्वहन ॥ ७५३ ॥ उत्पन्नकेवलज्ञानो, विश्वानुग्रहकाम्यया । विजहे पूर्वलक्षं च, दिवसं भानुमानिव ॥ ७५४ ॥ इत्यायुषा चतुरशीतिमतीत्य पूर्वलक्षाणि मोक्षमगमद् भरतो महात्मा । शक्रेण मोक्षमहिमा विदधे च तस्य, देवैः समं सपदि कन्दलितप्रमोदैः ॥ ७५५ ॥ 30 ग्रीवाभूषणम् । २ नदीम् । * चाऽमुचत् खं ॥ ३ भित्तेः। ५ लेप्यकर्मायैः। ५ क्षारभूमिः । तमन्वगासं २ ॥ नपा दशसहस्राणि प्रा. आ, सं२॥ ६ परलोकेऽपि । श्रवणनक्षत्रगे। ८ वर्षाणाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254