________________
षष्ठः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । प्रैवेयकमहासीच, ग्रीवां तद्रहितामथ । नृपो ददर्श निःश्रीकां, निम्नंगामिव निर्जलाम् ॥ ७२६ ॥ हारमुत्तारयामासाऽऽलोकयामास च क्षणात् । वक्षःस्थलं तद्विहीनं, व्योमेव गततारकम् ॥ ७२७॥ केयूरे चाऽमुचद् बाहू, तन्मुक्तौ च ददर्श सः । उद्वेष्टितार्द्धलतिकापाशौ सालद्रुमाविव ॥ ७२८ ॥ कङ्कणौ चाऽत्यजत् पाणिमूले ताभ्यां च वर्जिते । निरामलसारकाग्रप्रासादवदुदैवत ॥ ७२९ ॥ अन्यान्यप्यङ्गुलीयानि, तत्याजाऽऽलोकयच्च सः । तद्धीना अङ्गुलीभ्रष्टमणीः फणिफणा इव ॥ ७३० ॥ तत्याज पादकटकौ, ददर्शाऽङ्गी तदुज्झितौ । गलितवर्णवलयौ, राजेभदशनाविव ॥ ७३१ ॥ इति क्रमेण भरतस्त्यक्तसर्वाङ्गभूषणम् । खमपश्यत् गतश्रीकं, शीर्णपर्णमिव द्रुमम् ॥ ७३२ ॥
अचिन्तयच्च धिगहो, वपुषो भूषणादिभिः । श्रीराहार्यैव कुंड्यस्य, पुस्तायैरिख कर्मभिः ॥ ७३३ ॥ अन्तःक्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं शरीरस्य, किमप्यस्य न शोभनम् १ ॥ ७३४ ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपाथांस्यूपरभूरिव ॥ ७३५ ॥ विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य, जगृहे तत्त्ववेदिभिः॥ ७३६ ॥ इति चिन्तयतः सम्यगपूर्वकरणक्रमात् । क्षपकश्रेण्यारूढस्य, शुक्लध्यानमुपेयुषः ।। ७३७ ॥ घातिकर्मक्षयादाविरासीत् तस्याऽथ केवलम् । सूर्यप्रकाशो जीमूतपटलापगमादिव ॥ ७३८ ॥
सहसाऽऽसनकम्पोऽभूत् , तदानीं च दिवस्पतेः । महद्भ्यो महतामृद्धिमपि शंसन्त्यचेतनाः ॥ ७३९ ॥ भक्त्या तमभ्यगाच्चेन्द्रो, भक्ता हि प्रतिपत्तिदाः । स्वामिवत् खामिपुत्रेऽपि, किं पुनः प्राप्तकेवले १ ॥७४०॥15 शक्रोऽभ्यधाद् द्रव्यलिङ्गं, प्रतिपद्यस्व केवलिन् ! । यथा वन्दे विदधे च, तव निष्क्रमणोत्सवम् ॥७४१॥
ततश्च बाहुबलिवद्, विदधे भरतेश्वरः । प्रवज्यालक्षणं केशोत्पाटनं पञ्चमुष्टिकम् ॥ ७४२ ॥ उपनीतं यथा सन्निहितदेवतया ततः। रजोहरणमुख्योपकरणं भरतोऽग्रहीत् ॥ ७४३॥ ववन्दे देवराजेन, ततश्च भरतेश्वरः। न जातु वन्द्यते प्रामकेवलोऽपि बदीक्षितः ॥ ७४४॥ राज्ञां दशसहस्राश्च, प्रावजन्नार्षभिं श्रिताः । तादृशखामिसेवा हि, परत्राऽपि सुखाकरी ॥ ७४५॥ __अथ विश्वम्भराभारं, सोढुर्भरतजन्मनः । राज्याभिषेकमकरोदादित्ययशसो हरिः ॥ ७४६ ॥
आरभ्य केवलोत्पत्तेऋषभखामिवत् ततः । ग्रामाकरपुरारण्यगिरिद्रोणमुखादिषु ॥ ७४७॥ धर्मदेशनया भव्यान् , देहभाजः प्रबोधयन् । पूर्वलक्षं विजहार, भरतः सपरिच्छदः ॥ ७४८॥ अष्टापदगिरौ गत्वा, ततश्च भरतेश्वरः । चक्रे चतुर्विधाहारप्रत्याख्यानं यथाविधि ॥ ७४९ ॥ अथैकमासपर्यन्ते, चन्द्रे श्रवणऋक्षगे । सिद्धानन्तचतुष्कोऽसौ, सिद्धिक्षेत्रमुपाययौ ॥ ७५० ॥ 25 ____ एवं च भरतः पूर्वलक्षाणां सप्तसप्ततिम् । कुमारभावेऽमयत्, प्रभौ शासति मेदिनीम् ॥ ७५१ ॥ एकं माण्डलिकत्वे च, सहस्रं शरंदामसौ । अतिवाहितवांश्छद्मस्थतया भगवानिव ॥ ७५२ ॥ एकवर्षसहस्रोनपूर्वलक्षाणि षद् तथा । आर्षभिर्व्यतिचक्राम, चक्रवर्तित्वमुद्वहन ॥ ७५३ ॥ उत्पन्नकेवलज्ञानो, विश्वानुग्रहकाम्यया । विजहे पूर्वलक्षं च, दिवसं भानुमानिव ॥ ७५४ ॥
इत्यायुषा चतुरशीतिमतीत्य पूर्वलक्षाणि मोक्षमगमद् भरतो महात्मा । शक्रेण मोक्षमहिमा विदधे च तस्य, देवैः समं सपदि कन्दलितप्रमोदैः ॥ ७५५ ॥
30
ग्रीवाभूषणम् । २ नदीम् । * चाऽमुचत् खं ॥ ३ भित्तेः। ५ लेप्यकर्मायैः। ५ क्षारभूमिः । तमन्वगासं २ ॥ नपा दशसहस्राणि प्रा. आ, सं२॥ ६ परलोकेऽपि । श्रवणनक्षत्रगे। ८ वर्षाणाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org