________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
७०४ ॥
कुसुमाहरणां विद्याधराणामिव तत्र सः । कुसुमावचयक्रीडां, यूनामैक्षिष्ट कौतुकात् ॥ ६९४ ॥ ग्रथित्वा पुष्पनेपथ्यं, बरवामभ्रुवः स्वयम् । प्रसूनेधन्वनः पूजामिव तस्योपनिन्यिरे ॥ ६९५ ॥ सर्वाङ्गपुष्पाभरणाश्चिक्रीडुस्तत्पुरोऽङ्गनाः । ऋतुश्रिय इवाऽसङ्ख्यीभूतास्तं समुपासितुम् ॥ ६९६ ॥ रराज राजराजोऽपि सर्वतः पुष्पभूषणः । तासामृतुदेवतानामिवैकमधिदैवतम् ।। ६९७ ॥ 5 कदाचित् क्रीडितुं क्रीडादीर्घिकां सवधूजनः । राजहंस इव खैरं प्रययौ भरतेश्वरः ।। ६९८ ॥ तत्र चक्रे जलक्रीडां, वामनेत्राभिरार्षभिः । करेणुकाभिः सहितो, रेवायामिव कुञ्जरः ॥ ६९९ ॥ आलिङ्गन्त्यः क्षणं कण्ठे, क्षणं दोष्णोः क्षणं हृदि । तमापेतुः पयोवीच्यो, वामाक्षीशिक्षिता इव ॥ ७०० ॥ अवतंसीकृताम्भोजश्चलन्मौक्तिककुण्डलः । भरतो वरुणः साक्षादिवाऽलक्ष्यत वारिणि ।। ७०१ ॥ लीलाविलाससाम्राज्यनिवेशायेव भूपतिः । अहंपूर्विकया स्त्रीभिरभ्यषिच्यत वारिभिः ॥ ७०२ ॥ अप्सरोभिरिव जलदेवताभिरिवाऽभितः । जलकेलिप्रसक्ताभी, रेमे ताभिर्महीपतिः ॥ ७०३ ॥ स्वप्रतिस्पर्द्धिनां वारिजन्मनामिव दर्शनात् । वारिभिस्ताम्रतामापुः कुरङ्गकदृशां दृशः अङ्गनानामङ्गरागैरङ्गाद् विगलितैर्घनैः । आपः सकर्दमा यक्षकर्दमत्वं प्रपेदिरे ।। ७०५ ।। सङ्गीतकं कारयितुं, कदाचिदपि शक्रवत् । विलासमण्डपास्थानीमातस्थौ पृथिवीपतिः ।। ७०६ ॥ ॐकारमिव मत्राणामाद्यं सङ्गीतकर्मणाम् । सुखरं पूरयामासुर्वेणुं वैणविकोत्तमाः ॥ ७०७ ॥ 15 पुष्पादिभिः श्रुतिसुखैर्व्यक्तैर्व्यञ्जनधातुभिः । वैणिका वादयामासुर्वीणा एकादशाऽपि ताः ॥ ७०८ ॥ तत्तत्कवित्वानुगतं, नाम्ना प्रस्तारसुन्दरम् । रङ्गचार्या दधुस्तालं, नृत्ताभिनयमातरम् ।। ७०९ ॥ प्रिय मित्रवदन्योऽन्यमनुज्झन्तो मनागपि । मार्दङ्गिकाः पाणविकाः स्वं स्वं वाद्यमवादयन् ॥ ७१० ॥ जातिरागान् नवनवान्, खरगीतिमनोरमान् । गायनाश्च जगुर्हाहाहूह्वहङ्कारहारिणः ॥ ७११ ॥ चित्रीयमाणाश्वित्रैश्वाऽङ्गहारैः करणैरपि । नर्त्तक्यो ननृतुस्तारं, लास्यताण्डवपण्डिताः ।। ७१२ ।। 20 प्रेक्षाञ्चक्रे प्रेक्षणीयानीत्यविघ्नं महीपतिः । यत्र तत्र प्रसक्तानां प्रभूणां को हि बाधकः १ ।। ७१३ ॥ सांसारिक सुखान्येवं, भुञ्जानो भरतेश्वरः । खामिमोक्षदिनात् पूर्वलक्षाः पञ्चात्यवाहयत् ।। ७१४ ॥ अपरेद्युः कृतस्नानः, प्रक्लृप्तबलिकर्मकः । देवदूष्यांशुकोन्मृष्टशरीरः स्रग्विकुन्तलः ।। ७१५ ॥ गोशीर्षचन्दनकृतसर्वाङ्गीणविलेपनः । सर्वाङ्गनिहितानर्घ्यदिव्यरत्नविभूषणः ॥ ७१६ ॥ सोऽन्तःपुरनिकेतान्तर्वरस्त्रीपरिवारितः । वेत्रिण्या दर्श्यमानाध्वा, रत्नादर्शगृहं ययौ ॥ ७१७ ॥ [ त्रिभिर्विशेषकम् ] प्रतिबिम्बितमत्यच्छे, गगनस्फटिकोपमे । यथाप्रमाणं सर्वाङ्ग, रूपं तत्र हिं दृश्यते ॥ ७१८ ॥ तत्र च प्रेक्षमाणस्य, स्वं वपुर्भरतेशितुः । अङ्गुल्या एकतमस्या, निपपाताऽङ्गुलीयकम् ॥ ७१९ ॥ तदङ्गुल्या गलितमप्यङ्गुलीयं महीपतिः । नाऽज्ञासीद् बेर्हिणो बर्हभाराद् बर्हमिवैंककम् ॥ ७२० ॥ वपुः पश्यन् क्रमेणेक्षाञ्चक्रे तां चत्र्यनर्मिकाम् । अङ्गुलीं गलितज्योत्स्त्रां, दिवा शशिकलामिव ।। ७२१ ॥ अहो ! विशोभा किमसाङ्गुलीति विचिन्तयन् । ददर्श पतितं भूमावङ्गुलीयं नरेश्वरः ॥ ७२२ ॥ किमन्यान्यपि विशोभान्यङ्गान्याभरणैर्विना १ । इति मोक्तुं स आरेभे, भूषणान्यपराण्यपि ॥ ७२३ ॥ आदावुत्तारयामास, माणिक्यमुकुटं नृपः । तद्धीनं च शिरोऽपश्यच्युतरत्नामिवोर्मिकाम् || ७२४ ॥ माणिक्यकुण्डले प्रोज्झ्य, तद्धीनौ च ददर्श सः । कर्णपाशावनैकेंन्दू, पूर्वापरदिशाविव ॥ ७२५ ।।
10
25
30
१५४
१ कामदेवस्य । २ नर्मदायाम् । ३ भुजयोः । ४ जलदेवः । * इत आरभ्य + एतहिपर्यन्तं पाठो नास्ति खंपुस्तके ५ कमलानाम् । नानाप्र सं १, खं ॥ ६ सूत्रधाराः । ७ मृदङ्गवादकाः । ८ पणववादकाः । दृश्यत खंता ॥ [ भरतेश्वरः सं २, आ ॥ ९ मयूरस्य । १० पिच्छम् । ११ सूर्यचन्द्ररहिते ।
स्निग्धकुन्तलः आ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org