________________
पष्टः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१५३ महसेनान्वयनभश्चन्द्र! चन्द्रप्रभ ! प्रभो ! । भगवन् ! लक्ष्मणाकुक्षिसरसीहंस! रक्ष नः॥ ६६१ ॥ श्रीरामानन्दनाराममहीकल्पमहीरुह! । सुग्रीवसूनो! सुविधे !, विधेहि शिवमाशु नः ॥ ६६२ ॥ नन्दादेवीहृदानन्द !, स्वामिन् ! दृढरथात्मज! । जगदाह्लादशीतांशो', श्रीशीतल ! मुदे भव ॥६६३।। श्रीविष्णुदेवीतनय, विष्णुराड्वंशमौक्तिक! । निःश्रेयसश्रीरमण !, श्रेयांस ! श्रेयसे भव ॥६६४॥ जयाविदूरभूरन !, वसुपूज्यनृपात्मज! । वासुपूज्य ! जगत्पूज्य !, विश्राणय शिवश्रियम् ॥६६५ ॥ 5 श्यामाशमीशमीगर्भ!, कृतवर्मनृपात्मज!। भगवन् ! विमलस्वामिन् !, विमलीकुरु मे मनः ॥६६६॥ श्रीसिंहसेनभूपालकुलमङ्गलदीपक! । सुयशःस्वामिनीसूनोऽनन्ताऽनन्तं सुखं तनु ॥ ६६७ ॥ सुव्रतामाग्गिरितटीभानो! भानुनृपात्मज! । श्रीधर्मनाथ ! भगवन्!, धेहि धर्मे धियं मम ॥६६८॥ विश्वसेनकुलोत्तंसाऽचिरादेवीतनूद्भव! । श्रीशान्तिनाथ! भगवन् !, भव नः कर्मशान्तये ॥६६९॥ सूरान्वयवियत्सूर!, श्रीराज्ञीकुक्षिसम्भव! । कुन्थुनाथ ! जगन्नाथ, जयोन्मथितमन्मथ ! ॥६७०॥10 देवीशरच्छ्रीकुमुद !, सुदर्शननृपात्मज ! । अरनाथ ! वितर मे, भवोत्तरणवैभवम् ॥ ६७१ ॥ कुम्भाम्भोधिसुधाकुम्भ, प्रभावत्यङ्गसम्भव! । कर्मक्षयमहामल्ल, मल्लिनाथ ! शिवं दिश ॥६७२।। सुमित्रहिमवत्पग्रहद ! पद्मावतीसुत! । मुनिसुव्रततीर्थेश, नमस्ते परमेश्वर ! ॥ ६७३ ॥ वप्रावज्राकरमहीवज्र! श्रीविजयात्मज! । जगन्नमस्यपादाब्ज!, नमस्तुभ्यं नमिप्रभो! ॥ ६७४ ॥ शिवगामिन् ! शिवासनो, समुद्रानन्दचन्द्रमः! अरिष्टनेमे ! भगवन् !, नमः कारुणिकाय ते॥६७५॥15 अश्वसेनावनीपालकुलचूलामणे! प्रभो ! । वामामुनो ! नमस्तुभ्यं, श्रीमत्पार्श्वजिनेश्वर ! ॥ ६७६ ॥ सिद्धिसम्प्राप्तिसिद्धार्थ, सिद्धार्थनृपनन्दन ! । त्रिशलाहृदयाश्वास!, श्रीवीर ! भवते नमः ॥६७७॥
इति स्तुत्वा नमस्कृत्य, सवोन प्रत्येकमहेतः। चैत्यात सिंहनिषद्याया.निर्ययौ भरतेश्वरः॥६७८॥ विलोकयन् वलद्वीवं, तच्चैत्यं प्रियमित्रवत् । उत्तताराष्टापदादूर्भरतः सपरिच्छदः ॥ ६७९ ॥ प्राग्विलग्नमना लग्नवस्त्राञ्चल इवाऽचलत् । मन्दं मन्दं प्रत्ययोध्यमयोध्याधिपतिस्ततः ॥ ६८०॥ 20 सैन्योद्धृतै रजःपूरैः, शोकपूरैरिवाऽऽकुलाः । दिशोऽपि कुर्वन् शोकार्तस्तां पुरीं प्राप भूपतिः ॥ ६८१॥ तदुःखदुःखितैर्वाद, सोदरैरिव नागरैः । सास्रग्भिदृश्यमानो, विनीतां प्राविशन्नृपः ॥ ६८२ ॥ सारं सारं स्वामिपादान , वृष्टशेष इवाऽम्बुदः । सोऽसाम्बुविनुषो वर्षन् , खं विवेश निवेशनम् ॥ ६८३॥ तिष्ठन् गच्छन् स्वपन् जाग्रद् , बहिर्मध्ये दिवा निशि । दध्यौ स प्रभुमेवार्थ, हृतार्थ इव तद्धनः ॥६८४॥ अप्यन्यहेतुनाऽऽयातानष्टापदतलानरान् । प्रभुं प्रथयतः पूर्व, स पूर्ववदमन्यत ।। ६८५॥ आदौ पशुवदज्ञानं, व्यवहारनये जनम् । इमं प्रवर्त्तयामास, गृहवासस्थितोऽपि यः ॥ ६८६ ॥ आत्तदीक्षश्च भगवानचिरोत्पन्नकेवलः । उद्दिधीर्षर्भवाम्भोधैर्धर्मे प्रावर्त्तयजगत् ।। ६८७ ॥ कृतकृत्यः स्वयं कृत्वा, कृतकृत्यान् जनानपि । यः पदं परमं प्राप, तं कथं नाम शोचसि ? ॥६८८ ॥ शोकाकुलः कुलामात्यैः, कथञ्चिदपि बोधितः । शनकै राजकार्येषु, प्रावर्त्तत महीपतिः॥ ६८९ ॥
[चतुर्भिः कलापकम् ] 80 शनैः शनैः शोकमुक्तो, राहुमुक्त इवोडपः । बहिर्विहारभूमिषु, विचचार नरेश्वरः ॥ ६९० ॥ स्वामिपादानसौ स्मृत्वा, गजो विन्ध्यस्थलीमिव । विषदन्नेत्याऽऽप्तजनैः, सदाऽऽसनैय॑नोद्यत ॥ ६९१ ॥ परिवारानुरोधेन, कदाऽप्यारामवीथिषु । विनोदोत्पत्तिभूमिषु, जगाम जगतीपतिः ॥ ६९२ ॥ स्त्रीराज्येनेवाऽऽगतेन, समं वैणेन तत्र च । लतामण्डपशय्यासु, रेमे रम्यासु भूपतिः ॥ ६९३ ॥
, सूरवंशगगनसूर्य!। २ देवीशरलक्ष्मीकुमुद !। ३ सुमित्राहिमाचलपानद!। ४ अश्रुजलबिन्दून् । ५ कृपणः । उद्वर्तुमिच्छुः । ७ आगत्य । ८ स्त्रीसमूहेन ।
त्रिषष्टि. २०
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org