________________
१५२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीत
[प्रथमं पर्व अष्टापदाद्रेर्मूर्धन्यमिव माणिक्यभूषणम् । नन्दीश्वरादिचैत्यानां, स्पर्द्धयेवाऽतिपावनम् ॥ ६२८ ॥ तचैत्यं भरतस्याऽऽज्ञातुल्यकालं कलाविदा । तेन वर्द्धकिरत्नेन, व्यधीयत यथाविधि ॥ ६२९ ॥
[षोडशभिः कुलकम् ] तत्रैव कारयामास, दिव्यरत्नशिलामयीः । भ्रातृणां नवनवतेः, प्रतिमा भरतेश्वरः ॥ ६३० ॥ 5 शुश्रूषमाणां प्रतिमामात्मनोऽपि महीपतिः । कारयामास तत्रैव, स हि भक्तेरतृप्तिकः ॥ ६३१॥
चैत्याद् बहिर्भगवतः, स्तूपमेकमकारयत् । भ्रातृणां शतमेकोनं, स्तूपांश्च भरतेश्वरः ॥ ६३२ ॥ अत्र माऽऽशातनां कार्युर्गमनागमनैनराः । इत्यकार्षीद् यत्रमयान् , लौहानारक्षकान् नृपः ॥ ६३३ ॥ आरक्षपुरुषैलौहैर्यत्रायुक्तैश्च तैरभूत् । नृणामगम्यं स्थानं तन्माद् बहिरिव स्थितम् ॥ ६३४ ॥
दण्डरत्नेन रत्नेशो, दन्तांश्चिच्छेद तत्र च । ऋजूच्चस्तम्भवत् सोऽदिरनारोह्यस्ततोऽभवत् ।। ६३५॥ 10 नृपो नृभिरलङ्घयानि, योजनान्तरितानि च । पदानि मेखलारूपाण्यष्टौ तं परितो व्यधात् ॥ ६३६ ॥ ततः प्रभृति शैलोऽसौ, नाम्नाष्टापद इत्यभूत् । लोके हराद्रिः कैलासः, स्फटिकाद्रिश्च कीर्त्यते ॥६३७॥
इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः ॥ ६३८॥ कृत्वा प्रदक्षिणां तत्र, प्रतिमास्ताः सुगन्धिभिः । उदकैः पयामास, भूपतिः सपरिच्छदः ॥ ६३९ ॥
ममार्ज देवदूष्यैश्च, भरतः परितोऽपि ताः । रत्नादर्श इवाऽभूवंस्तास्ततश्चाऽधिकोज्वलाः ॥ ६४० ॥ 15 गोशीर्षचन्दनरसैर्विलिलेप नृपोऽथ ताः । सुगन्धिस्त्यानतां प्राप्तयोत्स्नापूरैरिवाऽमलैः ॥ ६४१॥
ताः क्षमापतिरानर्च, विचित्र रत्नभूषणैः । दिव्यदामभिरुदामैर्देवदूष्यांशुकैरपि ॥ ६४२ ॥ ददाह वादयन् घण्टां, धूपं तद्भूमवर्तिभिः । कुर्वन् चैत्यान्तरं नीलवल्लरीभिरिवाङ्कितम् ॥ ६४३ ॥ ततश्चोत्तारयामास, कर्पूरारात्रिकं नृपः । संसारशीतभीतानामग्निकुण्डमिव ज्वलत् ॥ ६४४ ॥ ऋषभखामिनो नत्वा, प्रतिमां भरतेश्वरः । आक्रान्तः शोकभक्तिभ्यां, स्तोतुं प्रस्तुतवानिति ॥६४५॥
कल्याणैः पञ्चभिर्दत्तसुखाय वभ्रिणामपि । जगत्सुखाकर ! नमस्तुभ्यं त्रिजगदीश्वर ! ॥ ६४६ ॥ स्वामिन् ! विश्व॑जनीनेन, त्वया विहरताऽन्वहम् । रविणेवाऽनुगृहीतं, चराचरमिदं जगत् ॥ ६४७ ॥ अप्यार्याणामनार्याणां, प्रीतये व्यहरश्चिरम् । गतिः परोपकाराय, भवतः पवनस्य च ॥ ६४८ ॥ उपकर्तुमिहाऽन्येषां, व्यहापर्भिगवंश्चिरम् । मुक्तौ कस्योपकाराय, गतोऽसि परमेश्वर ! १ ॥६४९ ॥
लोकाग्रमद्य लोकाग्रं, भवता यदधिष्ठितम् । मर्त्यलोकोऽयमद्यैव, मर्त्यलोकस्त्वयोज्झितः ॥ ६५० ॥ 25 अद्यापि साक्षात् त्वमसि, तेषां भव्यशरीरिणाम् । विश्वानुग्रहकरिणी, देशनां ये सरन्ति ते ॥ ६५१ ॥
रूपस्थमपि ये ध्यानं, त्वयि नाथ ! प्रयुञ्जते । प्रभो! प्रत्यक्षमेवासि, तेषामपि महात्मनाम् ॥ ६५२॥ यथा संसारमत्याक्षीरशेषं परमेश्वर ! । निर्ममोऽपि तथा जातु, मा त्याक्षीर्मानसं मम ॥ ६५३ ॥ आदिनाथमिति स्तुत्वा, जिनेन्द्रानपरानपि । नत्वा नत्वेति प्रत्येकमुपश्लोकयति स सः ॥ ६५४ ॥
जयाऽजित ! जगन्नाथ!, कषायविषयाजित!। विजयाकुक्षिमाणिक्य !, जितशत्रुनृपात्मज! ॥६५५।। 30 जितारिसूनो! श्रीसेनाकुक्षिसम्भव ! सम्भव ! । भवव्योमातिक्रमणप्रभाकर! नमोऽस्तु ते ॥६५६ ॥
सिद्धार्थापूर्वदिक्सूर्य!, संवरान्वयमण्डन! । विश्वाभिनन्दन! विभोऽभिनन्दन ! पुनीहि नः ॥६५७॥ भगवन् ! मङ्गलादेवीमेघमालैकमौक्तिक ! । मेघान्वयावनीमेघ !, सुमते ! भवते नमः ॥ ६५८ ॥ स्वामिन् ! धरधराधीशसरित्पतिनिशाकर! । सुसीमाजाह्नवीपद्म!, पद्मप्रभ! नमोऽस्तु ते ॥ ६५९ ॥ श्रीसुपार्श्वप्रभो ! पृथ्वीमलयावनिचन्दन ! । श्रीप्रतिष्ठकुलगृहप्रतिष्ठास्तम्भ ! पाहि माम् ॥६६० ॥ १ आज्ञासमनन्तरम् । २ चक्री। ३ शशी। ४ सुगन्धिधनताम् । ५ चैत्यमध्यम् । ६ नारकाणाम्। विवाहितकारकेण । ८ मोक्षस् । ९ सर्वलोकोत्तरम् । १० मनुष्यलोकः। ११मरणोपितलोकः ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org