________________
षष्ठः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् देवच्छन्देऽभवन् रत्नप्रतिमास्तत्र निर्मलाः । ऋषभखामिमुख्यानां, चतुर्विंशतिरर्हताम् ॥ ५९५ ॥ प्रतिमाः खस्वसंस्थानमानवर्णधरास्तु ताः । साक्षादिव स्वामिनोऽभान् , शैलेशीध्यानवर्तिनः ॥ ५९६ ॥ तत्र षोडश सौवर्यो, राजावतकृते उभे । द्वे स्फाटिक्यौ द्वे वैडूर्यमय्यौ शोणाश्मजे उभे ॥ ५९७ ॥ तासां चाहत्प्रतिमानां, सर्वासामपि जज्ञिरे । लोहिताक्षप्रतिसेका, अङ्करत्नमया नखाः ॥५९८॥ नाभीकेशान्तभूजिह्वातालुश्रीवत्सचूच॒कम् । तलानि हस्तपादस्य, तोपनीयानि जज्ञिरे ॥ ५९९ ॥ 5 पक्ष्माणि ताराः श्मश्रूणि, ध्रुवो रोमाणि मूर्द्धजाः । रिष्टरत्नमयान्यासन् , वैद्रुमा दन्तवाससः॥६००॥ दन्ताच स्फटिकमयाः, शीर्षघट्यस्तु वज्रजाः । नासाश्चाऽन्तर्लोहिताक्षप्रतिसेकाः सुवर्णजाः ॥ ६०१॥ लोहिताक्षप्रतिसेकप्रान्ता अङ्ककृता दृशः । इत्यनेकमणीमय्यः, प्रतिमास्ताश्चकाशिरे ॥ ६०२॥ तासां च पृष्ठे प्रत्येकमेकैका रत्ननिर्मिता । छत्रधारप्रतिमा च, यथावन्मानशालिनी ॥ ६०३ ॥ मुक्ताप्रवालजालाढूं, सकुरण्टकदामकम् । श्वेतातपत्रं स्फटिकमणिदण्डं दधत्यभूत् ॥६०४॥ [युग्मम् ] 10 प्रत्येकं पार्श्वयोस्तासामुत्क्षिप्तमणिचामरे । चामरधारप्रतिमे, रत्नमय्यौ बभूवतुः ॥६०५॥ नांगयक्षभूतकुण्डधाराणां प्रतिमे उभे । प्रत्येकमग्रे भगवत्प्रतिमानां बभूवतुः ॥ ६०६॥ ताः कृताञ्जलयो रत्नमय्यः सर्वाङ्गमुज्ज्वलाः । निषेदिवांसः प्रत्यक्षा, इव नागादयो बभुः ॥ ६०७॥ देवच्छन्दे रत्नघण्टाश्चतुर्विंशतिरुज्वलाः । सशिप्तादित्यबिम्बाभास्तथा माणिक्यदर्पणाः ॥ ६०८॥ स्थानस्थदीपिका हैम्न्यस्तथा रत्नकरण्डकाः । पुष्पचङ्गेरिकाश्चङ्गाः, सरिदावर्त्तवर्तुलाः ॥६०९॥
15 लोमहेस्तपटल्योऽथ, विभूषणकरण्डकाः । हैमानि धूपदहनकानि चाऽऽरात्रिकाणि च ॥ ६१० ॥ रत्नमङ्गलदीपाश्च, रत्नभृङ्गारका अपि । स्फाराणि रत्नस्थालानि, तापनीयाः पतद्रहाः ॥ ६११ ॥ रत्नचन्दनकलसा, रत्नसिंहासनानि च । रत्नमय्योऽष्टमङ्गल्यो, हैमास्तैलसमुद्गकाः ॥ ६१२ ॥ धूपभाण्डानि हैमानि, हैमाश्चोत्पलहस्तकाः । पुरो बभूवुश्च चतुर्विंशतः श्रीमदर्हताम् ॥ ६१३ ॥ इति नानारत्नमय, त्रैलोक्येऽप्यतिसुन्दरम् । मूर्तेन धर्मेणेवेन्दुकान्तवप्रेण शोभितम् ॥ ६१४ ॥
20 ईहामृगोक्ष-मकर-तुरङ्ग-नर-किन्नरैः । विहङ्ग वालक-रुरु-शैरभैश्चमरैपिः ॥ ६१५ ॥ वनलताऽब्जलताभिर्विचित्राद्भुतभङ्गिकम् । बहुद्रुममिवोद्यानं, रत्नस्तम्भसमाकुलम् ॥ ६१६ ॥ व्योमगङ्गोर्मिभिरिव, पताकाभिर्मनोरमम् । उन्नतैर्दन्तुरमिव, ध्वजदण्डैश्च काश्चनैः ॥ ६१७ ॥ ध्वजस्थकिङ्किणीकाणैः, प्रसरद्भिनिरन्तरैः । खेचरस्त्रैणरसनादामध्वनिविडम्बकम् ॥ ६१८ ॥ उपरि भ्राजमानं च, विशालद्युतिशालिना । पद्मरागाश्मकुम्भेन, माणिक्येनाऽङ्गुलीयवत् ॥ ६१९ ॥ 25 क्वचित् पल्लवितमिव, संवर्मितमिव क्वचित् । कचिद् रोमाश्चितमिव, क्वचिल्लिप्तमिवाऽशुभिः ॥ ६२०॥ गोशीर्षचन्दनरसमयस्थासकलाञ्छितम् । अतिसुश्लिष्टसन्धित्वादेकग्राव्णेव निर्मितम् ॥ ६२१ ॥ माणिक्यशालभञ्जीभिश्चेष्टावैचित्र्यचारुभिः । अधिष्ठितनितम्बं चाऽप्सरोभिर्मेरुशैलवत् ॥ ६२२ ॥ द्वारदेशमुभयतो, लिप्ताभ्यां चन्दनद्रवैः । कुम्भाभ्यां पुण्डरीकाभ्यां, स्थलजाभ्यामिवाङ्कितम् ॥ ६२३ ॥ धूपितैर्दामभी रम्यं, तिर्यग्बद्धावलम्वितैः । कुसुमैः पञ्चवर्णैश्व, रचितप्रकरं तले ॥ ६२४ ॥ कर्परागरुकस्तूरीधूपधूमैश्च सन्ततैः । कालिन्येव कलिन्दादि, प्लाव्यमानमहर्निशम् ॥ ६२५ ॥ अप्सरोगणसङ्कीर्ण, द्योः पालकमिवाऽऽगतम् । वैताढ्यमेखलाखण्डमिव विद्याधरीवृतम् ॥ ६२६ ॥ अग्रतः पार्श्वतः पश्चाच्चारुभिश्चैत्यपादपैः । माणिक्यपीठिकाभिश्च, भूषणैरिव भूषितम् ॥ ६२७ ॥
१ राजावर्त्तारख्यरत्नविशेपकृते। २ लोहिताशमणि रसच्छटाः। ३ अङ्काख्यरत्नविशेषमयाः । ४ स्तनाग्रभागः। ५ सौवर्णानि । ६ रिटाख्यरत्नविशेषमयानि । ७ ओष्ठाः । ८ द्वे नागप्रतिमे, द्वे यक्षप्रतिमे, द्वे भूतप्रतिमे, द्वे कुडधारप्रतिमे च । ९ चामरसमूहाः । १० पात्राणि । ११ वृकः। १२ मृगविशेषः । १३ अष्टापदः। १४ यमुनया।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org