________________
१५०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व अन्यानगारिचित्याग्निं, चित्यान्योरन्ययोः पुनः । न हि सङ्क्रमयन्ति स्म, द्विजेष्वद्याऽप्यसौ विधिः ॥५६०॥ केचित् तु लब्धभसानो, भक्त्या भस ववन्दिरे । ततः प्रभृति जाताच, तापसा भमभूषणाः ॥ ५६१ ॥
चितास्थानत्रये देवा, रत्नस्तूपत्रयं ततः । अष्टापदगिरेनव्यं, शृङ्गत्रयमिव व्यधुः ॥ ५६२ ॥ ततो नन्दीश्वरद्वीपे, शाश्वतप्रतिमोत्सवम् । कुर्वाणास्ते तु गीर्वाणाः, सेन्द्राः खं खं पदं ययुः॥५६३॥ 5 इन्द्राः खस्खविमानेषु, सुधर्मायां च पर्षदि । अधिमाणवकस्तम्भं, वृत्तवज्रसमुद्के ॥ ५६४ ॥
न्यवेशयन् स्वामिदंष्ट्रा, आनषुश्च निरन्तरम् । तासां प्रभावात् तेषां च, सदा विजयमङ्गले ॥ ५६५ ॥ __भरतस्तत्र च स्वामिसंस्कारासन्नभूतले । प्रासादं योजनायाम, त्रिगव्यूतसमुच्छ्रयम् ।। ५६६ ॥ नामतः सिंहनिषद्यां, पद्यां निर्वाणवेश्मनः । उच्चैर्वर्द्धकिरत्नेन, रत्नाश्मभिरकारयत् ॥ ५६७ ॥
तस्स द्वाराणि चत्वारि, स्फटिकाश्ममयानि च । रम्याणि स्वामिसमवसरणस्येव जज्ञिरे ॥ ५६८ ॥ 10 प्रतिद्वारमुभयतो, बभूवुस्तत्र षोडश । रत्नचन्दनकलसाः, कोशा इव शिवश्रियाम् ॥ ५६९ ॥ ।
द्वारे द्वारे रत्नमयास्तोरणाः षोडशाऽभवन् । साक्षादिव समुद्भूताः, परितः पुण्यवल्लयः ॥ ५७० ॥ द्वारे द्वारेऽष्टमङ्गल्यो, मङ्गल्याः षोडशाऽभवन् । प्रासादद्वारविन्यस्तप्रशस्तिलिपिसन्निभाः ॥ ५७१॥ द्वारेषु तेषु चाऽभूवन् , विशाला मुखमण्डपाः । दिक्पालानां चतुर्णामप्याहृता इव पर्षदः ॥ ५७२ ॥
तेषां चतुर्णां च मुखमण्डपानां पुरोऽभवन् । श्रीवल्लीनां मण्डपान्तः, प्रेक्षासदनमण्डपाः ॥ ५७३ ॥ 15 तेषां प्रेक्षामण्डपानां, मध्यभागेषु जज्ञिरे । अक्षवाटा वज्रमयाः, सूर्यबिम्बोपहासिनः ॥ ५७४ ॥
अक्षवाटेऽक्षवाटे च, मध्यभागे मनोहरम् । रत्नसिंहासनमभूमध्येऽब्जमिव कर्णिका ॥ ५७५ ॥ प्रतिप्रेक्षामण्डपाग्रं, बभूव मणिपीठिका । चैत्यस्तूपास्तदुपरि, चाऽभवन् रत्नशालिनः ॥ ५७६ ॥ तेषां च चैत्यस्तूपानां, पुरतो द्योतिताम्ब्ररा । प्रत्येकं च प्रतिदिशं, महती मणिपीठिका ॥ ५७७ ॥
प्रत्येकं तदुपरिष्टात् , पञ्चधन्वशतप्रमाः। चैत्यस्तूपसन्मुखीनाः, सर्वाङ्ग रत्ननिर्मिताः ॥ ५७८ ।। 20 ऋषभा वर्द्धमाना च, ततश्चन्द्राननाऽपि च । वारिषेणेति पर्यङ्कासनासीना मनोहराः॥ ५७९ ॥
शाश्वत्यः प्रतिमा जैन्यो, नेत्रकैरवचन्द्रिकाः । नन्दीश्वरमहाद्वीपचैत्यमध्य इवाऽभवन् ॥ ५८० ॥ तेषां च चैत्यस्तूपानां, प्रत्येकं पुरतोऽभवत् । अनर्घामाणिक्यमयी, विशाला चारुपीठिका ॥ ५८१ ॥ पीठिकानां पुरस्तासां, प्रत्येकं चैत्यपादपाः । चैत्यद्रूणां पुरस्तेषां, प्रत्येकं मणिपीठिकाः ॥ ५८२ ॥
उपरीन्द्रध्वजस्तासां, प्रत्येकमपि चाऽभवत् । जयस्तम्भो दिशि दिशि, धर्मेणेवाऽधिरोपितः ॥ ५८३ ॥ 25 इन्द्रध्वजानां च पुरः, प्रत्येकमपि चाऽभवत् । नाम्ना नन्दा पुष्करिणी, त्रिसोपाना सतोरणा ॥ ५८४ ॥
खच्छशीतजलापूर्णा, विचित्राम्भोजशालिनी । मनोहरा दधिमुखाधारपुष्करिणीनिभा ॥ ५८५ ॥ आसीत् सिंहनिषद्याया, महाचैत्यस्य तस्य तु । मध्यभागे सुमहति, महती मणिपीठिका ॥ ५८६ ॥ तस्याश्चोपरि समवसरणस्येव मध्यतः । चित्ररत्नमयो देवच्छन्दकः समजायत ॥ ५८७ ।।
नानावांशुकमय, उल्लोचस्तदुपर्यभूत् । उद्भावयन्नकालेऽपि, सन्ध्याभ्रपटलश्रियम् ।। ५८८ ॥ 30 उल्लोचस्याऽन्तरे पार्श्वतश्च वज्रमयाङ्कुशाः । आसन्नुल्लोचशोभा तु, तथाऽप्यासीनिरङ्कुशा ॥ ५८९ ।।
सुधाधारोपमा हारा, अङ्कुशेष्ववलम्बिताः । कुम्भमेयैरामलकस्थूलैर्मुक्ताफलैः कृताः ॥ ५९० ॥ हारप्रान्तेषु चाऽभूवन , विमला मणिमालिकाः । त्रैलोक्यमणिखानीनामाहता इव वर्णिकाः ॥ ५९१ ॥ प्रान्तेषु मणिमालानाममला वज्रमालिकाः । आलिका इव भादोर्भिरालिङ्गन्त्यः परस्परम् ॥ ५९२ ॥
तद्भित्तिषु गवाक्षाश्चाऽभवंश्चित्रमणीमयाः । स्वप्रभापटलैतितिरस्करिणिका इव ।। ५९३ ॥ 35 दह्यमानागरुधूमस्तोमास्तेषु चकाशिरे । गिरेस्तस्य नवोद्भूतनीलचूलाभ्रमप्रदाः ॥ ५९४ ॥
देवाः । २ नेत्रकुमुदज्योत्साः। ३ आमलकफलवत् स्थूलैः । ४ सख्यः । ५ कान्तिभुजैः। ६ जातजवनिकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org