________________
षष्ठः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
अथ क्षीरोदपाथोधेः, पुष्करावर्त्तकैरिव । देवैरानाययामास, द्रुतं पाथसि वासवः ।। ५२७ ॥ तेन च रूपयामास, पयसा भगवत्तनुम् । गोशीर्षचन्दनरसैर्विलिलेप च वज्रभृत् ॥ ५२८ ॥ वासवो वासयामास, वाससा हंसलक्ष्मणा । ततस्तद् देवदृष्येण, शरीरं परमेशितुः ।। ५२९ ।। सर्वतो भूषयामास, दिव्यैर्माणिक्यभूषणैः । परमेष्ठिशरीरं तत्, त्रिविष्टपसदग्रणीः ।। ५३० ॥ अन्ये तु देवा अन्येषां मुनीनामपि तत्क्षणम् । इन्द्रवद् विदधुर्भक्त्या, तत् सर्वं स्वपनादिकम् ।। ५३१ ॥ 5 जगत्रय्या रत्नसारैः, पृथक् पृथगिवाऽऽहृतैः । सहस्रवाद्याः शिविकास्तिस्रश्चक्रुर्दिवौकसः ॥ ५३२ ॥ प्रणम्य चरणौ भर्त्तुर्वपुचाऽऽरोप्य मूर्धनि । शिबिकायां निचिक्षेप, स्वयमेव पुरन्दरः ।। ५३३ ॥ वपूंषीक्ष्वाकुवंश्यानामपरस्यां दिवौकसः । शिविकायां शिवपदातिथीनां परिचिक्षिपुः ॥ ५३४ ॥ शिबिकायां तृतीयस्यामन्येषामनगारिणाम् । निदधुर्विबुधाः कायान्, निजेष्वारोप्य मूर्ध ।। ५३५ ॥ अथ तां स्वामिशिबिका मुद्दधार स्वयं हरिः । मुनीनामपरेषां तु, शिविके अपरे सुराः ।। ५३६ ।। अप्सरःसु ददानासु, तालरासकमेकतः । कुर्वाणासु च सङ्गीतं, मधुरध्वानमन्यतः ॥ ५३७ ।। पुरः पुरो धूपघटीर्धारयत्सु सुपर्वसु । धूपधूमच्छलाद् बाष्पं, वमन्तीरिव शोकतः ।। ५३८ ।। क्षिपत्सु पुष्पदामानि, शिविकोपरि केषुचित् । शेषाहेतोश्च तान्येवोपाददानेषु केषुचित् ।। ५३९ ।। देवदृष्यैस्तोरणानि, पुरः कुर्वत्सु केषुचित् । ददत्सु केषुचिद् यक्षकर्दमैः सेकमग्रतः ॥ ५४० ॥ केषुचिद् विलुठत्वग्रे, यत्र भ्रष्टाश्मगोलवत् । धावत्सु पृष्ठतोऽन्येषु, मोहचूर्णाहतेष्विव ॥ ५४१ ।। उच्चैः शब्दायमानेषु, नाथ! नाथेति केषुचित् । मन्दभाग्या हताः स्मः स्वमिति निन्दत्सु केषुचित् ॥ ५४२ ॥ शिक्षां नो देहि नाथेति, मुहुर्नार्थैत्सु केषुचित् । को धर्मसंशयं छेत्स्यत्येवं जल्पत्सु केषुचित् ॥ ५४३ ॥ वयं यामोऽन्धवत् क्वेति, सानुशयेषु केषुचित् । ददातु भूर्नो विवरमित्याकाङ्क्षत्सु केषुचित् ॥ ५४४ ॥ वाद्यमानेषु तूर्येषु, तां स्वामिशिबिकां हरिः । उपचित्यं निनायाऽन्ये, निन्युश्च शिबिके सुराः ।। ५४५ ।। [ नवभिः कुलकम् ] 20
15
प्रांचीनबर्हिः प्राचीनचितायां स्वामिनस्तनुम् । शनकैः स्थापयामास, स्वपुत्र इव कृत्यवित् ॥ ५४६ ॥ चित्यायां दाक्षिणात्यायामिक्ष्वाकु कुलजन्मनाम् । वपूंषि स्थापयन्ति स्म, सनाभय इवामराः ॥ ५४७ ॥ अन्येषामनगाराणां, शरीराण्यपरे सुराः । प्रतीचीनचितायां तु, समीचीनविदो न्यधुः ॥ ५४८ ॥
25
अथ गोत्रेभिदादेशान्नाकिनोऽग्निकुमारकाः । चितासु तासु तत्कालमग्निकायान् विचक्रिरे ॥ ५४९ ।। शक्राज्ञया विचक्रुश्च, वायून् वायुकुमारकाः । अभितो ज्वालयामासुर्वह्निमह्नाय ते ततः ।। ५५० ।। चिताखिन्द्राज्ञया देवाः, कर्पूरादीनि भारशः । निदधुः कुम्भशश्चाऽपि, संपींषि च मधूनि च ।। ५५१ ।। मुक्त्वाऽस्थि धातवो यावद्, दग्धास्तावच्चितानलम् । व्यध्यापयन् सुराः क्षीराम्भोभिर्मेघकुमारकाः।।५५२।। प्रतिमावत् पूजयितुं, स्वविमाने पुरन्दरः । अग्रहीदुपरितनीं, दंष्ट्रां वामेतरां प्रभोः ॥ ५५३ ॥ ईशानोऽप्युपरितनीं, तद्दंष्ट्रां दक्षिणेतराम् | अधस्तनीं दक्षिणां तु, चमरेन्द्र उपाददे ।। ५५४ ॥ बलिर्वामामधोदंष्ट्रां, जग्राहाऽन्ये तु वासवाः । शेषदन्तान् नाकिनोऽन्ये, जगृहुः कीर्कसानि तु ।। ५५५ ।। 30 मार्गन्तः श्रावका देवैर्दत्तकुण्डत्रयाग्नयः । ततः प्रभृत्यभूवंस्ते, ब्राह्मणा अग्निहोत्रिणः || ५५६ ॥ ते हि स्वामिचितावह्निं, गृहे नित्यमपूजयन् । रक्षन्ति स्म च निर्वातं, लक्षदीपमिवेश्वराः ।। ५५७ ।। इक्ष्वाकुवंश्यशेषानगाराणां ते चितानलौ । निर्वाणौ जीवयन्ति स्म, स्वामिचित्याकृशानुना ॥ ५५८ ॥ इक्ष्वाकूणां महर्षीणामपि चित्याकृशानुना । अन्यानगारिचित्याग्निं, ते निर्वाणमबोधयन् ॥ ५५९ ॥ १ जलानि । २ हंसचिन । ३ इन्द्रः । ४ साधुनाम् । ५ देवेषु । ६ याचमानेषु । * इदमुत्तरार्धं खंपुस्तके नास्ति ॥ ७ इन्द्रः । ८ सहोदराः । ९ इन्द्रादेशात् । १० शीघ्रम् । ११ घृतानि । १२ अस्थीनि । १३ अग्निना ।
Jain Education International
For Private & Personal Use Only
१४९
10
www.jainelibrary.org