________________
10
१४८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व महाशोकसमाकान्तश्चक्रवर्ती तु तत्क्षणम् । पपात मूञ्छितः पृथ्व्यां, वज्राहत इवाञ्चलः ॥ ४९४ ॥ महत्यप्यागते दुःखे, दुःखशैथिल्यकारणम् । विदाञ्चकार रुदितं, न कश्चिदपि यत् तदा ॥ ४९५ ॥ दुःखशैथिल्यहेतुं तच्चक्रिणोऽज्ञापयत् स्वयम् । शक्रश्चकार रुदितं, महापूत्कारपूर्वकम् ॥ ४९६ ॥ । अनु सङ्क्रन्दनं चक्रे, क्रन्दनं त्रिदशैरपि । समा हि समदुःखानां, चेष्टा भवति देहिनाम् ॥ ४९७ ॥ तेषां च रुदितं श्रुत्वा, संज्ञामासाद्य चयपि । उच्चैःस्वरेण चक्रन्द, ब्रह्माण्डं स्फोटयनिव ॥ ४९८ ॥ रुदितेनाऽस्फुटद् राज्ञः, शोकग्रन्थिमहानपि । पालीबन्धो महास्रोतोरंहसेव महीयसा ॥ ४९९ ॥ सुरासुरमनुष्याणां, रुदितै रुदितैस्ततः । त्रैलोक्ये करुणरस, एकच्छत्र इवाऽभवत् ॥५०॥ ततः प्रभृति लोकेऽपि, देहिनां शोकसम्भवे । रोदनाध्या प्रववृते, शोकशल्यविशल्यकः॥५०१॥
नैसर्गिकमपि त्यक्त्वा, धैर्य भरतभूपतिः । दुःखितो विललापैवं, तिरश्वोऽपि हि दुःखयन् ॥५०२॥ हा तात ! हा जगद्वन्धो !, हा कृपारससागर ! । अज्ञानिह भवारण्ये, त्यक्तवानसि नः कथम् ? ॥५०३॥ अम्लानकेवलज्ञानप्रकाशेन विना त्वया । तमसीव ऋते दीपं, स्थास्यामोऽत्र कथं भवे ॥५०४॥ छमस्थस्येव ते मौनं, किमेतत् परमेश्वर ! १ । कुरुष्व देशनां नाऽनुगृह्णासि किममुं जनम् ? ॥ ५०५॥ लोकाग्रमथवाज्यासीभगवन् ! भाषसे न यत् । आभाषन्ते दुःखितं मां, तेऽपि मद्वन्धयो न किम् ? ॥५०६॥ हुं ज्ञातमथवा ते हि, सदा स्वाम्यनुगामिनः । स्वामिनोऽननुगो नास्ति, मत्कुले मां विनाऽपरः ॥५०७॥ तातो जगत्रयत्राता, बाहुबल्यादयोऽनुजाः । स्वसारौ ब्राह्मीसुन्दयौँ, पुण्डरीकादयः सुताः॥५०८॥ श्रेयांसायाश्च नप्तारो, हत्वा कर्मद्विषोऽखिलान् । ययुर्लोकाग्रमद्याऽपि, जीवामि प्रियजीवितः॥५०९॥ शोकाजीवितनिर्विष्णं, मुमूर्षुमिव चक्रिणम् । दृष्ट्वा बोधयितुमिति, पारेभे पार्कशासनः ॥ ५१० ॥
भरतेश! महासत्त्व!, स्वाम्यसौ तावदावयोः। संसाराम्भोधिमतरत् , तारयामास चाऽपरान् ॥५११॥
एतत्कृतेन तीर्थेन, तीर्थेनेव महानदीम् । उत्तरिष्यन्ति संसारं, चिरं संसारिणोऽपरे ॥ ५१२ ॥ 20 कृतकृत्यः स्वयं ह्येष, भगवानपरानपि । कृतकृत्यान् जनान् कतुं, पूर्वलक्षमवास्थित ॥ ५१३॥
अनुगृह्याखिलं लोकं, स्थानं तदपुनर्भवम् । आसेदुषो जगद्भ, राजन् ! किं नाम शोचसि ? ॥५१४॥ प्रेत्यं यो योनिलक्षेषु, महादुःखैकवेश्मसु । अनेकशः सञ्चरति, पराँसुः स हि शोच्यते ॥ ५१५ ॥ तत् किं न लजसे शोचन् , प्रभावन्यजनेष्विव ? । शोचितुः शोचनीयस्य, चोभयोरपि नोचितम् ।।५१६॥ एकदापि हि योऽश्रौषीत् , स्वामिनो धर्मदेशनाम् । न सोऽपि शोकहर्षाभ्यां, जीयते किं पुनर्भवान् ॥५१७॥ महाम्भोधेरिव क्षोभः, कम्पो मेरुगिरेरिव । उद्वर्त्तनमिवाऽवन्याः, कुलिशस्येव कुण्ठता ॥ ५१८ ॥ पीयूषस्येव वैरैस्यमनुष्णांशोरिवोष्णता । असम्भाव्यं महीनाथ!, तवेदं परिदेवनम् ॥ ५१९ ॥ [ युग्मम् ] धीरो भव धराधीश !, विद्ध्यात्मानं यदीशितुः । जगत्रयैकधीरस्य, तनयस्तस्य नन्वसि ॥ ५२० ॥ गोत्रवृद्धेनेव वृद्धधैवसैवं प्रबोधितः । आललम्बे नृपो धैर्य, सहजं शैत्यमम्बुवत् ॥ ५२१ ॥ __ अथ स्वाम्यङ्गसंस्कारोपस्कराहरणे द्रुतम् । आदिदेश शुनासीरस्त्रिदशानाभियोगिकान् ॥ ५२२ ॥ ततः सङ्क्रन्दनादेशान्नन्दनोद्यानतः क्षणात् । गोशीर्षचन्दनेधांसि, समानिन्युर्दिवौकसः ॥ ५२३ ॥ इन्द्रादेशादथैन्यां ते, स्वामिदेहस्य हेतवे । वृत्तामारचयामासुश्चितां गोशीर्षचन्दनैः ॥ ५२४ ॥ कृते तथा महर्षीणामिक्ष्वाकुकुलंजन्मनाम् । दिशि व्यधुर्दक्षिणस्यां, व्यस्राकारां चितां सुराः॥५२५॥ अन्येषामनगाराणां, कृते च त्रिदिवौकसः । चतुरस्रां चितां चक्रुरपरस्यां पुनर्दिशि ॥ ५२६ ॥
१ महाप्रवाहवेगेन । २ रोदनमार्गः। ३ पौत्राः। ४ कर्मशत्रन् । ५ ममिछुम् । ६ इन्द्रः। ७ जलावतारमार्गेण । ८ मोक्षस्थानम् । ९ मृत्वा । १० मृतः। ११ रसराहित्यम् । १२ चन्द्रस्य । ॥ विलापः। १४ इन्द्रेण । १५ इन्वादेशात् । १६ पूर्वदिशि। * °लजन्मिनाम् सं १॥
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.