________________
षष्ठः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् ।
१४७ समं मुनीनां दशभिः, सहस्रः प्रत्यपद्यत । चतुर्दशेन तपसा, पादपोपगमं प्रभुः ॥ ४६१ ॥ __ तस्थिवांसं तथा विश्वनाथं पर्वतपालकाः । आशु विज्ञापयामासुर्गत्वा भरतचक्रिणे ॥ ४६२ ॥ प्रभोश्चतुर्विधाहारप्रत्याख्यानं निशम्य सः । शोकेन शङ्कुनेवान्तःविष्टेन व्यवाध्यत ॥ ४६३ ॥ ततोऽकुशेन संस्पृष्टः, सद्यः शोककृशानुना । तरुः सिमिसिमा विन्दनिवाऽश्रूणि मुमोच सः ॥ ४६४ ।। सान्तःपुरपरीवारो, qारासुखपीडितः । प्रतस्थे पादचारेण, प्रत्यष्टापदमार्षभिः ॥ ४६५ ॥ 5 नाजीगणत् कर्करान् स, कशानपि पादयोः । वेद्यते वेदना नैव, हर्षेणेव शुचाऽपि यत् ॥ ४६६ ॥ अक्षरन् रक्तधाराश्व, पदोः कर्करदूनयोः । आसीचालक्तकाङ्केच, तस्याङ्ग्रिन्यासपद्धतिः ॥ ४६७ ॥ अवाजगणदुर्वीशो, जनान् यानोपनायिनः । आरोहणक्षणेनाऽपि, मा भूद् विघ्नो गतेरिति ॥ ४६८ ॥ आतपत्रे शिरःस्थेऽपि, तप्ततप्तो जगाम सः । न तापो मानसो जातु, सुधावृष्ट्याऽपि शाम्यति ॥ ४६९ ॥ शुंग्विहस्तो हस्तदातॄनपहस्तयते स सः । मार्गे विलगतः शाखिशाखाप्रान्तानिवोच्चकैः ॥ ४७० ॥ 10 अग्रेसरान् वेत्रधरानपि पश्चाच्चकार सः । रयात् तरीव तीरद्रून्, सरिदायामगामिनी ॥ ४७१॥ पदे पदे स्खलन्तीश्च, वेगाचामरधारिणीः । चक्री प्रतीक्षाञ्चके न, चित्तवद् गन्तुमुत्सुकः ॥ ४७२ ।। उच्छल्योच्छल्य वेगेनोरःस्थलास्फालनैर्मुहुः । विशीर्णमपि नाऽज्ञासीन्मुक्ताहारं महीपतिः ॥ ४७३ ।। प्रभौ गतमनस्कत्वात् , पार्श्वस्थानप्यजूहवत् । भूयः प्रष्टुं स्वामिवार्ता, वेत्रिणा गिरिपालकान् ॥ ४७४ ॥ नाऽपश्यत् किश्चिदप्यन्यन्नाऽशृणोत् कस्यचिद् वचः । दध्यौ स प्रभुमेवैकं, ध्यानस्थ इव योगवित्॥४७५॥ 15 लघूकुर्वन्निवाऽध्वानं, रंहसा भरतेश्वरः । समीरण इव प्राप, क्षणेनाऽष्टापदाचलम् ॥ ४७६ ॥ परिश्रममजानानो, जनवत् पादचार्यपि । अध्यारुरोह भरतस्ततोऽष्टापदपर्वतम् ॥ ४७७ ।। ईक्षाञ्चके चक्रवर्ती, शोकहर्षसमाकुलः । तत्र च त्रिजगन्नाथं, पर्यङ्कासनसंस्थितम् ॥ ४७८ ॥ तत्र प्रदक्षिणीकृत्य, वन्दित्वा च जगत्पतिम् । देहच्छायेव पार्श्वस्थः, समुपास्ते स्म चक्रभृत् ॥ ४७९ ॥
इत्थं स्थिते प्रभावतेऽप्यस्मासु कथमासते ? । इति हेतोरिवेन्द्राणामासनानि चकम्पिरे ॥ ४८० ॥ 20 अवधिज्ञानतो ज्ञात्वाऽऽसनकम्पस्य कारणम् । इन्द्रा जिनेन्द्रमभ्येयुश्चतुःषष्टिरपि द्रुतम् ॥ ४८१ ॥ तेऽपि प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । विषण्णाश्च निषण्णाश्च, तस्थुरालिखिता इव ॥ ४८२ ॥ तथाऽस्यामवसर्पिण्यां, तृतीयस्याऽरकस्य तु । पक्षेप्वेकोननवताववशिष्टेषु सत्सु च ॥ ४८३ ॥ माघाभिधानमासस्य, कृष्णत्रयोदशीतिथौ । पूर्वाहेऽभीचिनक्षत्र. शशियोगमपागते ॥४८४॥ तथा निषण्णः पर्यङ्कासने स्थित्वा च बादरं । काययोगे बादरो वाक्चित्तयोगी रुरोध च ॥ ४८५ ॥ 25 सूक्ष्मेण काययोगेन, काययोगं च बादरम् । रुद्धा रुरोध सूक्ष्मौ च, योगौ वाक्चित्तलक्षणौ ॥ ४८६ ॥ इति सूक्ष्मक्रियं नाम, शुक्लध्यानं तृतीयकम् । अस्तसूक्ष्मतनूयोगं, क्रमात् प्रभुरसाधयत् ॥ ४८७ ॥ ततश्च ध्यानमुंच्छन्नक्रियं नाम तुरीयकम् । पञ्चहखाक्षरोच्चारमितकालमशिश्रियत् ।। ४८८ ॥ सर्वदुःखपरित्यक्तः, केवलज्ञानदर्शनी । क्षीणका निष्ठितार्थोऽनन्तवीर्यसुखर्द्धिकः ।। ४८९ ॥ बन्धाभावादूर्ध्वगतिरेरण्डफलवीजवत् । प्रभुः स्वभावादृजुना, पथा लोकाग्रमासदत् ॥ ४९० ॥ 30 प्रपन्नानशनास्तेऽपि, सहस्रा वतिनां दश । क्षपकश्रेणिमारूढाः, सर्वेऽप्युत्पन्न केवलाः ॥ ४९१ ॥ मनोवचनकायानां, योगं रुद्धा च सर्वतः । क्षणादासादयामासुः, स्वामिवत् परमं पदम् ॥ ४९२ ॥
स्वामिनिर्वाणकल्याणानिर्वाणो दुःखपावकः । अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ॥ ४९३ ॥
१कीलेन । * • प्रतिष्ठान खंता, स्वं ॥२ सहता। ३ शोकामिना । ४ अत्यनादुःखपीडितः । , कटोरान् । ६ तितप्तः । ७ शोकेन विह्वलः। ८ नाविका। योगिवत् सं १,२॥ मुत्सन्न मं१॥ ५ अ इ उ ल इति पञहस्वाक्षरोचारे यावान् कालो जायते तावत्कालमितं कालम् । सहस्राणि दशर्षयः खंता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org