________________
१४६
10
15
कलिकालसर्वज्ञश्रीक्षेमचन्द्राचार्यप्रणीतं
[ प्रथम पर्व अत्र क्षेत्रानुभावेन, भवतोऽचिरकालतः । ज्ञानं सपरिवारस्योत्पत्स्यते केवलं खलु ॥ ४२७ ॥ इहैव शैले शैलेशीध्यानमासेदुषस्तव । परिवारसमेतस्याऽचिरान्मोक्षो भविष्यति ॥ ४२८ ॥ तथेति स्वामिनो वाचं, प्रतिपद्य प्रणम्य च । तत्रैव सोऽस्थाद् गणभृत् , सहैव गणकोटिभिः ॥ ४२९ ॥ तीरगर्तेषु रत्नौघमुद्वेल इव वारिधिः । मुक्त्वा तं तत्र नाथोऽगादन्यतः सपरिच्छदः ॥ ४३० ॥ पुण्डरीकः स्थितस्तत्र, पर्वते मुनिभिः समम् । उदयाद्रितटे सार्द्धमृक्षैरिव निशाकरः ॥ ४३१ ॥ __ततः परमसंवेगावेगान्मधुरया गिरा । पुण्डरीको गणधरः, श्रमणानित्यभाषत ॥ ४३२ ॥ गिरिः क्षेत्रप्रभावेण, सोऽयं सिद्धिनिबन्धनम् । जिगीषूणां दुर्गमिव, सीमान्तावनिसाधकम् ॥ ४३३॥ कार्या संलेखना मुक्तेः, साधनान्तरमप्यहो । । भवति द्विविधा सा तु, द्रव्यभावविशेषतः ॥ ४३४ ॥ सर्वोन्मादमहारोगनिदानानां समन्ततः । शोषणं सर्वधातूनां, द्रव्यसंलेखना मता ॥ ४३५ ॥ यो रागद्वेषमोहानां, कषायाणां च सर्वतः । नैसर्गिकद्विषां छेदो, भावसंलेखना तु सा ॥ ४३६ ॥ इत्युदित्वा पुण्डरीका, समं श्रमणकोटिभिः । सर्वानालोचयामासाऽतीचारान् सूक्ष्मबादरान् ॥ ४३७ ॥ महाव्रतारोपणं च. भयश्चक्रेऽतिशद्धये । क्षोमस्य क्षालनं द्विस्त्रिीतिनैर्मल्यकारणम ॥ ४३८॥ जीवाः साम्यन्त सर्वे मे. तेषां च क्षान्तवानहम । मैत्री मे सर्वभतेष, वैरं मम न केनचित ॥ ४३९ ॥ इत्यक्त्वा भवचरमं. निराकारं सुदष्करम । प्रतिपेदे सोऽनशनं. समस्तश्रमणैः समम ॥४४०॥ क्षपकश्रेणिमारूढस्याऽत्रुध्यन्नभितोऽपि हि । घातीनि कर्माणि तस्यौजस्विनो जीर्णरज्जुवत् ॥ ४४१॥ साधूनां कोटिसङ्ख्यानां, तेषामपि हि तुत्रुटुः । सद्यो पातीनि कर्माणि, सर्वसाधारणं तपः ॥ ४४२ ॥ मासान्ते चैत्रराकायां. पुण्डरीकस्य केवलम । ज्ञानं बभव प्रथमं पश्चात तेषां महात्मनाम ॥४४३॥ शुक्लध्याने स्थितास्तूर्ये, निर्योगे ते च योगिनः । प्रक्षीणाशेषकर्माणो, निर्वाणपदवीं ययुः ॥ ४४४ ॥
समागत्य दिवो देवा, मरुदेव्या इव क्षणात् । भत्त्या विदधिरे तेषां, निर्वाणगमनोत्सवम् ॥ ४४५ ॥ 20 भगवानृषभखामी, प्रथमस्तीर्थकृद् यथा । तथाऽभूत् प्रथमं तीर्थ, शत्रुञ्जयगिरिस्तदा ।। ४४६ ॥ यत्रैकोऽपि यतिः सिध्येत् , तीर्थं तदपि पावनम् । किं पुनर्यत्र तावन्तः, सिषिधुस्ते महर्षयः ? ॥४४७॥
अथ शत्रुञ्जयगिरौ, चैत्यं रत्नशिलामयम् । अकारयन्मेरुचूलाप्रस्पर्द्धि भरतेश्वरः ॥ ४४८॥ पुण्डरीकप्रतिमया, सहितां प्रतिमां प्रभोः । चेतनामिव चेतोऽन्तस्तन्मध्येऽस्थापयन्नृपः ॥ ४४९ ॥
नानादेशेषु विहरन् , भविनो भगवानपि । अन्वग्रहीद् बोधिदानाच्चक्षुर्दानादिवाऽन्धलान् ॥ ४५० ॥ 25 प्रभोराकेवलज्ञानाच्छ्रमणानां तु जज्ञिरे । चतुरशीतिसहस्राः, साध्वीलक्षत्रयं तथा ।। ४५१ ॥
स पञ्चाशत्सहस्रं तु, श्राद्धलक्षत्रयं तथा । श्राद्धीलक्षाः पञ्च साद्धाश्चतुःसहस्रसंयुताः ॥ ४५२ ॥ सहस्राणि तु चत्वारि, तथा सप्त शतानि च । पञ्चाशदधिकान्यासन् , श्रीचतुर्दशपूर्विणाम् ।। ४५३ ॥ *अवधिज्ञानिसाधूनां, सहस्राणि नवाऽभवन् । केवलज्ञानिसाधूनां, सहस्राणि तु विंशतिः ।। ४५४ ।।
जातवैक्रियलब्धीनां, श्रमणानां महात्मनाम् । षट्शताभ्यधिकान्यासन् , सहस्राणि तु विंशतिः॥४५५॥ 30 पृथक् पृथग वादिनां च, मनःपर्ययिणां तथा । द्वादशाऽऽसन् सहस्राणि, सपञ्चाशच षदशती ॥४५६ ।।
अनुत्तरविमानोपपातिनां च महात्मनाम् । द्वाविंशतिसहस्राणि, चाऽभवन् भुवनप्रभोः ॥ ४५७ ॥ एवं चतुर्विधं सङ्घ, भगवानादितीर्थकृत् । धर्मे संस्थापयामास, व्यवहार इव प्रजाः ॥ ४५८ ॥
दीक्षाकालात् पूर्वलक्षं, क्षपयित्वा ततः प्रभुः । ज्ञात्वा खमोक्षकालं च, प्रतस्थेऽष्टापदं प्रति ॥ ४५९॥ शैलमष्टापदं प्राप, क्रमेण सपरिच्छदः । निर्वाणसौधसोपानमिवाऽऽरोहच्च तं प्रभुः ॥ ४६० ।।
१ नक्षत्रैः। २ वस्त्रस्य । ३ चैत्रपूर्णिमायाम्। ४ पाढ़े। * इमी द्वौ ४५४-४५५ तमौ श्लोकौ खंपुस्तके नोपलभ्येते॥ + पर्यायिणां सं १, २॥ द्वादश सहस्राणि सचतुर्विशतिषट्शतीं सं० १॥ " मोक्षप्रासादसोपानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org