________________
षष्ठः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । विदेशमिव वैताढ्यं, क्वचित् रूप्यशिलाचयैः । वर्णगावोच्चयैः क्वाऽपि, मेरोस्तटमिवाऽऽहृतम् ॥३९६॥ क्वचिच्च रत्नखानीभी, रत्नाचलमिवाऽपरम् । काऽप्यौषधीभिर्हिमाद्रिमिव स्थानान्तरस्थितम् ॥ ३९७ ॥ आमुक्तचोलकमिवाऽसक्तसंसक्तवारिदैः । स्कन्धावलम्बिसंव्यानमिव निर्झरवारिभिः ॥ ३९८ ॥ शिरोऽभ्यर्णजुषा सूर्येणोत्किरीटमिवाऽहनि । नक्तं च चन्दनरसतिलकाङ्कमिवेन्दुना ॥ ३९९ ॥ सहस्रमूर्द्धानमिव, शृङ्गैर्गगनरोधिभिः । अनेकदोर्दण्डमिव, तुङ्गैस्तालमहीरुहैः ॥ ४००॥ नालिकेरीवनेषुचैः, पाकपिङ्गासु लुम्बिषु । निजापत्यभ्रमाद् वेगोत्पतत्प्लवगसङ्कुलम् ॥ ४०१ ॥ चूतोवचायसक्तानां, सौराष्ट्रहरिणीदृशाम् । आकर्ण्यमानमधुरगीतिमँत्कर्णितैर्मगैः ॥ ४०२॥ उद्बुद्धसूचिव्याजेन, सञ्जातपलितैरिव । जरद्भिः केतकीवृक्षरशून्याधित्यकाभुवम् ॥ ४०३ ॥ स्थाने स्थाने सिन्दुवारैः, श्रीखण्डद्रवपाण्डुभिः । कृतसर्वाङ्गमङ्गल्यपुण्ड्रावलिमिवोच्चकैः ॥ ४०४ ॥ शाखास्थितगोलोङ्गललाङ्गलजटिलीकृतैः । चिञ्चागुमैरनुकृतप्लक्षन्यग्रोधपादपम् ॥ ४०५॥
10 अद्भुतस्वपरीणाहसम्पदा मुदितैरिव । नित्यं कण्टकिलफलैः, पनसैरुपशोभितम् ॥ ४०६ ॥ श्लेष्मातकैरमारात्रितमःसब्रह्मचारिभिः । अञ्जनाचलचूलाभिराहताभिरिवाऽङ्कितम् ॥ ४०७ ॥ किंशुकैः शुकचञ्चवदारक्तकुसुमर्द्धिभिः । शोभमानं महानागं, कुङ्कुमस्थासकैरिव ॥ ४०८॥ काऽपि द्राक्षाभवं काऽपि, खारं काऽपि तालजम् । मध्वापिबद्भिराबद्धगोष्ठीकं शबरीजनैः ॥ ४०९ ॥ अभेद्यैरर्ककिरणेघृणामस्खलतामपि । सन्नाहमिव बिभ्राणं, ताम्बूलीवनमण्डपैः ॥ ४१० ॥ 15 आर्द्रदर्वाङ्कुरास्वादसुहितैर्मृगमण्डलैः । आबध्यमानरोमन्थं, महाविटपिनां तले ॥ ४११ ॥ सहकारफलावादमग्नचनूपुटैश्विरम् । शुकैर्निरन्तरैर्जात्यवैडूर्यैरिव मण्डितम् ॥ ४१२ ॥ केतकी-चम्पका-ऽशोक-कदम्ब बकुलोद्भवैः । परागैः पवनोद्भूतै, रजस्खलशिलातलम् ॥ ४१३ ॥ पान्थसास्फाल्यमाननालिकेरीफलाम्भसा । परितः पङ्किलीभूतोपत्यकातटभूतलम् ॥ ४१४ ॥ भद्रशालप्रभृतीनां, मध्याद् वैशाल्यशालिना । वनेनैकतमेनेव, तरुखण्डेन मण्डितम् ॥ ४१५॥ 20 पश्चाशद्योजनं मूले, शिखरे दशयोजनम् । तमष्टयोजनोत्सेधमारुरोह गिरिं प्रभुः ॥ ४१६ ॥
- [एकविंशत्या कुलकम् ] तत्र सद्योऽपि समवसरणे सुरनिर्मिते । सर्वीयो भगवानासाश्चके चक्रे च देशनाम् ।। ४१७ ॥ गम्भीरया गिरा भर्नुर्विदधानस्य देशनाम् । अनूवादेव स गिरिर्गहरोत्थैः प्रतिस्वनैः ॥ ४१८ ॥ वृष्टेरिव पयोवाहः, प्रावृषि त्रिजगत्पतिः । गतायामथ पौरुष्यां, व्यरंसीद् देशनाविधेः ॥ ४१९ ॥ उत्थाय च ततः स्थानान्मध्यप्राकारमण्डले । देवच्छन्दे देवदेवो, न्यषीदद् देवनिर्मिते ॥ ४२० ॥ __ ततश्च स्वामिनः पादपीठे गणधराग्रणीः । श्रीपुण्डरीको न्यषदत् , सम्राजो युवराडिव ॥ ४२१॥ तथैव हि निषेदुष्यां, सभायां गणभृद्वरः । भगवल्लीलया धर्मदेशनां विदधेतराम् ॥ ४२२ ॥ सोऽपि द्वितीयपौरुष्यां, पारयामास देशनाम् । अवश्यायसुधासेकं, समीरण इव पँगे ॥ ४२३ ॥ एवं सत्त्वोपकाराय, कुर्वाणो धर्मदेशनाम् । कश्चित् कालं तत्र तस्थावष्टापद इव प्रभुः ॥ ४२४ ॥ 30 अन्यतश्च प्रतिष्ठोसुरपरेधुर्जगद्गुरुः । गणभृत्पुण्डरीकं तं, पुण्डरीकं समादिशत् ॥ ४२५ ॥
महामुने! प्रयास्यामो, विहत्तुं वयमन्यतः । गिरौ तिष्ठ त्वमत्रैव, मुनिकोटिभिरावृतः॥४२६॥
१ फलगुच्छेषु । २ आम्रावचयनासक्तानाम् । * मुत्कणकैर्मू खंता, सं १ ॥ ३ अशून्यपर्वतोपरिसमभूमिकम्। ४ वृक्षविशेषैः। ५ कपयः । ६ अम्लिकावृक्षैः । ७ विस्तारः। ८ अमावास्यारात्रितमःसमानैः। ९ महागजम् । १°दमुदितै सं॥ १. आबध्यमानचर्वितचर्वणम्। ११ आसन्नभूमिः । १२ विशालत्वशोभिना। १३ अष्टयोजनोच्छ्रितम्। १४ सर्वहितकारी। १५ बिरामं प्राप्तवान् । १६ मण्डलेश्वरस्य । १७ हिमामृतसिञ्चनम् । १८ प्रात:काले। १९ प्रस्थातुमिच्छुः।
त्रिषष्टि. १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org