________________
१४४ कलिकालसर्वज्ञभीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व सप्तमो बलदेवस्तु, नन्दनो नामधेयतः । पञ्चषष्टिसहस्राब्दायुर्जयन्तीसमुद्भवः ॥ ३६४ ॥ अष्टमस्तु बलदेवः, पनोऽपराजितासुतः । पञ्चदश सहस्राणि, वर्षाणामस्य जीवितम् ॥ ३६५ ।। नवमस्तु बलदेवो, राम इत्यभिधानतः । द्वादशाब्दशतायुष्को, रोहिणीतनुसम्भवः ॥ ३६६ ॥ तत्राष्टौ मोक्षगा रामो, ब्रह्मकल्पं गमिष्यति । उत्सर्पिण्यां स भरते, कृष्णतीर्थे तु सेत्स्यति।।३६७॥
अश्वग्रीवस्तारैकश्च, मेरको मधुरेव च। निशुम्भ-बलि-प्रहाद-लकेश-मगधेश्वराः॥३६८॥ वासुदेवप्रतिमल्लाः, सर्वे चक्रप्रहारिणः । हनिष्यन्ते निजैश्चर्वासुदेवकरङ्गतैः ॥ ३६९ ॥
श्रुत्वा तद् भरताधीशो, भव्यसत्त्वैः समाकुलाम् । दृष्ट्वा च तां सभा हृष्टः, पप्रच्छ स्वामिनं पुनः॥३७०॥ जगत्रय इवैकत्र, सामस्त्येनापि तस्थुषि । तिर्यनरामरमये, सदसि त्रिजगत्पते ! ॥ ३७१ ॥
अत्र किं कश्चिदप्यस्ति, भगवन् ! भगवानिव । तीर्थ प्रवर्त्य भरतक्षेत्रं यः पावयिष्यति ॥३७२॥[युग्मम्] 10
शशंस भगवानेवं, य एष तव नन्दनः । मरीचिर्नामधेयेन, परिव्राजक आदिमः ॥ ३७३ ॥ आर्त्तरौद्रध्यानहीनः, सम्यक्त्वेन च शोभितः । ध्यायश्चतुर्विधं धर्मध्यानं च रहसि स्थितः ॥ ३७४ ॥ दुकूलमिव पङ्केन, निःश्वासेनेव दर्पणः । कर्मणा मलिनोऽमुष्य, जीवः सम्प्रति वर्त्तते ।। ३७५ ॥ शुक्लध्यानाग्निसंयोगादग्निशौचमिवाऽशुकम् । जात्यं सुवर्णमिव च, स क्रमाच्छुद्धिमेष्यति ॥ ३७६ ॥ इहैव भरतक्षेत्रे, नगरे पोतनाभिधे । त्रिपृष्ठो नाम दाशार्हः, प्रथमोऽसौ भविष्यति ॥ ३७७॥ क्रमात् प्रत्यग्विदेहेषु, मूकायां पुरि चक्र्यसौ। तुग् धनञ्जय-धारिण्योः, प्रियमित्रो भविष्यति॥३७८॥ चिरं च संसृत्य भवे, भविष्यत्यत्र भारते । अयं नाम्ना महावीरश्चतुर्विशस्तु तीर्थकृत् ॥३७९ ॥
इति श्रुत्वा खाम्यनुज्ञामादाय भरतेश्वरः। मरीचिं वन्दितुं भक्त्या, भगवन्तमिवाऽभ्यगात् ॥३८० ॥ नाम्ना त्रिपृष्टः प्रथमो, दाशार्हाणां भविष्यति । चक्रवर्ती विदेहेषु, प्रियमित्राभिधश्च यत् ॥३८१ ॥
न तद् वन्दे न चेदं ते, पारिवाज्यं न जन्म च । किन्तु वन्दे चतुर्विंशो, यत् त्वमर्हन भविष्यति॥३८२॥ 20 इति जुवाणः शिरसि, बद्धाञ्जलिपुटस्ततः । तं त्रिः प्रदक्षिणीकृत्य, ववन्दे भरतेश्वरः ॥ ३८३ ॥
[विभिर्विशेषकम् ] अथ नत्वा जगन्नाथं, जगाम जगतीपतिः । अयोध्यां नगरी नागराजो भोगवेतीमिव ॥ ३८४ ॥ __ मरीचिस्तद्गिरा दृप्यंस्त्रिः करास्फोटपूर्वकम् । जातप्रमोदोऽभ्यधिक, वक्तुमेवं प्रचक्रमे ॥ ३८५ ॥ यद्यायो वासुदेवानां, विदेहेषु च चक्रभृत् । अन्त्योर्हन् भविताऽसीति, पूर्णमेतावता मम ॥३८६ ॥ पितामहोऽर्हतामाद्यश्चक्रिणां च पिता मम । दाशार्हाणामहं चेति, श्रेष्ठं कुलमहो ! मम ॥ ३८७॥ त्रैलोक्यमेकतः सर्वमेकतश्च कुलं मम । एकतोऽन्यद् गजकुलं, यथैरावण एकतः ॥ ३८८ ॥ आहेभ्य इव चण्डांशुरुडुभ्य इव चन्द्रमाः । सर्वेभ्योऽपि कुलेभ्यो मे, कुलमेकं प्रकृष्यते ॥ ३८९ ॥ एवमात्मकुलमदं, कुर्वाणेन मरीचिना । ठूतयेव पुटं नीचगोत्रं सूत्रितमात्मनः ॥३९०॥
पुण्डरीकप्रभृतिभिर्द्रतो गणधरैरथ । नाथोऽप्यचालीत् प्रघुनन्, विहारव्याजतो महीम् ॥ ३९१ ॥ 30 कृपया पुत्रवद् धर्मकौशलं कौशलान् नयन् । तपस्यमुग्धान् मगधान्, कुर्वन् परिचितानिव ॥ ३९२ ॥
काशीन विकाशयन् पनकोशानिव दिवाकरः । आनन्दयन् दशार्णाश्चाऽर्णवानिव निशाकरः ॥३९३ ॥ देशनासुधया चेदींचेतयन् मूञ्छितानिव । मालवैर्मालयन धर्मधुरां वत्सतरैरिव ॥ ३९४ ॥ कुर्वन् पापविपनाशानिर्जरानिव गूर्जरान् । सौराष्ट्रान् पटयन् वैद्य, इव शत्रुक्षयं ययौ ॥ ३९५ ॥
[पञ्चभिः कुलकम् ] *सिद्धिगा खंवा १ सिद्धिं गमिष्यति । २ प्रतिवासुदेवाः। ३ पुत्रः। ४ परिव्राजकत्वम् । ५ नागपुरीम् । ६ चरमतीर्थकरः श्रीमहावीरः । नक्षत्रेभ्यः । ८ "करोसियो" इति भाषायाम् । ९ पवित्रीकुर्वन् । १० पापविपत्तिविनाशात् । ११ देवानिव ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org