________________
षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१४३ धर्मशान्त्यन्तरे चैतौ, तृतीयस्वर्गगामिनौ । शान्तिः कुन्थुररश्चैतेऽर्हन्तश्चक्रभृतोऽपि च ॥ ३३०॥ तारा-कृतवीर्यसुतः, मुभूमो हस्तिनापुरे । पष्टिवर्षसहस्रायुरष्टाविंशिधनूनतिः॥ ३३१ ॥ अरमल्यन्तरे भावी, सप्तमं नरकं गमी । वाराणस्यां पुनः पद्मो, ज्वाला-पद्मोत्तरात्मजः ॥३३२॥ त्रिंशद्वर्षसहस्रायुधनुर्विंशतिमुच्छ्रितः । काम्पिल्ये हरिषेणस्तु, मेरा-महाहरिप्रमः ॥ ३३३ ॥ दशवर्षसहस्रायुः, पञ्चदशधनून्नतिः । मुनिनम्योर्विहरतोवप्येतौ भविष्यतः ॥ ३३४ ॥ वप्रा-विजयभू राजगृहे द्वादशकार्मुकः । जयंख्यब्दसहस्रायुर्नमिनेमिजिनान्तरे ॥ ३३५ ॥ काम्पिल्ये ब्रह्मदत्तस्तु, चुलनी-ब्रह्मनन्दनः । सप्तवर्षशतायुष्कः, सप्तधन्वसमुन्नतिः ॥ ३३६ ॥ श्रीनेमिनाथश्रीपार्श्वनाथतीर्थान्तरे त्वसौ । रौद्रध्यानपरो गामी, सप्तमी नरकावनीम् ॥ ३३७ ॥
तत्र प्रभुरपृष्टोऽपीत्याख्यच्चयर्द्धविक्रमाः । त्रिखण्डावनिभोक्तारो, वासुदेवा नवाऽसिताः ॥ ३३८ ॥ अष्टमः काश्यपकुलस्तेषु शेषास्तु गौतमाः । सापना भ्रातरस्तेषां, बलदेवाः सिता नव ॥ ३३९ ॥ 10 त्रिपृष्टः केशवस्तत्र, नगरे पोतनाह्वये । प्रजापति-मृगावत्योः, सुतोऽशीतिधनूनतिः ॥ ३४० ॥ महीं विहरमाणे तु, श्रेयांसजिनपुङ्गवे । चतुरशीत्यब्दलक्षायुरन्त्यं नरकं गमी ॥ ३४१ ॥ द्वारवत्यां द्विपृष्टस्तु, धनुःसप्ततिमुन्नतः । भुवं विहरमाणे तु, वासुपूज्यजिनेश्वरे ॥ ३४२ ॥ द्वासप्ततिवर्षलक्षायुः पद्मा-ब्रह्मनन्दनः । गमिष्यति च सोऽवश्यं, षष्ठी नरकमेदिनीम् ॥ ३४३ ॥ द्वारवत्यां खयम्भूस्तु, धनुःषष्टिसमुन्नतः । षष्टिवत्सरलक्षायुर्विमलस्वामिवन्दकः ॥ ३४४ ॥ 15 भद्रराजस्य पृथिवीदेव्याश्चैष तनूरुहः । गमिष्यति च पूर्णायुः, षष्ठिकां नरकावनीम् ॥ ३४५ ॥ तस्यामेव नगर्या तु, पुरुषोत्तम आख्यया । पञ्चाशत्कार्मुकोत्तुङ्गः, सोम-सीतातनूरुहः ॥ ३४६ ॥ वर्तमाने जिनेऽनन्ते, त्रिशल्लक्षाब्दजीवितः । समाप्तायुरसौ षष्ठी, नरको: गमिष्यति ॥३४७ ॥
अश्वपुरे तु पुरुषसिंहो नाम्ना भविष्यति । धर्मनाथजिने पञ्चचत्वारिंशद्धनूनतिः ॥ ३४८ ॥ शिवराजा-ऽमृतासूनुर्वर्षलक्षाण्यसौ दश । आयुरनुपाल्य षष्ठी, नरकोवीं गमिष्यति ॥ ३४९ ॥ 20 चक्रपुर्यां तु पुरुषपुण्डरीकोऽभिधानतः । अरमहयन्तरे लक्ष्मीवती-महाशिरःसुतः ॥ ३५० ॥ एकोनत्रिंशतं चापानयमुन्नतविग्रहः । पञ्चषष्टिसहस्राब्दायुः षष्ठं नरकं गमी ॥ ३५१॥ दत्तो वाराणसीपुर्या, षड्विंशतिधनून्नतिः । जिनान्तरे तु तत्रैव, शेषवत्यग्निसिंहभूः ॥ ३५२ ॥ षट्पञ्चाशत्सहस्राणि, वर्षाणामस्य जीवितम् । गमिष्यति च पूर्णायुः, पञ्चमी नरकावनीम् ॥ ३५३ ॥ नारायण इति ख्यातः, पुरे राजगृहाह्वये । द्वादशाब्दसहस्रायुर्मुनिनम्यन्तरे त्वसौ ॥ ३५४ ॥ 25 सुमित्रादशरथभूर्धनुःषोडशकोन्नतिः । गमिष्यति च पूर्णायुस्तुरीयां नरकावनीम् ॥ ३५५ ॥ कृष्णस्तु मथुरापुर्या, देवकीवसुदेवभूः । वन्दिता नेमिनाथस्य, दशधन्वसमुच्छ्रयः ॥ ३५६ ॥ सहस्रमेकं वर्षाणामायुरस्य भविष्यति । ततो नरकमेदिन्यां, तृतीयायां गमिष्यति ॥ ३५७ ॥
प्रथमो बलदेवस्तु, तत्र भद्रासुतोऽचलः । पञ्चाशीतिवर्षलक्षाण्यायुरस्य भविष्यति ॥ ३५८ ॥ द्वितीयस्तु बलदेवो, भावी विजय आख्यया । सुभद्राभूः पञ्चसप्तत्यब्दलक्षाणि जीविता ॥ ३५९ ॥ 30 तृतीयस्तु बलदेवो, भद्र इत्यभिधानतः । सुप्रभाभूः पञ्चषष्टिवर्षलक्षाणि जीविता ॥ ३६० ।। चतुर्थस्तु बलदेवः, सुप्रभो नामधेयतः । सौदर्शनेयोऽब्दपञ्चपञ्चाशल्लक्षजीवितः ॥३६१ ॥ पञ्चमो बलदेवस्तु, भावी नाम्ना सुदर्शनः । सप्तदशवर्षलक्षजीवितो विजयासुतः ॥ ३६२ ॥ षष्ठो बलो वैजयन्त्याः , सूनुरानन्द आख्यया । पञ्चाशीतिसहस्राणि, वर्षाणामस्य जीवितम् ॥ ३६३ ॥ १ पद्माख्यश्चक्री। * नम्यन्तराले तु, द्वा खंता ॥ २ जयाख्यश्चक्री। ३ कृष्णवर्णाः । ४ गौतमकुलाः। इत आरभ्य ३४८ पर्यन्तं शोकाः खंपुस्तके पतिताः॥ इमौ द्वौ ३५४, ३५५ तमौ श्लोकौ खंपुस्तके न दृश्येते। कैकेयीद खंता, सं१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org