________________
३०२॥
१४२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथम पर्व अमुष्य तु व्रते पूर्वसहस्राः पञ्चविंशतिः । अन्तरं तु सरिनाथोपमानां कोटयो नव ॥ २९६ ॥
सिंहपुरे विष्णुराज-विष्ण्वोः सूनुः सुवर्णरुक् । श्रेयांसस्तु जिनोऽशीतिशरासनसमुन्नतिः॥२९७।। वर्षाणां चतुरशीत्या, लक्षैः अमितजीवितः । अमुष्य तु व्रते वर्षलक्षाणामेकविंशतिः ॥ २९८ ॥ पड्विंशत्याऽब्दसहः, षषष्ट्या वर्षलक्षकैः । तथार्णवशतेनोनार्णवकोटिर्जिनान्तरम् ॥ २९९ ॥
चम्पापुर्यां वासुपूज्यो, वसुपूज्य-जयात्मजः । द्वासप्तत्यब्दलक्षायुर्धनुःसप्ततिमुन्नतः ॥ ३०० ॥ रक्तोऽस्य चतुःपञ्चाशद्वर्षलक्षाणि तु व्रतम् । तथा सागरोपमाणां, चतुःपञ्चाशदन्तरम् ॥ ३०१ ॥
काम्पिल्ये च कतवर्म-उयामाभविमलो जिनः । षधिवत्सरलक्षायः. षष्टिधन्वा सवर्णरुक॥३० अमुष्य च पञ्चदश वर्षलक्षाणि तु व्रतम् । वासुपूज्यान्ततन्मोक्षान्तरे च त्रिंशदर्णवाः ॥ ३०३ ॥
अयोध्यायां सिंहसेन-सुयशोभूः सुवर्णरुक् । अनन्तस्त्रिंशल्लक्षाब्दायुः पञ्चाशद्धनून्नतिः॥३०४॥ 10 सार्दानि वर्षलक्षाणि, सप्त तस्य पुनर्बतम् । विमलमोक्षतन्मोक्षान्तरे च नव सागराः ॥ ३०५॥
धर्मो रत्नपुरे भानु-सुव्रताभूः सुवर्णरुक् । दशाब्दलक्षायुः पञ्चचत्वारिंशद्धनून्नतिः ॥ ३०६॥ पर्यायस्तस्य वर्षाणां, सार्द्ध लक्षद्वयं खलु । अनन्तमोक्षतन्मोक्षान्तरेऽर्णवचतुष्टयम् ॥ ३०७ ॥
पुरे गजपुरे शान्तिर्विश्वसेना-चिरासुतः । स्वर्णवर्णोऽब्दलक्षायुश्चत्वारिंशद्धनून्नतिः ॥ ३०८ ॥
पञ्चविंशतिरब्दानां, सहस्राण्यस्य तु व्रते । अन्धित्रयं पल्यचतुर्भागत्रिकोनमन्तरम् ॥ ३०९ ॥ 15 कुन्थुर्गजपुरे स्वर्णवर्णः सूर-श्रियोः सुतः । पञ्चनवत्यब्दसहस्रायुः पल्या कान्तरः ॥ ३१ ॥
पञ्चत्रिंशद्धनुस्तुङ्गः, पर्यायेऽस्य तु वत्सराः । त्रयोविंशतिसहस्राः, सार्द्धसप्तशतानि च ॥ ३११ ।।
स्वर्णाभोऽरो गजपुरे, देवी-सुदर्शनात्मजः । चतुरशीत्यब्दसहस्रायुस्त्रिंशद्धनून्नतिः ॥ ३१२ ॥ पर्याये तस्य वर्षाणां, सहस्राण्येकविंशतिः । पल्यतुर्यांशोऽब्दकोटिसहस्रोनो जिनान्तरम् ॥ ३१३ ॥
मल्लिनाथो मिथिलायां, कुम्भ-प्रभावतीप्रमः । पञ्चविंशतिधन्वाऽब्दकोटीसहस्रकान्तरः ॥३१४॥ 20 नीलोऽस्याऽब्दसहस्राणि, पञ्चपञ्चाशदायुषि । एकवर्षशतोनानि, पूर्वोक्ताब्दानि तु व्रते ॥३१५ ॥
पद्मा-सुमित्रसू राजगृहे कृष्णस्तु सुव्रतः। त्रिंशद्वर्षसहस्रायुर्धनुर्विंशतिमुन्नतः ॥ ३१६ ॥ सप्तवर्षसहस्राणि, सार्द्धान्येतस्य तु व्रतम् । चतुष्पश्चाशदब्दानां, लक्षाणि तु जिनान्तरम् ॥३१७ ॥
मिथिलायां स्वर्णवर्णो, वप्रा-विजयभूर्नमिः । दशवर्षसहस्रायुः, पञ्चदशधनूनतिः ॥३१८ ॥
समासहस्रद्वितयं, सार्द्धमेतस्य तु व्रतम् । मोक्षान्तरं मुनिनम्योर्वर्षलक्षाः षडेव हि ॥ ३१९ ॥ 25 _ *शिवा-समुद्रविजयात्मजः शौर्यपुरे शितिः । नेमिर्दशधनुस्तुङ्गः, समासहस्रजीवितः ॥ ३२०॥ शतानि सप्त वर्षाणां, प्रव्रज्यायाममुष्य तु । मुक्त्यन्तरे नमिनेम्योर्वर्षलक्षाणि पञ्च तु ॥ ३२१ ॥
वामा-ऽश्वसेनभूः पार्थो, वाराणस्यां विनीलरुक् । नवहस्तप्रमाणाङ्गः, शतवत्सरजीवितः॥३२२॥ विर्षाणां सप्ततिस्तस्य, व्रतेऽन्तरे तु वत्सराः । सहस्राणि त्र्यशीतिः सार्दानि सप्तशतानि च ।। ३२३ ॥
कुण्डग्रामे महावीरः, सिद्धार्थ-त्रिशलासुतः। स्वर्णाभः सप्तहस्ताङ्गो, द्वासप्तत्यब्दजीवितः ॥३२४॥ 30 द्वाचत्वारिंशदब्दानि, प्रव्रज्यायाममुष्य च । पार्श्ववीरान्तरालं तु, सार्द्ध वर्षशतद्वयम् ।। ३२५ ॥
काश्यपाश्चक्रिणः स्वर्णवर्णा अष्टैषु मोक्षगाः। त्वं मयीवाऽजिते तत्राऽयोध्यायां सगरः खलु ॥३२६ ॥ तुक् सुमित्र-यशोमत्योः, सार्द्धधन्वचतुःशतः । द्वासप्तत्या पूर्वलक्षः, स तु प्रमितजीवितः ॥ ३२७ ॥ श्रावस्त्यां मघवा भद्रा-समुद्रविजयात्मजः । पञ्चाब्दलक्षायुः सार्द्धद्विचत्वारिंशधन्वकः ॥ ३२८ ॥ सनत्कुमारोऽब्दक्षत्रयायुहस्तिनापुरे । प्राग्मानादेकधन्वोनः, सहदेव्यश्वसेनभूः ॥ ३२९ ॥
* इमौ द्वौ ३२०, ३२१ तमौ श्लोकौ खं पुस्तके नोपलभ्येते ॥ १ श्यामवर्णः । । वर्षाणि खंता । व्रतेऽगादन्तरे पुन. सं २, आ, दीक्षायामन्तरे पुनः सं ॥२ कास्यपगोत्रिणः। ३ पुत्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org