________________
षष्ठः सर्गः]
त्रिषष्टिालाकापुरुषचरितम् । *अष्टापदे च समवसृतं स्वामिनमेत्य सः । प्रदक्षिणीकृत्य नमस्कृत्य चक्रीति तुष्टुवे ॥ २६२ ॥
त्वत्प्रभावात् स्तवीमि त्वामप्राज्ञोऽपि जगत्पते । शशिनं पश्यतां दृष्टिर्मन्दापि हि पट्टयते ॥२६३॥ मोहान्धकारनिर्मग्नजगदालोकदीपक ! । आकाशवदनन्तं ते, खामिन् ! जयति केवलम् ॥ २६४ ॥ प्रमादनिद्रामग्नानां, नाथ ! कार्येण मादृशाम् । एवं गतागतानि त्वं, करोष्यर्क इवाऽसकृत् ॥ २६५ ॥ जन्मलक्षार्जितं कर्म, त्वदालोकाद् विलीयते । कालेन दृषदीभूतमप्याज्यं वह्निना द्रवेत् ॥ २६६ ॥ 5 एकान्तसुषमातोऽपि, साध्वी सुषमदुःपमा । यत्र कल्पद्रुमेभ्यस्त्वं, विशिष्टफलदोऽभवः ॥२६७ ॥ समस्तभुवनेशेदं, भुवनं भूषितं त्वया । राज्ञा पुरीव ग्रामेभ्यो, भुवनेभ्यः प्रकृष्यते ॥ २६८ ॥ पिता माता गुरुः स्वामी, यत् सर्वेऽपि न कुर्वते । एकोऽप्यनेकीभूयेव, त्वं हितं विदधासि तत् ॥२६९॥ निशा निशाकरेणेव, हंसेनेव महासरः । वदनं तिलकेनेव, शोभते भुवनं त्वया ॥ २७० ॥
इति स्तुत्वा नमस्कृत्य, भगवन्तं यथाविधि । निषसाद यथास्थानं, विनयी भरतेश्वरः ॥ २७१ ॥ 10 आयोजनविसर्पिण्या, सर्वभाषानुयातया । भारत्या भगवान् विश्वोपकृत्यै देशनां व्यधात् ॥ २७२ ॥ देशनाविरतौ नत्वा, स्वामिनं भरतेश्वरः । रोमाश्चितवपुर्वद्धाञ्जलिरेवं व्यजिज्ञपत् ॥ २७३ ॥
नाथेह भरते यूयं, यथा विश्वहितास्तथा । कत्यन्ये भाविनो धर्मचक्रिणश्चक्रिणः कति ? ॥ २७४ ।। तेषां च नगरं गोत्रं, पितरावर्भिधाऽऽयुषी । वर्ण मानान्तरे दीक्षागती च ज्ञापय प्रभो! ॥ २७५ ॥
अथाऽऽचचक्षे भगवान् , भरते भाविनोऽपरे । त्रयोविंशतिरर्हन्त, एकादश च चक्रिणः ॥ २७६ ॥ 15 जिनौ च विंशद्वाविंशौ, तत्र गोतमवंशजौ । काश्यपान्वयजास्त्वन्ये, सर्वे निर्वाणगामिनः ॥ २७७ ॥
अयोध्यायां जितशत्रु-विजयातनयोजितः । द्वासप्ततिपूर्वलक्षायुष्को निष्कसमद्युतिः ॥ २७८ ॥ अर्द्धपश्चमकोदण्डशतान्युत्तुङ्गविग्रहः । पूर्वाङ्गोनपूर्वलक्षपर्यायोऽसौ भविष्यति ॥ २७९ ॥ तथा मदीयनिर्वाणाऽजितनिर्वाणकालयोः । सागरोपमकोटीनां, लक्षाः पञ्चाशदन्तरम् ॥ २८० ॥
श्रावस्त्यां जितारि-सेनाभूः स्वर्णाभश्च सम्भवः । षष्टिपूर्वलक्षायुष्कश्चतुर्धन्वशतोच्छ्यः ॥२८१॥ 20 चतुःपूर्वाङ्गहीना च, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीना, लक्षाणि त्रिंशदन्तरम् ॥ २८२ ॥
विनीतापुर्यां संवर-सिद्धार्थाजोभिनन्दनः । पञ्चाशत्पूर्वलक्षायुः, सार्द्धधन्वशतत्रयः ॥ २८३ ।। वर्णाभः पूर्वलक्षाऽष्टपूर्वाङ्गोनाऽस्य तु व्रते । सागरोपमकोटीनां, दशलक्षाणि चाऽन्तरम् ॥ २८४ ॥
तत्पुर्या सुमतिर्मेघ-मङ्गलाभूः सुवर्णरुक् । सद्विचत्वारिंशत्पूर्वलक्षायुविधनुःशतः ॥ २८५ ॥ द्वादशपूर्वाङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवलक्षाणि चाऽन्तरम् ॥ २८६॥ 25
कौशाम्ब्यां धर-सुसीमासूनुः पद्मप्रभोऽरुणः । त्रिंशत्पूर्वलक्षायुष्कः, सार्द्धन्वशतद्वयः ॥२८७॥ षोडशपूर्वाङ्गन्यूनो, पूर्वलक्षोऽस्य तु व्रते । अब्धिकोटिसहस्राणां, नवतिः पुनरन्तरम् ॥२८८॥
वाराणस्यां तु प्रतिष्ठ-पृथ्वीसूनुः सुवर्णरुक् । सुपाश्वो विंशतिपूर्वलक्षायुर्द्विधनुःशतः ॥ २८९ ॥ विंशत्यङ्गविहीनोऽस्य, पूर्वलक्षो व्रते पुनः । सागरोपमकोटीनां, सहस्राणि नवाऽन्तरम् ।। २९० ॥
चन्द्रानने महासेन-लक्ष्मणाभूः शशिप्रभः । दशपूर्वलक्षायुप्कः, शुभ्रः सार्द्धधनुःशतः ॥२९१।। 80 चतुर्विंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, शतानि नव चाऽन्तरम् ।। २९२ ॥
काकन्द्या सुग्रीव-रामातनयः सुविधिः सितः। पूर्वलक्षद्वयायुष्क, एकधन्वशतोच्छ्रयः ॥२९३।। अष्टाविंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवतिः पुनरन्तरम् ॥ २९४ ॥
शीतलो भद्रिलपुरे, नन्दा-दृढरथात्मजः । स्वर्णाभः पूर्वलक्षायुर्धनुर्नवतिमुच्छ्रितः ॥ २९५ ॥ . *इमौ द्वौ २६२,२६३ तमौ श्लोकौ खंपुस्तके पतितौ । १ समर्था भवति । २ स्त्यानीभूतम् । ३ घृतम्। सर्वभाषानुगामिन्या। ५ तीर्थकराः। ६ नाम । ७ सुवर्णकान्तिः। ८ शरीरम् । चित्वरिंशत्पूर्वलक्षायुर्धनुखियतीमितः सं २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org