________________
15
१४० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
प्रथमं पर्व भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा । जितो भवान् वर्धते भीस्तस्मान्मा हन मा हन ॥ २२९ ॥ प्रतिपद्य तथा ते तु, भुञ्जते स तदोकसि । तथा च तद् वचः पेठुः, स्वाध्यायमिव तत्पराः ॥ २३० ॥ रतिमनो देव इव, नृदेवोऽपि प्रमद्वरः । तच्छब्दाकर्णनादेव, किश्चिदेवं व्यचिन्तयत् ॥ २३१ ॥ जितोऽस्मि केन ? हुं ज्ञातं, कषायैर्वर्धते च भीः । कुतो मे तेभ्य एवेति, मा हन्यां प्राणिनस्ततः ॥२३२॥ एवं च सारयन्त्येते, नित्यमेव विवेकिनः । अहो ! मम प्रमादित्वमहो ! विषयलुब्धता ॥ २३३ ॥ औदासीन्यमहो! धर्मेऽप्यहो ! संसाररागिता । अहो ! महापुरुषतोचिताचारविपर्ययः ॥ २३४ ॥ अनया चिन्तया धर्मध्यानं प्रावर्त्तत क्षणम् । गङ्गाप्रवाहः क्षाराब्धाविव तस्मिन् प्रमादिनि ॥ २३५ ॥ भूयोऽपि भूपः शब्दादिष्विन्द्रियार्थेष्वसज्यत । कर्म भोगफलं कोऽपि, नाऽन्यथा कर्तुमीश्वरः ॥२३६॥
सूदाध्यक्षैरथाऽन्येधुरेवं व्यज्ञपि भूपतिः । श्रावकोऽश्रावको वाऽपि, भूयस्त्वान्नोपलक्ष्यते ॥ २३७ ॥ 10 आदिशद् भरतः सूदान् , श्राद्धा यूयमपि स्थ यत् । परीक्षापूर्वकं देयमतः प्रभृति भोजनम् ॥ २३८ ॥
को भवान् ? श्रावकोऽहं, तद्वतानि कति? शंसनः। तानि न श्रावकाणां स्युः, किन्त्वसार्क सदापि हि ॥२३९॥ अणुव्रतानि पश्चाऽथ, सप्त शिक्षाव्रतानि च । एवं परीक्षानियूँढास्तैस्तेऽदर्यन्त भूपतेः ॥ २४०॥ ज्ञानदर्शनचारित्रलिङ्गं रेखात्रयं नृपः । वैकक्ष्यमिव काकिण्या, विदधे शुद्धिलक्षणम् ॥ २४१ ॥ अर्द्धवर्षेऽर्द्धवर्षे च, परीक्षां चक्रिरे नवाः । श्रावकाः काकिणीरत्नेनाऽऽलम्ब्यन्त तथैव हि ॥२४२॥ तल्लाञ्छना भोजनं ते, लेभिरेऽथाऽपठनिदम् । जितो भवानित्याधुच्चैर्माहनास्ते ततोऽभवन् ॥ २४३ ॥ निजान्यपत्यरूपाणि, साधुभ्यो ददिरे च ते । तन्मध्यात् स्वेच्छया कैश्चिद्, विरक्तैर्ऋतमाददे ॥ २४४ ॥ परीषहासहैः कैश्चिच्छ्रावकत्वमुपाददे । तथैव बुभुजे तैश्च, काकिणीरत्नलाञ्छितैः ॥ २४५ ॥ भूभुजा दत्तमित्येभ्यो, लोकोऽपि श्रद्धया ददौ । पूजितैः पूजितो यस्मात् , केन केन न पूज्यते ॥२४६॥
अर्हत्स्तुतिमुनिश्राद्धसामाचारीपवित्रितान् । आर्यान वेदान् व्यधाच्चक्री, तेषां स्वाध्यायहेतवे ॥२४७॥ 20 क्रमेण माहनास्ते तु, ब्राह्मणा इति विश्रुताः । काकिणीरत्नलेखास्तु, प्रापुर्यज्ञोपवीतताम् ॥ २४८ ॥
इयं भरतराज्येऽभूत् , स्थितिरर्कयशाः पुनः । स्वर्णयज्ञोपवीतानि, चक्रे काकिण्यभावतः ॥ २४९ ॥ महायशःप्रभृतयः, केचिद् रौप्याणि चक्रिरे । पट्टसूत्रमयान्यन्येऽपरे सूत्रमयानि तु ॥२५०॥ [युग्मम्] भरतादादित्ययशास्ततश्वाऽऽसीन्महायशाः। अतिबलो बलभद्रो, बलवीर्यस्ततोऽपि च ॥२५१॥
कीर्तिवीर्यो, जलवीर्यो, दण्डवीर्यस्ततोऽष्टमः । इत्यष्टौ पुरुषान् यावदाचारोऽयं प्रवृत्तवान् ॥२५२ ॥ 25 एभिर्भूपैश्च बुभुजे, भरताधं समन्ततः । भगवन्मुकुटः शक्रोपनीतो मृयधारि च ॥ २५३ ॥
शेषैर्महाप्रमाणत्वान स वोढुमपार्यत । हस्तिभिर्हस्तिभारो हि, वोढुं शक्येत नाऽपरैः ॥ २५४ ॥ जज्ञे साधुविच्छेदोऽन्तनवमदशमाहतोः । एवं सप्तस्वन्तरेषु, जिनानामेष वृत्तवान् ॥ २५५ ॥ वेदाचार्हत्स्तुतियतिश्राद्धधर्ममयास्तदा । पश्चादनार्याः सुलसायाज्ञवल्क्यादिभिः कृताः ॥२५६ ॥
इतश्च भरतस्तस्थौ, दिवसानतिवाहयन् । श्राद्धदानैः कामकेल्या, विनोदैरपरैरपि ॥ २५७ ॥ 30 अवनि पावयन् पादैर्गगनं चन्द्रमा इव । अन्येचुर्भगवानागादष्टापदमहागिरिम् ॥ २५८ ॥
सघश्च तत्र समवसरणे निर्मिते सुरैः । आसाञ्चके जगनाथो, विदधे धर्मदेशनाम् ॥ २५९ ॥ तथास्थितो जगत्स्वामी, समेत्याऽऽयुक्तपूरुषैः । शशंसे भरतेशाय, त्वरितैरनिलैरिव ॥ २६०॥ पूर्वप्रमाणं तेभ्योऽदाद्, भरतः पारितोषिकम् । दिने दिने कल्पतरुर्ददानो न हि हीयते ॥ २६१॥
पाचकाधिपतिभिः। २ तिर्यकक्षावलम्बी हारभेदः। * काकण्या खंता॥ काकणी खंता ॥ +काकणी काकणी खंता॥काकण्य खंता ॥ ३ सुविभिशीतलायतीर्थकृतोः। इतः खंता ॥ ४ नियुफपुरुषैः।
खंता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org