________________
षष्ठः सर्गः]
त्रिषष्टिशलांकापुरुषचरितम् । एवमालोच्य भरतः, पादमूले जगद्गुरोः । भ्रातृन् निमन्त्रयामास, भोगाय रचिताञ्जलिः ॥ १९४ ॥
प्रभुरप्यादिदेशैवमृज्वाशय! विशाम्पते। भ्रातरस्ते महासत्वाः, प्रतिज्ञातमहाव्रताः ॥ १९५॥ संसारासारतां ज्ञात्वा, परितस्त्यक्तपूर्विणः। न खलु प्रतिगृह्णन्ति,भोगान् भूयोऽपि वान्तवत्॥१९६॥[युग्मम् ] एवं निषिद्धो भोगेषु, स्वामिना भरतेश्वरः। भूयो विचिन्तयामास, सानुतापेन चेतसा ॥ १९७ ॥ यदि तावदमी त्यक्तसङ्गा भोगान् न भुञ्जते । तथाऽपि तावदाहारं, भोक्ष्यन्ते प्राणधारणम् ॥ १९८ ॥ 5 एवं विचिन्त्य शकटशतैः पञ्चभिरुच्चकैः । आनाय्याऽऽहारमनुजान्, न्यमत्रयत् स पूर्ववत् ॥ १९९ ॥ स्वामी भूयोऽप्युवाचैवमन्नादि भरतेश्वर !। आधाकर्माऽऽहृतं जातु, यतीनां न हि कल्पते ॥२०० ॥ एवं निराकृतो भूयोऽप्यकृताकारितेन सः । अन्नेनाऽऽमन्त्रयाञ्चक्रे, शोभते सर्वमार्जवे ॥ २०१॥ राजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते । एवं भूयो निराचक्रे, चक्रभृद् धर्मचक्रिणा ॥ २०२ ॥ खामिना प्रतिषिद्धोऽसि, सर्वथेति महीयसा । अदूयताऽनुतापेन, राहुणेव निशाकरः ॥ २०३॥ 1c उपलक्ष्य विलक्षत्वं, सहस्राक्षः क्षमापतेः । पप्रच्छ खामिनमिति, कतिधा स्यादवग्रहः ॥२०४॥ खाम्यपि व्याजहारैवं, पञ्चधा स्यादवग्रहः । इन्द्रक्रिनृपागारिसाधुसम्बन्धिभेदतः ॥ २०५॥ उत्तरेणोत्तरेणैषां, पूर्वः पूर्वः प्रबाध्यते । विधिः परोक्तो बलवान्, यत् पूर्वोक्तपरोक्तयोः ॥ २०६॥ शक्रोऽप्यूचेऽवग्रह मे, साधवो विहरन्ति ये । तदमीषां मया देवानुजज्ञेऽवग्रहो निजः ॥ २०७॥ इत्युदित्वा खामिपादान् , वन्दित्वाऽवस्थिते हरौ । एवं सश्चिन्तयामास, भूयोऽपि भरतेश्वरः।।२०८॥15 एमिर्मदीयं मुनिभिर्यद्यप्यन्नादि नाऽऽदृतम् । अवग्रहानुज्ञयाऽद्य, कृतार्थः स्यां तथाऽप्यहम् ॥ २०९ ॥ सम्प्रधाउँति हृदये, हृदयालुर्महीपतिः । शक्रवत् स्वामिपादाग्रेऽन्वज्ञासीत् स्वमवग्रहम् ॥ २१० ॥
सब्रह्मचारिणमिवेत्यपृच्छद् वासवं च सः । मया कि कार्यममुना, भक्तपानादिनाऽधुना ? ॥ २११॥ गुणोत्तरेभ्यो दातव्यमिति शक्रेण भाषिते । एवं स दध्यौ मम के, विना साधून गुणोत्तराः १ ॥२१२ ॥ आ! ज्ञातमथवा सन्ति, विरताविरताः खलु । गुणोत्तराः श्रावका मे, तेभ्यो देयमिदं मया ॥ २१३ ॥ 20
कर्त्तव्यं तच्च निश्चित्य, चक्रवर्ती दिवस्पतेः । भाखदाकृतिकं रूपं, दृष्ट्वा पप्रच्छ विसितः ।। २१४ ॥ किमीदृशेन रूपेण, ययं स्वर्गेऽपि तिष्ठथ ? । रूपान्तरेण यदि वा, कामरूपा हि नाकिनः ॥२१५॥ देवराजोऽब्रवीद् राजन्निदं रूपं न तत्र नः । यत् तत्र रूपं तन्मत्यैर्न द्रष्टुमपि पार्यते ॥ २१६ ॥ भरतः पुनरप्यूचे, सहस्राक्ष ! ममोच्चकैः । यौष्माकीणस्य रूपस्य, दर्शने तस्य कौतुकम् ॥ २१७ ॥ तस्या दिव्याकृतेः खस्या, दर्शनेन दिवस्पते ! । परिप्रीणय मे चक्षुश्चकोरमिव चन्द्रमाः ॥ २१८ ॥ 25 त्वं पुमानुत्तमोऽसीति, मा तेऽभूत् प्रणयो मुधा । तदेकमगावयवं, दर्शयिष्यामि भूपते ! ॥ २१९ ॥ इत्युदीर्य शुनासीरो, योग्यालङ्कारशालिनीम् । खाङ्गुली दर्शयामास, जगद्वेश्मैकदीपिकाम् ॥ २२० ॥ पार्वणेन्दुमिवोदन्वान् , विकसद्भासुरद्युतिम् । तां महेन्द्राङ्गुली दृष्ट्वा, मुमुदे मेदिनीपतिः ॥ २२१ ॥ भगवन्तं प्रणम्याऽथ, राजानमनुमान्य च । शतमन्युस्तिरोऽधत्त, सन्ध्याभ्रमिव तत्क्षणात् ॥ २२२ ॥
खामिनं प्रणिपत्याऽथ, चक्रवर्त्यपि शक्रवत् । कृत्यानि चिन्तयंश्चित्ते, विनीतां नगरीं ययौ ॥२२३।। 30 शक्राङ्गुली न्यस्य रानी, भरतोऽष्टाहिकां व्यधात् । भक्तौ स्नेहेऽपि च सतां, कर्त्तव्यं तुल्यमेव हि ॥२२४॥ इन्द्रस्तम्भं समुत्तभ्य, ततः प्रभृति सर्वतः । इन्द्रोत्सवः समारब्धो, लोकैरद्यापि वर्तते ॥ २२५ ॥ विजहार ततोऽन्यत्राऽष्टापदाद् भगवानपि । भव्याजबोधकृत क्षेत्रात्, क्षेत्रान्तरमिवार्यमा ॥ २२६ ॥ भरतोऽथ समाहूय, श्रावकानभ्यधादिदम् । गृहे मदीये भोक्तव्यं, युष्माभिः प्रतिवासरम् ॥ २२७॥ कृष्यादि न विधातव्यं, किन्तु स्वाध्यायतत्परैः । अपूर्वज्ञानग्रहणं, कुर्वाणैः स्थेयमन्वहम् ॥ २२८ ॥ 35 १ पश्चात्तापसहितेन । २ सरलत्वे । तीर्थकरेण । ४ इन्द्रः । ५ इन्द्रे। ६ प्रार्थना। ७ इन्द्रः।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only