________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व चक्रितोऽप्यौत्सुकायन्त, सैन्या नन्तुं जगत्पतिम् । असिकोशस्तदसितो, नितान्तं निर्शितोऽभवत् ॥१६१॥ सर्वतो मिलिताः सैन्या, महाकोलाहलेन ते । द्वाःस्थेनेव न्यवेद्यन्त, मध्यस्थस्याऽपि चक्रिणः ॥ १६२ ॥
अथाऽङ्गशौचं लानेन, प्रचक्रे चक्रवर्त्यपि । रागद्वेषजयेनेव, मनःशौचं मुनीश्वरः ॥ १६३ ।। भरतेशः कृतप्रायश्चित्तकौतुकमङ्गलः । पर्यधाद् वस्त्रनेपथ्यान्युज्वलानि स्ववृत्तवत् ॥ १६४ ॥ मूर्तीि श्वेतातपत्रेण, चामराभ्यां च पार्श्वयोः । भ्राजमानः स शुभ्राभ्यां, ययौ वेश्मान्तवेदिकाम् ॥१६५॥ पूर्वाचलमिवाऽऽदित्यस्तामारुह्य महीपतिः । नभोमध्यमिवोदग्रमारुरोह महागजम् ॥ १६६ ॥ भेरीशङ्खानकप्रायवर्यतूर्यमहारवैः । अनुवानोऽम्बराभोगं, यत्रधाराजलैरिव ॥ १६७ ॥ दिशो गर्निरुन्धानोऽम्बुदैरिव मदाम्बुभिः । तुरङ्गैश्छादयन्नुर्वी, तरङ्गैरिव सागरः ॥ १६८ ॥ हर्षत्वराभ्यां युग्मिभ्यामिव कल्परन्वितः । सान्तःपुरपरीवारः, सोऽगादष्टापदं क्षणात् ॥ १६९ ॥
[त्रिभिर्विशेषकम् ] सोऽवरुह्य गजात् तस्मादारुरोह महागिरिम् । गृहस्थधर्मादुत्तुङ, चारित्रमिव संयमी ॥ १७० ॥ उदग्द्वारेण समवसरणं प्रविवेश सः । प्रभुं ददर्श चाऽऽनन्दकन्दलोद्गमवारिदम् ॥ १७१॥ त्रिश्च प्रदक्षिणां कृत्वा, नत्वा च चरणौ प्रभोः । बद्धाञ्जलिः शिरस्येवमारेभे भरतः स्तुतिम् ॥ १७२ ॥
कुम्भैर्मानमिवाऽम्भोधेः, स्तवनं मादृशैस्तव । स्तोष्यामि तदपि स्वामिन् !, भक्त्या ह्यसि निरङ्कशः॥१७३॥ - त्वदाश्रितास्त्वया तुल्या, भवन्ति भविनः प्रभो!। यान्ति दीपस्य सम्पर्काद्, वर्त्तयोऽपि हि दीपताम् ॥१७४॥ माद्यदिन्द्रियदन्तीन्द्रामदीकरणभेषजम् । तव स्वामिन् ! विजयते, शासनं मार्गशासनम् ॥ १७५ ॥ हत्वा घातीनि कर्माणि, शेषकर्माण्युपेक्षसे । भुवनानुग्रहायैव, मन्ये त्रिभुवनेश्वर ! ॥ १७६ ॥ पादलमास्तव विभो!, लङ्घन्ते भविनो भवम् । उदैन्वन्तं पक्षिराजपक्षमध्यगता इव ॥ १७७ ॥
जयत्यनन्तकल्याणदुमोल्लासनदोहदम् । विश्वमोहमहानिद्राप्रत्यूषं दर्शनं तव ॥ १७८ ॥ 20 त्वत्पदाम्भोजसंस्पर्शाद, दीर्यते कर्म देहिनाम् । इन्दोर्मदुभिरप्युर्दन्तिदन्ताः स्फुटन्ति हि ॥ १७९ ॥
वृष्टिारिधरस्येव, मृगाङ्कस्येव चन्द्रिका । जगन्नाथ ! प्रसादस्ते, सर्वसाधारणः खलु ॥ १८० ॥ ___ एवं जगत्पतिं स्तुत्वा, नत्वा च भरतेश्वरः । निषसाद हरेः पृष्ठे, सामानिक इवाऽमरः ॥ १८१॥ दिवौकसां पृष्ठतश्च, निषेदुरपरे नराः । नराणां पृष्ठतो नार्य, ऊर्द्धा एवाऽवतस्थिरे ॥ १८२ ॥
इत्थं प्रथमवप्रान्तस्तस्थौ सङ्घश्चतुर्विधः । चतुर्विधो धर्म इवाऽनवद्ये स्वामिशासने ॥ १८३ ॥ 25 प्राकारे च द्वितीयसिस्तियश्चस्तस्थुरुन्मुदः । विरोधिनोऽपि हि मिथः, सस्नेहाः सोदरा इव ॥१८४॥ तार्तीयीके पुनर्वप्रे, नृपादीनामुपेयुषाम् । देशनाकर्णनोत्कर्णास्तस्थुर्यानपरम्पराः ॥१८५ ॥
सर्वभाषानुगामिन्या, मेघनिर्घोषधीरया । गिरा त्रिभुवनस्वामी, विदधे धर्मदेशनाम् ॥ १८६ ॥ आसक्तभारनिर्मुक्ता, इवाऽऽप्तेष्टपदा इव । कृवाभिषेककल्याणा, इव ध्यानस्थिता इव ॥ १८७ ॥ प्राप्ता इवाऽहमिन्द्रत्वं, परं ब्रह्म गता इव । शृण्वन्तो देशनां हर्षात्, तस्थुस्तिर्यग्नरामराः॥१८८॥ [युग्मम्]
देशनान्ते च भरतो, भ्रातृनात्तमहाव्रतान् । निरीक्ष्य समनस्तापो, मनस्येवमचिन्तयत् ॥ १८९ ॥ बन्धूनां गृह्णता राज्यमेतेषां किं कृतं मया? । अनारतमतृप्तेन, भसकामयिनेव हा! ॥ १९० ॥ अन्येभ्योऽपि ददानोऽस्मि, लक्ष्मी भोगफलामिमाम् । तच्च मे भसनि हुतमिव मूढस्य निष्फलम् ॥१९१॥ काकोऽप्याहूय काकेभ्यो, दत्त्वाऽन्नाद्युपजीवति । ततोऽपि हीनस्तदहं, भोगान् भुञ्जे विना ह्यमून् ॥१९२॥ दीयमानान् यदि पुनर्भोगान् भूयोऽपि मच्छुभैः । आददीरनमी भिक्षा, मासहूंपणिका इव ॥ १९३ ॥
१ उत्सुका अभवन् । २ तीक्ष्णः। ३ समुद्रम् । ४ रश्मिभिः। * °हन्मदाः सं २॥ ५ वाहनपरम्पराः। ६ मनःसन्तापसहितः। ७ भस्मकरोगिणेव । मासोपवासिनो मुनयः ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only