________________
षष्ठः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
छन्दकस्योपरि च्छत्रत्रितयं ते विचक्रिरे । आवर्त्तितं त्रिपथगास्रोतस्त्रयमिवाऽभितः ॥ १२८ ॥ कुतोऽपि हि समाहृत्य, पूर्वसिद्धमिव क्षणात् । इत्थं समवसरणमस्थाप्यत सुरासुरैः ॥ १२९ ॥
5
ततश्च पूर्वद्वारेण, मोक्षद्वारं जगत्पतिः । भव्यानां हृदयमिव, प्रविवेश तदुच्चकैः ॥ १३० ॥ तत्कालं श्रवणोत्तंसीभवच्छाखान्तपल्लवम् । ततः प्रदक्षिणीचत्रे, तमशोकतरुं प्रभुः ॥ १३१ ॥ नमस्तीर्थायेति वदन्, पूँर्वाशाभिमुखोऽथ तत् । राजहंस इवाऽम्भोजं, भेजे सिंहासनं विभुः ।। १३२ ।। दिक्ष्वन्यास्वपि तिसृषु, रूपाणि परमेष्ठिनः । रत्नसिंहासनस्थानि, विचक्रुर्व्यन्तरामराः ॥ १३३ ॥ पूर्व द्वाराऽविशन् साधु-साध्वी- वैमानिकस्त्रियः । प्रदक्षिणीकृत्य नेमुर्जिनं तीर्थ च भक्तितः ॥ १३४ ॥ प्राकारे प्रथमे तत्र, धर्माराममहाद्रुमाः । पूर्वदक्षिणदिश्यासाञ्चक्रिरे सर्वसाधवः ।। १३५ ।। तेषां च पृष्ठतस्तस्थुरूर्द्धा वैमानिकस्त्रियः । तासां च पृष्ठतस्तस्थुस्तथैव त्रैतिनीगणाः ॥ १३६ ॥ प्रविश्य दक्षिणद्वारा, प्राग्विधानेन नैर्ऋते । तस्थुर्भवनेशज्योतिर्व्यन्तराणां स्त्रियः क्रमात् ।। १३७ ।। प्रविश्य पश्चिमद्वारा, तद्वन्नत्वाऽवतस्थिरे । मरुद्दिशि भवनेशज्योतिष्कव्यन्तराः क्रमात् ॥ १३८ ॥ तदा च नाथं समवसृतं विज्ञाय वासवः । छादयन् द्यां विमानौधैस्तत्र सत्वरमाययौ ॥ १३९ ॥ प्रविश्योदीच्यद्वारेण, स्वामिनस्त्रिः प्रदक्षिणाम् । कृत्वा नत्वा च सुत्रामा, भक्तिमानेवमस्तवीत् ॥ १४० ॥
अपि सर्वात्मना ज्ञातुमशक्या योगिपुङ्गवैः । स्तुत्याः क्व ते गुणाः ? स्तोता, क्वाऽहं नित्यप्रमद्वरः ॥ १४१ ॥ तथापि नाथ ! स्तोष्यामि, यथाशक्ति भवद्गुणान् । दीर्घेऽध्वनि व्रजन् खञ्जः, किं केनाऽपि निवार्यते १ ॥ १४२ ॥ 15 भवदुःखातपक्लेशविवशानां शरीरिणाम् । छत्रच्छायायमानाङ्घ्रिच्छाय ! त्रायस्व नः प्रभो ! ॥ १४३ ॥ कृतार्थस्त्वं स्वयं नाथ !, कृते लोकस्य केवलम् । एवं विहरसे स्वार्थायोद्याति किमहस्करः १ ॥ १४४ ॥ मध्यन्दिनादित्य इव, त्वयि प्रतपति प्रभो ! । सङ्कुचत्यभितः कर्म, देहच्छायेव देहिनाम् ॥ १४५ ॥ तिर्यञ्चोऽपि हि धन्यास्ते, ये त्वां पश्यन्ति सर्वदा । भवद्दर्शनवन्ध्यास्तु, त्रिविष्टपसदोऽपि न ॥ १४६ ॥ प्रकृष्टेभ्यः प्रकृष्टास्ते, भविकास्त्रिजगत्पते ! । एको हृदयचैत्येषु येषां त्वमधिदेवता ॥ १४७ ॥ एकं याचे भवत्पादानू, ग्रामाद् ग्रामं पुरात् पुरम् । विहरन्नपि मा जातु, विहासीहृदयं मम ॥ १४८ ॥ प्रभुं स्तुत्वेति पञ्चाङ्गस्पृष्टभूमिः प्रणम्य च । पूर्वोत्तरस्यां दिश्यासाञ्चक्रे दिविषदां पतिः ॥ १४९ ॥
20
१३७
तथा च समवसृतं, स्वामिनं शैलपालकाः । शशंसुचक्रिणे तत्र तदर्थं स्थापिता हि ते ॥ १५० ॥ स वदान्यो ददौ स्वर्णकोटीर्द्वादश सार्द्धिकाः । तेभ्यो जिनं ज्ञपययः, सर्व स्तोकं हि तादृशाम् ॥ १५१ ॥ सिंहासनादथोत्थायाऽभिमुखं भगवदिशः । गत्वा पदानि सँप्ताऽष्टान्यनमद् विनयात् प्रभुम् ॥ १५२ ॥ 26 स्थित्वा सिंहासने भूयो भूय आजूहवन्नृपान् । स्वामिपादान्तयानाय, पुरन्दर इवाऽमरान् ॥ १५३ ॥ आययुः सर्वतो भूपाः, क्षणेन भरताज्ञया । वेलयेव पयोराशेरुचैवचिपरम्पराः ॥ १५४ ॥ जगर्जुर्दन्तिनस्तारं, वाजिनश्च जिहेषिरे । त्वरयन्त इव स्वामियानाय स्वाधिरोहकान् ॥ १५५ ॥ रथिनः पत्तयश्चेयुः, प्रमोदपुलकाञ्चिताः । राजाज्ञा भगवद्याने, सुगन्धिस्वर्णसनिभा ॥ १५६ ॥ सैन्यान्याष्टापदायोध्यं, न मान्ति स्म स्थितान्यपि । महानिर्झरिमीपूरफ्यांसीबाऽऽतटीद्वयम् ॥ १५७ ॥ १० श्वेतातपत्रैर्मायूरातपत्रैश्च वियत्यपि । मन्दाकिनीयमुनयोर्वेमीसङ्ग इवाऽभवत् ॥ १५८ ॥ सादिवीरकराग्रस्थाः, स्फुरद्भिः खैर्मरीचिभिः । कुन्ता अपि समुत्क्षिप्तकुन्ता इव चकाशिरे ॥ १५९ ॥ गर्जद्भिरूर्जितं हर्षादारूदैर्वीरकुञ्जरैः । कुञ्जरा अपि चोदूढकुञ्जरा इव रेजिरे ॥ १६० ॥
१ गङ्गाप्रवाहत्रयम् । २ प्रथमनिष्पन्नमिव । ३ पूर्वदिशाभिमुखः । ४ धर्मोद्यानमहावृक्षाः । ५ साम्यः । ६ः ७ पादविकलः । ८ सूर्यः । ९ देवाः । १० श्रेष्ठः । * सप्ताऽष्टौ ननामाऽन्वक्षवत् प्रभुम् संवा + भूयः सैन्वानाजूहवत् सं २, खंता, आ ॥ ई सेनाः खंता ॥ ११ महानदीपूरपयांसीव ।
त्रिषष्टि. १८
Jain Education International
For Private & Personal Use Only
10
www.jainelibrary.org