________________
15
१३६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व क्वचिन्नवविसास्वादमत्तहंसस्वरोद्धरम् । सरित्तटोन्मदक्रौञ्चक्रेङ्कारमुखरं क्वचित् ॥९७ ॥ क्वाऽप्यासन्नघनोन्माद्यत्केकि केकारवाकुलम् । क्वचित् सपरिसरत्सारसस्वरसुन्दरम् ॥ ९८॥ कौसुम्भवाससमिव, रक्ताशोकवनैः क्वचित् । तमालतालहिन्तालैनीलाम्बरमिव क्वचित् ॥ ९९ ॥ पीतांशुकमिव क्वाऽपि, किंशुकैः कुसुमाश्चितैः । श्वेतवस्त्रमिव कापि, मालतीमल्लिकावनैः ॥ १० ॥ अष्टयोजनमानेनोच्छ्रायेणाऽभ्रंलिहं ततः । गिरि गिरिगरिष्ठस्तमारुरोह जगद्गुरुः ॥ १०१॥
[चतुर्विंशत्या कुलकम् ] मरुत्कीर्णैर्दुकुसुमैस्तथा निझरवारिभिः । त्रिजगत्स्वामिनः सोऽद्रिरेषपाये व्यधादिव ॥ १०२ ॥ अष्टापदगिरिः सोऽथ, स्वामियादैः पवित्रितः । न हीनमान्यभून्मेरोस्तजन्मस्नानपावितात् ॥ १०३ ॥ प्रहृष्टपरपुष्टादिकूजितव्याजतो मुहुः । जगाविव जगन्नाथगुणानष्टापदाचलः ॥ १०४ ॥
क्षेत्रे योजनमात्रेऽथ, तृणकाष्ठादिकं क्षणात् । वर्द्धनीजीविन इव, जहुर्वायुकुमारकाः ॥१०५ ॥ विकृत्य सद्योऽप्यभ्राणि, पानीयमहिपानिव । गन्धान्बुभिस्तां सिषिचुः, क्षिति मेघकुमारकाः ॥१०६॥ वर्णरत्नशिलाभिश्च, विशालाभिर्दिवौकसः । सममादर्शतलवद्, ववन्धुर्धरणीतलम् ॥ १०७ ॥ पञ्चवर्णाः शक्रधनुःखण्डोत्करविडम्बिनीः । जानुदनीः सुमनसो, ववृषुर्व्यन्तरामराः ॥ १०८ ॥ व्यन्तरास्तत्र कालिन्दीवीचित्रीतस्करान् व्यधुः । दुदलैस्तोरणानार्दैः, ककुप्सु चतसृष्वपि ॥ १०९ ॥ तोरणान्यभितः स्तम्भेष्वराजन्मकराकृतिः । सिन्धूभयतटस्थास्नुमकरश्रीविडम्बिनी ॥ ११०॥ तेषु श्वेतातपत्राणि, चत्वारि च चकाशिरे । दिग्देवीनां चतसृणां, राजता इव दर्पणाः ॥१११ ॥ रेजुर्ध्वजपटास्तेषु, समीरणतरङ्गिताः । आकाशगङ्गातरलतरङ्गभ्रान्तिदायिनः ॥ ११२ ॥ अधोऽधस्तोरणान्यासन् , मौक्तिकस्वस्तिकादयः । जगतो मङ्गलमिहेत्यालेख्यलिपिविभ्रमाः ॥ ११३ ॥
तत्रोन्या रचिते पीठे, व वैमानिकाः सुराः । रत्नाकरश्रीसर्वस्वमिव रत्नमयं व्यधुः ॥ ११४ ॥ 20 तैश्चके तत्र माणिक्यकपिशीर्षपरम्परा । चन्द्रचण्डांशुमालेव, मानुषोत्तरसीमनि ॥ ११५ ॥
वलयीकृत्य हेमाद्रिशृङ्गमेकमिवाऽमलम् । प्राकारं मध्यमं ज्योतिष्पतयः काञ्चनं व्यधुः ॥११६ ॥ चक्रिरे कपिशीर्षाणि, तत्र रत्नमयानि ते । सचित्राणीव सुचिरं, प्रेक्षकप्रतिविम्वितैः ॥ ११७ ॥ विदधुर्भवनाधीशा, रौप्यं वामधस्तनम् । कुण्डलीभूतशेषाहिभोगभ्रमविधायिनम् ॥ ११८ ॥
चक्रुस्ते काश्चनीं तत्र, कपिशीर्षपरम्पराम् । क्षीरोदेतीरनीरस्थसुपर्णश्रेणिविभ्रमाम् ॥ ११९॥ 25 वने वने च चत्वारि, चक्रिरे गोपुराणि तैः । तदा विनीतानगरीप्रकारे गुह्यकैरिव ॥ १२० ॥
गोपुरेषु च माणिक्यतोरणान्यक्रियन्त तैः । प्रसारिभिः शतगुणानीव खैरेव रश्मिभिः ॥ १२१ ॥ द्वारे द्वारे न्यधीयन्त, व्यन्तरैबूंपचारकाः । चक्षुरक्षाञ्जनलेखासदृग्धूपोर्मिधारिणः ॥ १२२ ॥ मध्यवप्रान्तरे पूर्वोदीच्यां विश्रान्तये विभोः । देवच्छन्दं व्यधुर्देवा, देवालयमिवौकसि ॥ १२३ ॥
त्रिकोशमानश्चैत्यदुर्विचक्रे व्यन्तरामरैः । अन्तःसमवसरणं, पोतान्तरिव कूपकः ॥ १२४ ॥ 30 पीठं रत्नमयं चक्रुस्तेऽथ चैत्यतरोरधः । "तं मूलतः पल्लवितमिव कुर्वाणमंशुभिः॥१२५ ॥
मृज्यमानं मुहुश्चैत्यशाखिशाखान्तपल्लवैः । तस्योपरिष्टात् पीठस्य, ते रत्नच्छन्दकं व्यधुः ॥ १२६ ॥ तस्यान्तः प्राक् साभिपीठं, रत्नसिंहासनं व्यधुः । कर्णिकामिव विकचाम्भोजकोशस्य मध्यतः ॥ १२७ ॥
* कदलैः सं १॥ गगनपर्यन्तोन्नतम् । + ग रेष्टुं तसं १॥ २ अर्यपाद्योदके। ३ प्रहर्षितकोकिलादिकृजितमिषात् । ४ मार्जनीजीविनः । ५ जानुप्रजाणाः। ६ पुष्पाणि । ७ यमुना। अयं श्लोकः खंपुस्तके पतितः। मूर्द्धनि खंता ॥ ८ मण्डलीकृत्य । ९ क्षीरसमुद्रतटजलस्थगरुडपतिविभ्रमाम् । १० यक्षः। ११ किरणैः। खायितधू खंता । १२ प्रवहणान्तः कूपस्तम्भ इव । १३ चैत्यतरुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org