________________
10
पष्ठः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । भिया रसातलमिव, विविक्षुभिरधोमुखैः । तीक्ष्णतुण्डैः कण्टकैरप्यनाक्लिष्टपरिच्छदः ॥ ६६ ॥ *उपास्थमानो युगपद्, ऋतुभिर्निखिलैरपि । कर्तुं प्रायश्चित्तमिवाऽनङ्गसाहाय्यपाप्मनः ॥ ६७ ॥ मार्गावनीरुहैरुचैर्दूरानमितमूर्द्धभिः । असंज्ञैरपि नमस्क्रियमाण इवाऽभितः ॥ ६८ ॥ तालवृन्तानिलेनेव, मृदुना शीतलेन च । अनिलेनाऽनुकूलेन, सेव्यमानो निरन्तरम् ॥ ६९॥ न शुभं स्वामिवामानामिति ज्ञात्वेव पक्षिभिः । प्रदक्षिणं प्रोत्तरद्भिर्लङ्घयमानायवर्त्मकः ॥ ७० ॥ जघन्यतः कोटिसङ्खयै, राजमानः सुरासुरैः । यातायातपरैर्वेलातरङ्गैरिव सागरः ॥ ७१ ॥ भक्तिप्रभाववशतः, सप्रमेण दिवाऽपि हि । इन्दुनेव नमःस्थेनाऽऽतपत्रेण विराजितः ॥ ७२ ॥ इन्दोर्मरीचिसर्वस्वकोशैरिव पृथक्कृतैः । गङ्गातरङ्गधवलैर्वीज्यमानश्च चामरैः ॥ ७३ ॥ तपसा दीप्यमानैश्च, सौम्यैश्च श्रमणोत्तमैः । लक्षशः परिकरितः, उडुनाथ इवोडुभिः ॥ ७४ ॥ प्रतिग्रामं प्रतिपुरं, भव्यजन्तून् प्रबोधयन् । प्रतिसिन्धु प्रतिसरः, पङ्कजानीव भास्करः ॥ ७५ ॥ ग्रामाकरपुरद्रोणमुखकर्बटपत्तनैः । मडम्बाश्रमखेटाद्यैश्वापूर्णा विहरन् महीम् ॥ ७६ ॥ विश्वोपकारप्रवणो, भगवानृषभध्वजः । अपरेयुः क्रमात् प्रापदष्टापदमहाचलम् ॥ ७७॥
. [पञ्चविंशत्या कुलकम् ] शारदानामिवाऽभ्राणां, राशिमेकत्र कल्पितम् । संस्त्यांनीभूतदुग्धाब्धिवेलाकूटमिवाऽऽहृतम् ॥ ७८ ॥ जन्माभिषेकविकृतपुरन्दरककुमताम् । एकं ककुंअन्तमिवोत्तुङ्गशृङ्गमिव स्थितम् ॥ ७९ ॥ 15 नन्दीश्वरमहाद्वीपवर्तिपुष्करिणीसदाम् । मध्याद् दधिमुखाद्रीणामिवैकतममागतम् ॥ ८॥ जम्बूद्वीपारविन्दस्य, बिसंखण्डमिवोद्धृतम् । उद्भटं मुकुटमिव, श्वेतरत्नमयं भुवः ॥ ८१ ॥ नैर्मल्याद् भासुरत्वाच्च, नित्यमेव द्युसद्गणैः । स्नप्यमानमिवाऽम्भोभिर्मज्यमानमिवाऽशुकैः ॥ ८२ ॥ स्फटिकोपलकूलेषु, निर्मलेष्वङ्गनाजनैः । उपलक्ष्यसरिद्वारिं, वातोद्भूताब्जरेणुना ॥ ८३ ॥ शृङ्गाग्रभागविश्रान्तविद्याधरमृगीदृशाम् । वैताठ्यक्षुद्रहिमवद्विसारणभवान्तरम् ॥ ८४ ॥ 20 आदर्शमिव रोदस्योर्दिशां हासमिवाऽसमम् । ग्रहनक्षत्रनिर्माणमृत्स्नास्थलमिवाऽक्षयम् ॥ ८५ ॥ मध्यभागसमासीनक्रीडाश्रान्तकुरङ्गकैः । शिखरैर्दर्शितानेकमृगलाञ्छनविभ्रमम् ॥ ८६॥ आमुक्तामलसंव्यानमिव निर्झरपक्तिभिः । उत्पताकमिवोदश्चदर्ककान्तोपलांशुभिः ॥ ८७ ॥ तुङ्गनिर्मलशृङ्गाग्रतक्रान्तेन विवस्वता । मुग्धसिद्धपुरन्ध्रीणां, दत्तोदयगिरिभ्रमम् ॥ ८८॥ अत्यापत्रबहलैः, सन्ततच्छायमतिपैः । मयूरपत्ररचितैरातपरिवोरुभिः ॥ ८९॥ खेचरीमिर्लाल्यमानेष्वेणपोतेषु कौतुकात् । उत्प्रस्रवमृगीक्षीरसिच्यमानलतावनम् ॥९०॥ कदलीपत्रसंव्यानशबरीलास्यमीक्षितुम् । श्रेणीकृताक्षिपत्राभिः, सुरस्त्रीभिरधिष्ठितम् ॥ ९१ ॥ रतश्रान्तोरगीपीतदरिद्रितवनानिलम् । वनानिलनटक्रीडाप्रनर्त्तितलतावनम् ॥ ९२ ॥ किन्नरस्त्रीरतारम्भमन्दिरीभूतकन्दरम् । अप्सरोमजनभरोत्तरङ्गितसरोजलम् ॥ ९३ ॥ शारधूतपरैः क्वापि, पानगोष्ठीरतैः क्वचित् । कचनाऽऽबद्धपणितैर्यक्षैस्तुमुलितोदरम् ॥ ९४ ॥ 30 क्वचिच्छबरनारीभिः, किन्नरीभिः क्वचित् पुनः । क्वचिद् विद्याधरस्त्रीभिः, क्रीडाप्रक्रान्तगीतिकम् ॥१५॥ पक्कद्राक्षाफलोन्मत्तशुकैः काऽपि कृतारवम् । क्वाऽपि चूताङ्कुरोन्मत्तपिकोद्राहितपश्चमम् ॥ ९६ ॥
* इमौ ६७-६८ तमौ श्लोकौ खं पुस्तके न विद्यते। कामसाहाय्यपापस्य । २ मार्गवृक्षः। ३ निश्चेष्टैः। ४ स्वामिप्रतिकूलानाम् । ५ साधूत्तमः। ६ चन्द्रः। ७ नक्षत्रैः। ८ घनीभूतक्षीरसमुद्रवेलाकूटम् । ९ वृषभम् । १० नालखण्डम् । ११ देवसङ्घः। १२ उपलक्षणीयनदीजलम् । १३ द्यावाभूम्योः । १४ सूर्यग। १५ वृक्षैः। १६ मृगशिशुषु । १७ पाशफलकबूतपरैः। १८ कोलाहलीकृतमध्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org