________________
१३४
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
रोगे निपतितो घोरे, महारण्य इवाऽसखा । एवं विचिन्तयामास, मरीचिर्निजचेतसि ॥ ३२ ॥
अहो ! मम भवेोदीर्ण कर्म शुभेतरम् । मां यदेते परमिवोपेक्षन्ते खेऽपि साधवः ॥ ३३ ॥ यद्वा दिवाकरस्येव के नालोककारिणः । दोषो न कस्याऽपि मयि, साधोरप्रतिचारिणः || ३४ || सावद्यविरतास्ते हि, सावद्यनिरतस्य मे । वैयावृत्यं कथं कुर्युम्लेंच्छस्येव महाकुलाः ॥ ३५ ॥ न तान् कारयितुं युक्तं, वैयावृत्यं ममाऽपि हि । व्रतभ्रंशोत्थपापस्य, सन्तानाय हि तद् भवेत् ॥ ३६ ॥ तदात्मप्रतिचाराय, मन्दधर्माणमात्मवत् । अन्वेषयामि कमपि, युज्यन्ते हि मृगैर्मृगाः ॥ ३७ ॥ मरीचिश्चिन्तयन्नेवमुल्लाघः कथमप्यभूत् । कालादनूषरत्वं हि व्रजत्यूपरभूरपि ॥ ३८ ॥
5
अन्यदा स्वामिनः पादपद्मान्ते दूरभव्यकः । कुतोऽपि कपिलो नाम, राजपुत्रः समाययौ ॥ ३९ ॥ विश्वोपकारकरण प्रावृषेण्यपयोमुचः । कुर्वतो देशनां भर्तुर्धर्मस्तेन च शुश्रुवे ॥ ४० ॥ ज्योत्स्नेव चक्रवाकायोलूकायेव दिवामुखम् । प्रक्षीणभागधेयाय, रोगितायेव भेषजम् ॥ ४१ ॥ शीतलं वातलायेव, छागोयेव वनागमः । स धर्मः स्वामिगदितो, रुरुचे कपिलाय न ॥ ४२ ॥ [ युग्मम् ] धर्मान्तरं तु शुश्रूषुः क्षिपन् दृष्टिमितस्ततः । प्रेक्षाञ्चक्रे मरीचिं स, स्वामिशिष्यविलक्षणम् ॥ ४३ ॥ मरीचिं स्वामितः सोऽगाद्, धर्मान्तरजिघृक्षया । महेभ्याट्टाद् दरिद्राट्टमिव क्रायकबालकः ॥ ४४ ॥ धर्म तेनानुयुक्तस्तु, मरीचिरिदमभ्यधात् । नेहाऽस्ति धर्मो धर्मार्थी, यदि तत् स्वामिनं श्रय ॥ ४५ ॥ ऋषभस्वामिनः पादाभ्यर्णं भूयो जगाम सः । पुनराकर्णयामास, धर्मं तत्र तथैव तम् ॥ ४६ ॥ स्वकर्मदूषितायाऽस्मै, स्वामिधर्मोऽरुचन्न हि । चातकस्य वराकस्य, सम्पूर्णसरसाऽपि किम् ? ॥ ४७ ॥ मरीचिमा भूयः, स इत्यूचे च किं तव । योऽपि सोऽपि न धर्मोऽस्ति, निर्धर्मं किं व्रतं भवेत् ? ॥४८॥ मरीचिश्चिन्तयामासाऽनुरूपः कोऽप्ययं मम । अहो ! दैवादयं जज्ञे, योगः सदृशयोश्चिरात् ॥ ४९ ॥ सहायो निःसहायस्य, ममाऽस्त्विति विचिन्त्य सः । तत्राऽपि धर्मोऽस्त्यत्राऽपि धर्मोऽस्त्येवमभाषत ॥५०॥ 20 दुर्भाषितेन तेनैकेनाऽप्युपार्जयदुल्बणम् । अब्धिकोटीकोटिमानं, मरीचिर्भवमात्मनः ॥ ५१ ॥ अक्षयत् स कपिलं, स्वसहायं चकार च । परिव्राजकपाखण्डं, ततः प्रभृति चाऽभवत् ॥ ५२ ॥
अथ साग्रं योजनानां शतं लोकान् रुजां क्षयात् । अनुगृह्णस्तापशान्त्या, प्रावृषेण्य इवाम्बुदः ॥५३॥ पतङ्गमूषकशुकप्रायेतेरप्रवृत्तित: । अनीतेरिव भूपालः, सुखयन्नखिलाः प्रजाः ।। ५४ ॥ नैमित्तिकानां वैराणां, शाश्वतानां च सर्वतः । प्रशमात् प्रीणयन् जन्तून्, रविर्ध्वान्तक्षयादिव ॥ ५५ ॥ 25 व्यवहारप्रवृत्त्याऽग्रे, सर्वसौस्थ्यकृता यथा । आनन्दयन्नमार्या च परितोऽपि प्रजास्तथा ॥ ५६ ॥ अत्यन्तवृष्टयनावृष्टी, अजीर्णातिक्षुधाविव । प्रभावेनाऽगेदेनेव, जगतोऽप्यपसारयन् ॥ ५७ ॥ स्वान्यचक्रभवेनाऽन्तःशल्येनेवाऽपगच्छता । सद्यः प्रीतैर्जनपदैः, क्रियमाणागमोत्सवः ॥ ५८ ॥ सर्वसंहारघोराच्च, रक्षन् दुर्भिक्षतो जगत् । रक्षसो मान्त्रिक इव, स्तूयमानो भृशं जनैः ॥ ५९ ॥ भामण्डलं दधानश्च जितमार्त्तण्डमण्डलम् । बहिर्भूतमिवाऽनन्तं, ज्योतिरन्तरसम्मितम् ॥ ६० ॥ चक्रवर्ती चक्रेण, निःसाधारणतेजसा । प्रसर्पता पुरो व्योम्नि, धर्मचक्रेण राजितः ॥ ६१ ॥ लघुध्वजसहस्रेण, पुरो धर्मध्वजेन च । सर्वकर्मजयस्तम्भेनेव तुङ्गेन शोभितः ॥ ६२ ॥ स्वयं शब्दायमानेन, दिव्यदुन्दुभिना दिवि । क्रियमाणप्रयाणाईकल्याण इव निर्भरम् ॥ ६३ ॥ नमः स्थितेन स्फटिकरत्नसिंहासनेन च । पादपीठसमेतेन, यशसेवोपशोभितः ॥ ६४ ॥ सुरैः सञ्चार्यमाणेषु, सौवर्णेष्वम्बुजन्मसु । कुर्वाणश्चरणन्यासं, सलीलं राजहंसवत् ॥ ६५ ॥
10
15
30
[ प्रथमं पर्व
१ असहायः । २ स्वकीया अपि । ३ नीरोगः । ४ वातरोगिणे । ५ मेषाय । ६ धनाव्यापणात् । ८ पादसमीपम् । ९ औषधेन । १० स्वचक्रपरचक्रभवेन । ११ केवलज्ञानम् । १२ कमलेषु ।
Jain Education International
For Private & Personal Use Only
७ पृष्टः ।
www.jainelibrary.org