________________
षष्ठः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् ।
१३३
10
षष्ठः सर्गः। इतश्च स्वामिनः शिष्यो, मरीचिर्भरतात्मजः । एकादशानामङ्गानामध्येता निजनामवत् ॥ १॥ सहितः श्रामणगुणैः, सुकुमारो निसर्गतः । कलभो यूथपेनेव, विहरन् स्वामिना समम् ॥ २॥ ग्रीष्मे मध्यन्दिने भीष्मैर्दिवाकरकरोत्करैः । नाडीन्धमैरिवाऽऽध्मातेप्यभितो मार्गपांशुषु ॥ ३ ॥ अदृश्याभिर्हतवहज्वालाभिरिव सर्वतः । महावात्याभिरुष्णाभिः, खिलीभूतेषु वर्त्मसु ॥ ४ ॥ आपादमस्तकोद्भूतखेदधारानिरन्तरे । अग्नितप्तेषदा.धःसधीचि निजवमणि ॥५॥ पयःसंसिक्तसंशुष्कचर्मगन्धवदुद्धते । प्रस्खेदक्लिन्नवस्त्राङ्गमलगन्धे च दुःसहे ॥६॥ पादयोर्दह्यमानश्चाऽवतप्ते नकुलस्थितम् । नाटयंस्तृष्णयाऽऽक्रान्तश्चेतसैवमचिन्तयत् ॥ ७ ॥
[ सप्तभिः कुलकम् ] केवलदर्शनज्ञानार्केन्दुमेरुमहीभृतः । ऋषभखामिनस्तावदसि पौत्री जगद्गुरोः ॥ ८ ॥ अखण्डषदखण्डमहीमण्डलाखण्डलस्य च । विवेकैकनिधेस्तस्स, पुत्रोऽसि भरतेशितुः ॥ ९॥ चतुर्विधस्य सङ्घस्याऽन्वक्षं च स्वामिनोऽन्तिके । प्रात्राजिपं पञ्चमहाव्रतोच्चारणपूर्वकम् ॥१०॥ एवं सति स्थानतोऽसाल्लञ्जयानलितस्य मे । न युज्यते गृहे गन्तुं, वीरस्येव रणाजिरात् ॥ ११ ॥ श्रामणं गुणभारं च, महाद्रिमिव दुर्वहम् । मुहूर्त्तमपि चोद्वोढुमलमसि न साम्प्रतम् ॥ १२ ॥ इतः कुलायमलिनमितश्चाऽसुकरं व्रतम् । इतस्तटीतः शार्दूलः, सङ्कटे पतितोऽसि हा ! ॥ १३॥ 15 आ ज्ञातमथवाऽस्तीह, सुषमो विषमेऽपि हि । पर्वते दण्डकपथ, इव पन्था अयं खलु ॥ १४ ॥ मनोवाक्कायदण्डानां, जयिनः श्रमणा ह्यमी । तैरहं विजितोऽस्मीति, भविष्यामि त्रिदण्डिकः ॥१५॥ अमी मुण्डाः शिरकेशलुश्चनेन्द्रियनिर्जयैः । अहं पुनर्भविष्यामि, क्षुरमुण्डशिखाधरः ॥१६॥ स्थूलसूक्ष्मप्राणिवधादिभ्योऽमी विरताः सदा । स्थूलप्राणातिपातादिविरतिर्भवतान्मम ॥ १७ ॥ एते ह्यकिञ्चना मेऽस्तु, स्वर्णमुद्रादि किश्चन । एतेऽनुपानेहोऽहं तु, परिधास्याम्युपानहौ ॥ १८॥ 20 एतेऽष्टादशशीलाङ्गसहरुयाऽतिसुगन्धयः । शीलेनाऽहं तु दुर्गन्ध, आदास्ये चन्दनादिकम् ॥ १९ ॥ अपमोहाः साधवोऽमी, मोहच्छन्नोऽस्म्यहं ततः । तच्चिह्न धारयिष्यामि, च्छत्रकं मस्तकोपरि ॥२०॥ श्वेतवस्त्रधरा एते, कषायकलुषस्त्वहम् । तत्स्मृत्यै परिधास्यामि, काषायाण्यंशुकान्यहम् ॥ २१ ॥ पापभीताः प्राज्यजीव, जलारम्भं त्यजन्त्यमी । अस्तु स्नानं च पानं च, पानीयेन मितेन मे ॥ २२ ॥ स्वबुद्ध्या कल्पयित्वैवं, मरीचिलिङ्गमात्मनः । बभार तादृशश्वाऽथ, विजहे स्वामिना सह ॥ २३ ॥ 25 नाऽश्वो न च खरः किन्तुभयांशोऽश्वतरो यथा । न संयतो न च गृही. मरीचिरभवत तथा ॥ २४॥ महर्षिषु विजातीयं, मरालेष्विव वायसम् । तं निरीक्ष्य जनो भूयान् , धर्म पप्रच्छ कौतुकात् ॥ २५ ॥ मूलोत्तरगुणप्रष्ठं, साधुधर्ममुपादिशत् । स्वयं च तदनाचारे, पृष्टोऽशक्तिं जगाद सः ॥२६॥ प्रतिबोध्याऽऽगतान् भव्यान्, परिविव्रजिषून् सतः । मरीचिः श्रेषयामास, समीपे स्वामिपादयोः ॥२७॥ प्रतिबुध्यागतानां च, तेषां दीक्षां स्वयं ददौ । निष्कारणोपकारेकबन्धुः स्वाम्वृषभध्वजः ॥ २८॥ 30 मरीचेः स्वामिना सार्द्ध, एवं विहरतोऽन्यदा । शरीरे रोग उत्पेदे, काष्ठे घुण इवोल्वणः ॥ २९॥ प्रालम्बभ्रष्टकपिवद् , व्रतभ्रष्टो बहिष्कृतः। खयूथ्यसंयतैनँव, मरीचिः प्रत्यपाल्यत ॥३०॥ अजातप्रतिचारोऽसौ, बबाधे व्याधिनाऽधिकम् । इक्षुवाट इवाऽऽरक्षवर्जितः सूकरादिना ॥ ३१ ॥ - * °करैरसौ खं ॥ १ अग्नितोषदाईकाइसमाने। २ स्वशरीरे। ३ प्रत्यक्षम् । ४ काञ्चनादिरहिताः । ५ चर्मपादुकारहिताः। ६ मोहरहिताः। ७ वमाणि । हंसेषु । ९ काकम् । इत आरभ्म ५२ पर्यन्तं श्लोकाः सं १,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org