________________
१३२
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व वपुषा तद्वपुरवष्टभ्य शैलतटीमिव । वाणसकुलान्यन्त्रभूवन्निद्रासुखं निशि ॥ ७६८ ॥ सल्लकीपल्लवभ्रान्त्या, तत्पाणिचरणं मुहुः । कर्षन्तः कटुमसहा, वैलक्ष्यं करिणो ययुः ।। ७६९ ॥ उत्कण्टककरालाभिर्जिह्वाभिः करपत्रवत् । विश्वस्तास्तं लिहन्ति स्मोदाननाश्चमरीगणाः ॥ ७७० ॥
लताभिः शतशाखाभिः, प्रसरन्तीभिरुच्चकैः । मुरजश्चर्मवीभिरिव सोऽवेश्यताऽभितः ॥ ७७१ ॥ 5 परितस्तं शरस्तम्बाः, प्ररोहन्ति स सन्तताः । पूर्वस्नेहवशायातशराढ्यशरधिश्रियः ॥ ७७२ ॥
उद्ययुः पादयोस्तस्य, प्रावृट्पङ्कनिमग्नयोः । चलच्छंतपदीगर्भा, अदभ्रा दर्भसूचयः ।। ७७३ ॥ प्रचक्रिरे कुलोयांश्च, तदेहे वल्लिसङ्कुले । परस्पराविरोधेन, ते श्येनचटकादयः ।। ७७४ ॥ अरण्यकेकिकेकातस्त्रस्तास्तत्र महोरगाः । वल्लीवितानगहने, समारोहन् सहस्रशः ॥ ७७५ ॥
शरीरमधिरूढेस्तैलंम्बमान जङ्गमैः । बभौ बाहुबलिर्बाहुसहस्रमिव धारयन् ॥ ७७६ ॥ 10 पादपर्यन्तवल्मीकविनियोतैर्महोरगैः । पादयोर्वेष्टयाश्चक्रे, स पादकटकैरिख ।। ७७७ ॥ इत्थं स्थितस्य ध्यानेन, तस्यैको वत्सरो ययौ । विनाऽऽहारं विहरतो, वृषभस्वामिनो यथा ॥ ७७८ ॥
पूर्णे तु वत्सरे विश्ववत्सलो वृषभध्वजः । आहूय भगवान् ब्राह्मीसुन्दर्यावेवमादिशत् ॥ ७७९॥ स इदानीं बाहुबलिः, क्षीणप्रचुरकर्मकः । शुक्लचतुर्दशीरात्रिरिव प्रायेण निस्तमाः ।। ७८० ॥ मानात् स मोहनीयांशाज्ज्ञानं नाऽऽमोति केवलम् । तिरोहितः काण्डपटेनाऽप्यर्थो न हि दृश्यते ॥७८१॥ युवयोर्वचसा मानं, सद्यस्त्यक्ष्यति सोऽद्य तत् । यातं तस्योपदेशाय, समयः खलु वर्तते ॥ ७८२ ॥
तामाज्ञां शिरसाऽऽदाय, नत्वा च चरणौ प्रभोः। प्रति बाहुबलिं ब्राह्मीसुन्दर्यो चेलतुस्ततः ।।७८३॥ ज्ञात्वाऽपि तन्मानमुपेक्षाञ्चके वत्सरं प्रभुः । अगूढलक्ष्या अर्हन्तः, समये ह्युपदेशकाः ॥ ७८४ ।। ते आर्ये जग्मतुस्तत्र, देशे वल्लीतिरोहितम् । रनं रजश्छन्नमिवाऽलक्षयेतां न तं मुनिम् ॥ ७८५ ॥
मुहुरन्वेषयन्तीभ्यां, ताभ्यामथ तथास्थितः । पालक्षि कथञ्चित् स, वृक्षेभ्यो ह्यविशेषमाक् ।। ७८६ ॥ 20 निपुणं लक्षयित्वा तं, कृत्वा त्रिश्च प्रदक्षिणाम् । महामुनि बाहुबलिं, ते वन्दित्वैवमूचतुः ॥ ७८७ ।।
आज्ञापयति तातस्त्वां, ज्येष्ठार्य! भगवानिदम् । हस्तिस्कन्धाधिरूढानामुत्पद्येत् न केवलम् ॥ ७८८ ।।
इत्युदित्वा भगवत्यौ, जग्मतुस्ते यथागतम् । सोऽपि विस्मयमानोऽन्तर्महात्मैवमचिन्तयत् ॥ ७८९ ॥ त्यक्तसावद्ययोगस्य, कायोत्सर्गजुषस्ततः । असिंस्तरोरिवाऽरण्ये, ममेभारोहणं कुतः १ ॥ ७९० ॥ इमे भगवतः शिष्ये, भाषेते न मृपा क्वचित् । तत् किमेतदहो ! यद्वा, हुं ज्ञातं हि चिरान्मया ॥ ७९१ ॥ को हि व्रतगरिष्ठानां, कनिष्ठानां नमस्क्रियाम् । कति मान एवेभस्तमारूढोऽसि निर्भरम् ॥ ७९२ ॥ जगत्रयगुरोस्तस्य, चिरं सेवाजुषोऽपि मे । नाऽभूद् विवेकस्तरणं, कुलीरस्येव वारिणि ।। ७९३ ॥ प्रतिपन्नवतेष्वादौ, स्वभ्रातृषु महात्मसु । कनिष्ठा इति यत् तेषु, नाऽभून्मम विवन्दिषा ॥ ७९४ ॥ इदानीमपि गत्वा तान् , वन्दिष्येऽहं महामुनीन् । चिन्तयित्वेति स महासत्त्वः पादमुदक्षिपत् ।। ७९५॥
लतावल्लीवत् त्रुटितेष्वभितो घातिकर्मसु । तस्मिन्नेव पदे ज्ञानमुत्पेदे तस्य केवलम् ॥ ७९६ ॥ 30 उत्पन्नकेवलज्ञानदर्शनः सौम्यदर्शनः । वेरिव शशी सोऽथ, जगाम स्वामिनोऽन्तिकम् ।। ७९७ ॥
प्रदक्षिणां तीर्थकृतो विधाय, तीर्थाय नत्वा च जगन्नमस्यः ।
महामुनिः केवलिपर्षदन्तस्तीर्णप्रतिज्ञो निषसाद सोऽथ ॥ ७९८ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरूषचरित महाकाव्ये प्रथमे पर्वणि
बाहुबलिसङ्ग्राम-दीक्षा-केवलज्ञानसङ्कीर्तनो नाम पञ्चमः सर्गः ॥५॥
१ गण्डकाख्यः पशुविशेषः। २ अर्ध्वमुखाः । ३ मृदङ्गः । ४ कीटविशेषः। ५ नीडानि। ६ अटवीमयूरवाणीतः। ७ पटखण्डेन । ८ गतम् । ९ हस्स्यारोहणम् । १० कर्कटस्य जलजन्तुविशेषस्य । ११ वन्दितुमिछा। १२ जगतां नमस्करणीयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org