________________
पञ्चमः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
सर्वथा त्यजनीयेयमिति निश्चित्य चेतसि । महामना बाहुबलिरित्यूचे चक्रवर्त्तिनम् ॥ ७३६ ॥ तितिक्षत्र क्षमानाथ !, राज्यमात्रकृतेऽपि यत् । द्विषन्निव मया भ्रातरेवं त्वमसि खेदितः ॥ ७३७ ॥ महाभवइदेऽमुष्मिस्तन्तुं पाशसहोदरैः । भ्रातृपुत्रकलत्राद्यै, राज्येन च कृतं मम ॥ ७३८ ॥ त्रिजगत्स्वामिनो विश्वाभयदानैकसत्रिणः । एष पान्थीभविष्यामि, पथि तातस्य सम्प्रति ॥ ७३९ ॥ इत्युदित्वा महासच्चः सोऽग्रणीः शीघ्रकारिणाम् । तेनैव मुष्टिना मूर्भ, उद्दधे तृणवत् केचान् ॥ ७४० ॥ ॐ साधु साध्विति सानन्दं निगदन्तो दिवौकसः । बाहुबलेरुपरिष्टात्, पुष्पवृष्टिं वितेनिरे ॥ ७४१ ॥ सोऽप्येवं चिन्तयामास, प्रतिपन्नमहाव्रतः । किं तातपादपद्मान्तमहं गच्छामि सम्प्रति ? || ७४२ ॥ नोवा यास्यामि पूर्वात्तत्रतानां ज्ञानशालिनाम् । मध्येऽनुजानामपि मे, यल्लघुत्वं भविष्यति ॥ ७४३ ॥ sa दग्ध्वा घातीनि कर्माणि ध्यानवह्निना । अवाप्तकेवलज्ञानो, यास्यामि स्वामिपर्षदि ॥ ७४४ ॥ मनस्वी चिन्तयन्भेवं, प्रलम्बितभुजद्वयः । कायोत्सर्गेण तत्रैवाऽस्थाद् रत्नप्रतिमेव सः ॥ ७४५ ॥
10
"
20
भरतस्तं तथा दृष्ट्वा, विचार्य स्वं कुकर्म च । बभूव न्यतिग्रीवो, विविक्षुरिव मेदिनीम् ॥ ७४६ ॥ शान्तं रसं मूर्त्तमिव भ्रातरं प्रणनाम सः । नेत्रयोरशुभिः कोष्णैः, कोपशेषमिवोत्सृजन् ॥ ७४७ ॥ भरतः प्रणमंस्तस्याऽधिकोपास्तिविधित्सया । नखादर्शेषु सङ्क्रान्त्या, नानारूप इवाभवत् ।। ७४८ ।। सुनन्दानन्दनमुनेर्गुणस्तवनपूर्विकाम् । खनिन्दामित्यथाऽकार्षीत्, स्वापवादगदौषधीम् ॥ ७४९ ।। धन्यस्त्वं तत्यजे येन, राज्यं मदनुकम्पया । पापोऽहं यदसन्तुष्टो, दुर्मदस्त्वामुपाद्रवम् ।। ७५० ॥ स्वशक्ति ये न जानन्ति ये चान्यायं प्रकुर्वते । जीयन्ते ये च लोभेन, तेषामस्मि धुरन्धरः ।। ७५१ ॥ राज्यं भवतरोर्बीजं, ये न जानन्ति तेऽधमाः । तेभ्योऽप्यहं विशिष्ये तदजहानो विदन्नपि ।। ७५२ । त्वमेव पुत्रस्तातस्य, यस्तातपथमन्वगाः । पुत्रोऽहमपि तस्य स्यां चेद् भवामि भवादृशः ।। ७५३ ।। विषादपङ्कमुन्मूल्य, पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं, तद्राज्ये स न्यवीविशत् ।। ७५४ ॥ तदादि सोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ॥ ७५५ ॥ ततो बाहुबलिं नत्वा, भरतः सपरिच्छदः । पुरीमयोध्यामगमत्, खाराज्यश्रीसहोदराम् ।। ७५६ ।। भगवानपि तत्रैकस्तस्थौ बाहुबलिर्मुनिः । भूमेरिव समुद्भूतोऽवतीर्णो गगनादिव ।। ७५७ ।। ध्यानैकतानो नासान्तविश्रान्तनयनद्वयः । निष्कम्पः स मुनिः शङ्कुरिव दिक्साधनो बभौ ।। ७५८ ॥ विकिरन्तीं वह्निकणानिवोष्णान् वालुकाकणान् । उष्णवात्यां देहेन स सेहे वनवृक्षवत् ॥ ७५९ ।। अग्निकुण्डमिव ग्रीष्ममध्यन्दिनरविं च सः । शुभध्यानसुधामनो, नाऽज्ञासीन्मूर्ध्न्यपि स्थितम् ॥ ७६० ॥ 25 आर्शिरःप्रपदं ग्रीष्मतापात् स स्वेदवारिभिः । रजः पङ्कीकृतैः क्रोर्ड, इवाऽभात् पङ्कनिर्गतः ॥ ७६१ ।। स प्रावृषि महाझञ्झानिलघूर्णितपादपैः । धारासारैर्गिरिरिव, नाऽभिद्यत मनागपि ॥ ७६२ ॥ विद्युत्पातेषु निर्घातकम्पिताद्रि शिरःस्वपि । न कायोत्सर्गतो नाऽपि, ध्यानतः प्रचचाल सः । ७६३ ।। अधोद्वारिभवैः, शैवलैश्वरणद्वयम् । तस्योर्द्वसग्रामवापीसोपानवदलिप्यत || ७६४ ॥ हिमतौं हिमसाद्भूतद्विपदमसरित्यपि । सोऽस्थात् कर्मेन्धनप्लोषोद्युक्तध्यानाग्निना सुखम् ॥ ७६५ ॥ Titty हिमष्टषु त्रिषु कुन्दैवत् । धर्म्यं ध्यानं बाहुबलेरुअजृम्भे विशेषतः ॥ ७६६ ।। तस्मिन्नरण्यमहिषा, विषणाच्छोटपूर्वकम् । महातरुस्कन्ध इव, स्कन्धकण्डूयनं व्यधुः ॥ ७६७ ॥
१] तन्तुपाश सहशैः । २ केशान् । * °लिर्नृपः खंता ॥ ६ स्थाणुरिव । वापीसोपानवत् । ११ हिमसाद्भूतगजप्रमाणसरिति । कुसुमवत् । १५ शृङ्गाच्छोटनपूर्वकम् ।
Jain Education International
१३१
३ नम्रीभूतग्रीवः । ४ प्रवेष्टुमिच्छुः । ५ अधिकोपासनां विधातुमिच्छया । ७ ग्रीष्म वातसमूहम् । ८ आमस्तकपादानम् । ९ सूकरः । १० निर्जनग्राम१२ हेमन्त सम्बन्धिनीषु । १३ हिमदग्धवृक्षासु । १४ माध्य
For Private & Personal Use Only
15
30
www.jainelibrary.org