________________
कलिकालसर्वज्ञश्रीक्षेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व किं स्वादस्योपयोगाय, साधितं भरतं मया ? । गोदोहकस्येव गवा, जग्धं दूतृणादिकम् ॥ ७०३ ॥ एकस्मिन् भरतक्षेत्रे, युगपच्चक्रवर्तिनौ । उभावसी कोश इव, न च दृष्टौ न वा श्रुतौ ॥ ७०४॥ इन्द्रो विजीयते देवैश्चक्रवर्ती च पार्थिवैः । अनाकर्णितपूर्व नश्चेदं खरविषाणवत् ॥ ७०५ ॥ अमुना विजितश्चक्रवर्ती किं न भवाम्यहम् ? । मयाऽप्यविजितो विश्वाजय्यस्तच्चक्रवर्त्यसौ ? ॥ ७०६ ।। एवं चिन्तयतस्तस्य, चिन्तामणिविडम्बकैः । यक्षराजैः समानीय, चक्रमारोपितं करे ॥ ७०७ ॥ तत्प्रत्ययाच्चक्रिमानी, चक्रं भ्रमयति स्म सः । वात्यावर्त इवाऽम्भोजरजोमण्डलमम्बरे ॥ ७०८ ॥ कालानल इवाऽकालेऽप्यौर्वानल इवाऽपरः । वज्रानल इवाऽकस्मादुल्कापुञ्ज इवोच्चकैः ॥ ७०९ ॥ रविबिम्बमिव भ्रस्यद् , विद्युद्गोल इव भ्रमन् । ज्वालाजालकरालं तच्चक्रं व्योमन्यलक्ष्यत ॥७१०॥ [युग्मम् ]
भ्रम्यमाणं प्रहाराय, तच्चक्र चक्रवर्तिना । निध्यायं दध्यौ मनसि, मनस्वी बहलीपतिः ॥ ७११॥ 10 धिक् तातपुत्रमानित्वमस्य क्षत्रत्रतं च धिक् । मयि दण्डायुधे चक्रादानं यद् भरतेशितुः॥ ७१२॥
समक्षं घुसदामस्योत्तमयुद्धप्रतिश्रवम् । धिगहो ! बालकस्येव, संव्यानादानमीदृशम् ॥ ७१३ ॥ तेजोलेश्यां तपस्वीव, रुष्टश्चकं प्रदर्शयन् । यथैषोऽभापयद् विश्वं, मां विभाययिषुस्तथा ॥ ७१४ ॥ निजदोर्दण्डदण्डानां, सारं विज्ञातवान् यथा । असौ तथा राङ्गस्याऽप्यस्य जानातु विक्रमम् ॥७१५ ॥
एवं चिन्तयतो बाहुबलेर्दोर्बलशालिनः । प्रेर्य सौंजसा चक्र, मुमोच भरतेश्वरः ॥ ७१६ ॥ 15 दण्डेन दलयाम्याशु, किमिदं जीर्णभाण्डवत् । किंवा कन्दुकवत् पश्चात्, क्षिपाम्याहत्य हेलया ?।।७१७॥
शङ्खलॉवत् किमथवा, लीलयोल्लालयामि खे? । यदि वा मेदिनीमध्ये, न्यस्यामि शिशुनालवत् ? ॥७१८ ।। गृह्णामि पाणिना किं वोल्ललच्चटकपोतवत् ? । अथाऽपहस्तयाम्याराद्, वधानपिराधिवत् ? ॥ ७१९ ॥ अथाऽधिष्ठायकानस्य, सहस्रं यक्षकानमून् । दलयाम्याशु दण्डेन, घरटेन कणानिव ? ॥ ७२० ॥
विधेयमथवा सर्वमिदं पश्चादमुष्य हि । जानामि प्रथमं तावदलकीणतावधिम् ॥ ७२१॥ 20 एवं विमृशतस्तक्षशिलाभर्तुरुपेत्य तत् । चक्रे प्रदक्षिणां चक्रमन्तेवासी गुरोरिव ॥ ७२२ ॥
[षद्भिः कुलकम् ] न चक्रं चक्रिणः शक्तं, सामान्येऽपि स्वगोत्रजे । विशेषतस्तु चरमशरीरे नरि तादृशे ॥ ७२३ ॥ चक्र चक्रभृतः पाणिं, पुनरप्यापपात तत् । वासयष्टिं खग इव, तुरङ्ग इव मन्दुरीम् ॥ ७२४ ॥ विषं विषधरस्येवाऽमोघं मारणकर्मणि । इदमेवाऽस्त्रसर्वस्वमस्य नाऽन्यदतः परम् ।। ७२५ ॥
मयि दण्डायुधे चक्रमोक्षादन्यायकारिणम् । तदेनमेष मृद्रामि, सचक्रमपि मुष्टिना ॥७२६ ॥ अमोचिन्तयित्वैवं, सुनन्दानन्दनो दृढाम् । मुष्टिमुद्यम्य यमवद्, भीषणः समधावत ॥ ७२७ ॥ करीवोन्मुद्गरकरः, कृतमुष्टिकरो द्रुतम् । जगाम भरताधीशान्तिकं तक्षशिलापतिः॥७२८॥ मर्यादोामिवोद॑न्वांस्तत्र तस्थौ रयादपि । एवं च स महासत्त्वश्चिन्तयामास चेतसि ॥ ७२९ ॥
अहो ! राज्यस्य लुब्धेन, लुब्धैकादपि पापिना । अमुनेव समारब्धो, धिर धिग् भ्रातृवधो मया ॥७३०॥ 20 पदादावपि हन्यन्ते, भ्रातृभ्रातृव्यकादयः । शाकिनीमत्रवत् तस्य, राज्यस्याऽर्थे यतेत का ? ॥ ७३१ ॥
राज्यश्रिया प्राप्तयाऽपि, यथेच्छं भुक्तयाऽपि च । सुरयेव सुरापस्य, पुंसस्तृप्तिर्न जायते ।। ७३२ ॥ भवेदाराध्यमानापि, प्राप्य स्तोकमपि च्छलम् । राज्यलक्ष्मीः क्षणात् क्षुद्रदेवतेव पराशुखी ॥ ७३३ ॥ राज्यलक्ष्मीरमावास्यारात्रिवद् भूरितामसा | उज्झाञ्चकार तृणवत्, तातोऽप्येनां कुतोऽन्यथा ? ॥७३४ ॥ तस्य तातस्य पुत्रेण, सताऽप्येषा मया चिरात् । दुर्वृत्तत्वेन विज्ञाता, ज्ञास्यत्यन्यः कथं ह्यमूम् ? ॥७३५॥
भुक्तम् । २ वडवाग्निः । ३ दृष्ट्वा । ४ चक्रस्य । ५ उत्पलपत्रिकायत् । ६ पराक्रमावधिम् । ७ शिव्यः। ८ अश्वशालाम् । ९ भरतस्य। १० समुद्रः। ११ व्याधात् । १२ भ्रातुः पुत्रादयः । १३ मदिरापानकारकस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org