________________
पञ्चमः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् । उन्मील्य नयने हस्तेनाऽऽददे बाहुबल्यपि । उद्दण्डमायसं दण्डं, सानामिक इव द्विपः ॥ ६७१ ॥ पाटयिष्यत्यसौ किं मां?, किं मामुत्पाटयिष्यति । इत्याशशङ्के स द्यावापृथिवीभ्यां यथाक्रमम् ॥६७२।। रेजे बाहुबलेर्मुष्टौ, लोहदण्डः स आयतः । पर्वतस्याऽग्रभागस्थवामलूर इवोरगः ॥ ६७३ ॥ दूरतोऽप्यन्तकाह्वानसंज्ञावस्त्रमिवाऽथ तम् । भृशमुद्भमयामास, दण्डं तक्षशिलापतिः॥ ६७४ ॥ निर्दयं हृदये तेन, चक्रिणं बहलीपतिः । ताडयामास लकुटेनेव *बीजस्य मूटकम् ॥ ६७५ ॥ तेन घातेन घटवद्, द्रढीयानपि खण्डशः । विशीर्यते स सहसा, सन्नाहश्चक्रवर्तिनः ॥ ६७६ ॥ निरभ्र इव मार्तण्डो, निर्धूम इव पावकः । शीर्णवर्मा चक्रवर्ती, दिद्युतेऽमर्षतोऽधिकम् ॥ ६७७ ॥ क्षणार्ध विह्वलीभूतो, नाऽचेतयत किञ्चन । भरतः सप्तममदावस्थाप्राप्त इव द्विपः ॥ ६७८ ॥ प्रियमित्रमिवाऽऽलम्ब्याऽविलम्वाद् बाहुपौरुषम् । चक्रभृद् दण्डमुद्यम्य, भूयो राज्ञेऽभ्यधावत ॥ ६७९॥ पीडयन्नधरं दन्तैर्भृकुटीमङ्गभीषणः । भरतोऽभ्रमयद् दण्डमौर्वावर्तविडम्बिनम् ॥ ६८० ॥ - 10 मूर्मि बाहुबलिं तेन, चक्रपाणिरताडयत् । तडिदण्डेन कल्पान्तजीमूत इव पर्वतम् ॥ ६८१ ॥ ममजाऽऽजानु घातेन, तेन बाहुबलिर्भुवि । लोहाधिकरणीमध्ये, वज्रोपेल इवाऽऽहतः ॥ ६८२॥ आस्फल्य बाहुबलिनि, वज्रसारे व्यशीर्यत । स्वेन तेनाऽऽगसा भीत, इव दण्डः स भारतः ॥ ६८३ ॥ आजानु मनो मेदिन्यामवगाढ इवाऽचलः । निष्क्रान्तशेषः शेषाहिरिव बाहुबलिर्बभौ ॥ ६८४ ॥ अधूनयत् स मूर्धानं, घातवेदनया तया । अन्तश्चमत्कृत इव, ज्यायसो भ्रातुरोजसा ॥ ६८५॥ 15 आत्माराम इव योगी, न किञ्चिदशणोत् क्षणम् । तदा बाहुबलिस्तेन, घातेन प्राप्तवेदनः ॥ ६८६ ॥
निर्ययौ मेदिनीमध्यात् , सुनन्दानन्दनस्ततः । आश्यानकूलिनीकूलपङ्कमध्यादिव द्विपः ॥ ६८७॥ लाक्षारसारुणैदृष्टिपातैरातर्जयन्निव । स्खौ दोर्दण्डौ च दण्डं चाऽपश्यत् सोऽमर्षणाग्रणीः ॥ ६८८ ॥ दुष्प्रेक्षं तक्षकमिवाऽभीक्ष्णं तक्षशिलापतिः । ततस्तं भ्रमयामास, दण्डमेकेन पाणिना ॥ ६८९ ॥ मुनन्दासूनुना दण्डो, भ्रम्यमाणोऽतिवेगतः । राधावेधपरिभ्राम्यञ्चक्रलक्ष्मीमुवाह सः ॥ ६९० ॥ 20 कल्पान्तसागरावर्तगर्तभ्रान्तादिमत्स्यवत् । स भ्राम्यन् प्रेक्ष्यमाणोऽपि, भ्रमि व्यधित चक्षुषाम् ॥ ६९१॥ उत्पतंस्तपेनं कांस्यपात्रवत् स्फोटयिष्यति । भारुण्डाण्डवक्षेशमण्डलं चूर्णयिष्यति ॥ ६९२ ॥ तारागणानामलकीफलवद् भ्रंशयिष्यति । वैमानिकविमानानि, नीडवत् पातयिष्यति ॥ ६९३ ॥ पैतन् पर्वतशृङ्गाणि, नौकुवद् दलयिष्यति । महातरुनिकुञ्जानि, निष्पेक्ष्यति तृणौघवत् ॥ ६९४ ॥ अपक्कमृत्तिकागोलवच भेत्स्यति मेदिनीम् । हस्तादमुष्य देवाच्चेद् , दण्ड एष पतिष्यति ॥ ६९५ ॥ 25 इत्याशङ्काकुलैः सैन्यैः, प्रेक्ष्यमाणोऽमरैरपि । भूपतिश्चक्रिणं तेन, दण्डेन शिरसि न्यहन् ॥ ६९६ ॥
[पञ्चभिः कुलकम् ] तेन दण्डाभिघातेन, चक्रवर्ती महीयसा । आकण्ठं प्रविवेशोयाँ, मुद्गराहतकीलवत् ॥ ६९७ ॥ यथाऽसत्स्वामिनो दत्तं, विवरं देहि नस्तथा । इतीव पेतुर्मेदिन्यां, विषण्णाश्चक्रिसेवकाः ॥ ६९८ ॥ राहुग्रस्त इवाऽऽदित्ये, भूमग्ने चक्रवर्तिनि । तुमुलोऽभूद् भुवि महान् , नृणां दिवि दिवौकसाम् ॥६९९।। 30 निमीलिताक्षः श्यामास्यः, पखण्डभरतेश्वरः । लजयेव महीमध्ये, क्षणमेकमवास्थित ॥ ७००॥ अथैकस्य क्षणस्याऽन्ते, तेजसा मोऽतिभासुरः । निर्ययाववनीमध्यान्निशान्त इव भास्करः ॥ ७०१॥
सोऽथैवं चिन्तयामास, युद्धेषु निखिलेष्वपि । जितोऽहममुना द्यूतेष्विवाऽन्धद्यूतकारकः ॥ ७०२॥ १ दण्डेन । * बीजान्नमूटकम् सं २, आ ॥ २ निर्नेघः । ३ वडवानलः । ४ कल्पान्तमेषः । ५ बज्रमणिः । ६ शेषनागः। गुष्कनदीतटपकमध्यात् । ८ नागविशेषम् । सूर्यम् । १० भारण्डपक्षिणः अण्डवत् ।"न्द्रमण्डलम् । १२ एतदास्यवृक्ष. फलवत् । १३ पक्षिगृहवत् । + अयं लोकः खं पुस्तके पतितः। १४ वस्मीकवत्।५कोकाहरूः। राज्यन्ते ।
त्रिषष्टि. १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org