________________
१२८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व लघ्वार्षभेविवेकन, भ्रातरक्षणजन्मना । विद्या शीलगुणेनेव, पौरुषं तुष्टुवे जनैः॥ ६३८॥ उपरिष्टाद् बाहुबलेः, पुष्पवृष्टिं व्यधुः सुराः । तादृग्वीरव्रतजुषस्तस्येदमथवा कियत् १ ॥ ६३९ ॥ तदा वैलक्ष्यकोपाभ्यां, युगपद् भरतेश्वरः । धूमवंज इव धूमज्वालाभ्यां समयुज्यत ॥ ६४० ॥ ___ अथ बाहुबलिर्लजानमद्वदनपङ्कजः । वैलक्ष्यं ज्यायसो हर्तुमित्युवाच सगद्गदम् ॥ ६४१ ॥ मा विषीद जगन्नाथ !, महावीर्य ! महाभुज ! । दैवात् कदाचित् केनापि, विजय्यपि विजीयते ॥६४२॥ एतावता नाऽसि जितो, विजयी चाऽसि नेयता | घुणाक्षरन्यायभवं, मन्येऽद्याप्यात्मनो जयम् ॥६४३॥ इयत्यपि त्वमेवैको वीरोऽसि भवनेश्वर! । अमरैर्मथितोऽप्यब्धिरब्धिरेव न दीर्घिका ॥६४४॥ फालच्युत इव द्वीपी, पद्खण्डभरतेश्वर ! । किं तिष्ठसि ? समुत्तिष्ठोत्तिष्ठस्व रणकर्मणे ॥ ६४५ ॥
__ बभाषे भरतोऽप्येवं, निजदोषस्य मार्जनम् । करिष्यत्येव दोर्दण्डो, मुष्टिं प्रगुणयन्नयम् ॥ ६४६ ॥ 10 ततो मुष्टिं समुद्यम्य, फणामिव फणीश्वरः । प्रकोपताम्रनयनोऽपेत्याऽधावत चक्रभृत् ॥ ६४७ ॥
भरतो मुष्टिना तेनाऽऽजघान नृपतेरुरः । कपाटं गोपुरस्येव, दशनेन मतङ्गजः ॥ ६४८॥ प्रदानवदसत्पात्रे, बधिरे कर्णजापवत् । सत्कारवच पिशुने, जलवृष्टिवद्रूपरे ॥ ६४९ ॥ सङ्गीतवदरण्यान्यां, हिमान्यां वह्निपातवत् । मुधाऽभूच्चक्रिणो मुष्टिप्रहारः पार्थिवोरसि ॥६५०॥ [युग्मम् ]
___ असभ्यमपि किं क्रुद्ध, इत्याशङ्कयेक्षितोऽमरैः । उच्चिक्षेपोचकैर्मुष्टिं, सुनन्दानन्दनोऽप्यथ ॥६५१॥ 15 मुष्टिनाऽताडयत् तेन, स चक्रिणमुरःस्थले । कुम्भस्थले महामात्रोऽयोगोलेनेव कुम्भिनम् ॥ ६५२ ॥
घातेन तेन दम्भोलिनिपातेनेव पर्वतः । पपात मूर्छाविधुरो, भूतले भरतेश्वरः॥ ६५३ ॥ चकम्पे पतता तेन, भूः पत्येव कुलाङ्गना । पर्वता अप्यवेपन्त, बान्धवेनेव बान्धवाः ॥ ६५४ ॥ क्षत्रियाणां कुहेवाकः, कोऽयं वीरव्रताग्रहे ? । विग्रहो निग्रहान्तोऽयं, यत्र भ्रातर्यपीदृशः ॥ ६५५ ॥
न जीवेदग्रजश्चेत् तज्जीवितेन ममाऽप्यलम् । एवं मनसि कुर्वाणः, सिञ्चन् नयनवारिभिः ॥ ६५६ ॥ 20 स्वमुत्तरीयं व्यजनीकृत्य बाहुबलिस्ततः। भरतं वीजयामास, यो बन्धुर्वन्धुरेव सः ॥ ६५७ ॥
| त्रिभिर्विशेषकम् ] चक्री सुप्त इवोत्तस्थौ, लब्धसंज्ञः क्षणादथ । ददर्श च पुरो भृत्यमिव बाहुबलिं स्थितम् ॥ ६५८ ॥ अधोमुखौ वितस्थाते, बान्धवौ तावुभावपि । पराजयो जयश्चापि, लज्जायै महतामहो। ॥ ६५९ ॥
किञ्चित् पश्चात्पदन्यासमपचक्राम चक्रभृत् । पुंसामोजायमानानां, युयुत्सालक्षणं ह्यदः ॥ ६६० ॥ 25 युयुत्सुः पुनरप्यायः, शङ्के युद्धेन केनचित् । नोज्झन्ति मानिनो मानं, यावजीवं मनागपि ॥ ६६१॥
अवर्णवादो बलवान् , भावी बाहुबलेः खलु । भ्रातृहत्याभवो मन्ये, नैवाऽन्तेऽपि विरंस्यति ॥ ६६२ ॥ इति सञ्चिन्तयामास, यावद् बाहुबलिः क्षणम् । तावञ्चक्रधरो दण्डं, दण्डपाणिरिवाऽऽददे ॥ ६६३ ॥ तेनोदस्तेन दण्डेन, चकासामास चक्रभृत् । चूलयेवाऽचलश्छायापथेनेव मरुत्पथः ॥ ६६४ ।।
अथ तं दण्डमुत्पातकेतुभ्रमविधायिनम् । नभसि भ्रमयामास, क्षणं भरतभूपतिः ॥ ६६५ ॥ 30 पञ्चाननयुवा पुच्छदण्डेनेव महीतलम् । शिरस्यताडयच्चक्री, तेन दण्डेन भूपतिम् ॥ ६६६ ॥
समास्फलन्त्या सह्याद्री, वेलयेव महोदधेः । तन्मूर्ध्नि चक्रिणो दण्डघातेनाऽभून्महान् ध्वनिः ॥६६७॥ दण्डेनाऽचूर्णयच्चक्री, किरीटं मूर्ध्नि भूपतेः । अयोधनेनाध्य इवाधिकरण्यामवस्थितम् ॥ ६६८ ॥ किरीटरत्नखण्डानि, निपेतुर्नुपमूर्धतः । वातान्दोलितवृक्षाग्रादिव पुष्पाणि भूतले ॥ ६६९ ॥
भूपतिस्तेन घातेन, क्षणं मुकुलितेक्षणः । तन्निर्घोषेण घोरेण, लोकश्च समजायत ॥ ६७०॥
१ बाहुबलिनः। २ अग्निः । ३ ज्येष्टस्य । ४ वापिका । ५ अपसृत्य । ६ मूर्ख । ७ क्षारभूमौ । ८ महति अरण्ये । ९महति हिमे। १० अङ्कुशेन । ११ कुस्वभावः। १२ तालवृन्तीकृत्य । १३ यमराजः। १४ सिंहयुवा। १५ लोहशिलायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org