Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 168
________________ षष्ठः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् । १४७ समं मुनीनां दशभिः, सहस्रः प्रत्यपद्यत । चतुर्दशेन तपसा, पादपोपगमं प्रभुः ॥ ४६१ ॥ __ तस्थिवांसं तथा विश्वनाथं पर्वतपालकाः । आशु विज्ञापयामासुर्गत्वा भरतचक्रिणे ॥ ४६२ ॥ प्रभोश्चतुर्विधाहारप्रत्याख्यानं निशम्य सः । शोकेन शङ्कुनेवान्तःविष्टेन व्यवाध्यत ॥ ४६३ ॥ ततोऽकुशेन संस्पृष्टः, सद्यः शोककृशानुना । तरुः सिमिसिमा विन्दनिवाऽश्रूणि मुमोच सः ॥ ४६४ ।। सान्तःपुरपरीवारो, qारासुखपीडितः । प्रतस्थे पादचारेण, प्रत्यष्टापदमार्षभिः ॥ ४६५ ॥ 5 नाजीगणत् कर्करान् स, कशानपि पादयोः । वेद्यते वेदना नैव, हर्षेणेव शुचाऽपि यत् ॥ ४६६ ॥ अक्षरन् रक्तधाराश्व, पदोः कर्करदूनयोः । आसीचालक्तकाङ्केच, तस्याङ्ग्रिन्यासपद्धतिः ॥ ४६७ ॥ अवाजगणदुर्वीशो, जनान् यानोपनायिनः । आरोहणक्षणेनाऽपि, मा भूद् विघ्नो गतेरिति ॥ ४६८ ॥ आतपत्रे शिरःस्थेऽपि, तप्ततप्तो जगाम सः । न तापो मानसो जातु, सुधावृष्ट्याऽपि शाम्यति ॥ ४६९ ॥ शुंग्विहस्तो हस्तदातॄनपहस्तयते स सः । मार्गे विलगतः शाखिशाखाप्रान्तानिवोच्चकैः ॥ ४७० ॥ 10 अग्रेसरान् वेत्रधरानपि पश्चाच्चकार सः । रयात् तरीव तीरद्रून्, सरिदायामगामिनी ॥ ४७१॥ पदे पदे स्खलन्तीश्च, वेगाचामरधारिणीः । चक्री प्रतीक्षाञ्चके न, चित्तवद् गन्तुमुत्सुकः ॥ ४७२ ।। उच्छल्योच्छल्य वेगेनोरःस्थलास्फालनैर्मुहुः । विशीर्णमपि नाऽज्ञासीन्मुक्ताहारं महीपतिः ॥ ४७३ ।। प्रभौ गतमनस्कत्वात् , पार्श्वस्थानप्यजूहवत् । भूयः प्रष्टुं स्वामिवार्ता, वेत्रिणा गिरिपालकान् ॥ ४७४ ॥ नाऽपश्यत् किश्चिदप्यन्यन्नाऽशृणोत् कस्यचिद् वचः । दध्यौ स प्रभुमेवैकं, ध्यानस्थ इव योगवित्॥४७५॥ 15 लघूकुर्वन्निवाऽध्वानं, रंहसा भरतेश्वरः । समीरण इव प्राप, क्षणेनाऽष्टापदाचलम् ॥ ४७६ ॥ परिश्रममजानानो, जनवत् पादचार्यपि । अध्यारुरोह भरतस्ततोऽष्टापदपर्वतम् ॥ ४७७ ।। ईक्षाञ्चके चक्रवर्ती, शोकहर्षसमाकुलः । तत्र च त्रिजगन्नाथं, पर्यङ्कासनसंस्थितम् ॥ ४७८ ॥ तत्र प्रदक्षिणीकृत्य, वन्दित्वा च जगत्पतिम् । देहच्छायेव पार्श्वस्थः, समुपास्ते स्म चक्रभृत् ॥ ४७९ ॥ इत्थं स्थिते प्रभावतेऽप्यस्मासु कथमासते ? । इति हेतोरिवेन्द्राणामासनानि चकम्पिरे ॥ ४८० ॥ 20 अवधिज्ञानतो ज्ञात्वाऽऽसनकम्पस्य कारणम् । इन्द्रा जिनेन्द्रमभ्येयुश्चतुःषष्टिरपि द्रुतम् ॥ ४८१ ॥ तेऽपि प्रदक्षिणीकृत्य, जगन्नाथं प्रणम्य च । विषण्णाश्च निषण्णाश्च, तस्थुरालिखिता इव ॥ ४८२ ॥ तथाऽस्यामवसर्पिण्यां, तृतीयस्याऽरकस्य तु । पक्षेप्वेकोननवताववशिष्टेषु सत्सु च ॥ ४८३ ॥ माघाभिधानमासस्य, कृष्णत्रयोदशीतिथौ । पूर्वाहेऽभीचिनक्षत्र. शशियोगमपागते ॥४८४॥ तथा निषण्णः पर्यङ्कासने स्थित्वा च बादरं । काययोगे बादरो वाक्चित्तयोगी रुरोध च ॥ ४८५ ॥ 25 सूक्ष्मेण काययोगेन, काययोगं च बादरम् । रुद्धा रुरोध सूक्ष्मौ च, योगौ वाक्चित्तलक्षणौ ॥ ४८६ ॥ इति सूक्ष्मक्रियं नाम, शुक्लध्यानं तृतीयकम् । अस्तसूक्ष्मतनूयोगं, क्रमात् प्रभुरसाधयत् ॥ ४८७ ॥ ततश्च ध्यानमुंच्छन्नक्रियं नाम तुरीयकम् । पञ्चहखाक्षरोच्चारमितकालमशिश्रियत् ।। ४८८ ॥ सर्वदुःखपरित्यक्तः, केवलज्ञानदर्शनी । क्षीणका निष्ठितार्थोऽनन्तवीर्यसुखर्द्धिकः ।। ४८९ ॥ बन्धाभावादूर्ध्वगतिरेरण्डफलवीजवत् । प्रभुः स्वभावादृजुना, पथा लोकाग्रमासदत् ॥ ४९० ॥ 30 प्रपन्नानशनास्तेऽपि, सहस्रा वतिनां दश । क्षपकश्रेणिमारूढाः, सर्वेऽप्युत्पन्न केवलाः ॥ ४९१ ॥ मनोवचनकायानां, योगं रुद्धा च सर्वतः । क्षणादासादयामासुः, स्वामिवत् परमं पदम् ॥ ४९२ ॥ स्वामिनिर्वाणकल्याणानिर्वाणो दुःखपावकः । अदृष्टसुखलेशानां, नारकाणामपि क्षणम् ॥ ४९३ ॥ १कीलेन । * • प्रतिष्ठान खंता, स्वं ॥२ सहता। ३ शोकामिना । ४ अत्यनादुःखपीडितः । , कटोरान् । ६ तितप्तः । ७ शोकेन विह्वलः। ८ नाविका। योगिवत् सं १,२॥ मुत्सन्न मं१॥ ५ अ इ उ ल इति पञहस्वाक्षरोचारे यावान् कालो जायते तावत्कालमितं कालम् । सहस्राणि दशर्षयः खंता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254