Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 166
________________ षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । विदेशमिव वैताढ्यं, क्वचित् रूप्यशिलाचयैः । वर्णगावोच्चयैः क्वाऽपि, मेरोस्तटमिवाऽऽहृतम् ॥३९६॥ क्वचिच्च रत्नखानीभी, रत्नाचलमिवाऽपरम् । काऽप्यौषधीभिर्हिमाद्रिमिव स्थानान्तरस्थितम् ॥ ३९७ ॥ आमुक्तचोलकमिवाऽसक्तसंसक्तवारिदैः । स्कन्धावलम्बिसंव्यानमिव निर्झरवारिभिः ॥ ३९८ ॥ शिरोऽभ्यर्णजुषा सूर्येणोत्किरीटमिवाऽहनि । नक्तं च चन्दनरसतिलकाङ्कमिवेन्दुना ॥ ३९९ ॥ सहस्रमूर्द्धानमिव, शृङ्गैर्गगनरोधिभिः । अनेकदोर्दण्डमिव, तुङ्गैस्तालमहीरुहैः ॥ ४००॥ नालिकेरीवनेषुचैः, पाकपिङ्गासु लुम्बिषु । निजापत्यभ्रमाद् वेगोत्पतत्प्लवगसङ्कुलम् ॥ ४०१ ॥ चूतोवचायसक्तानां, सौराष्ट्रहरिणीदृशाम् । आकर्ण्यमानमधुरगीतिमँत्कर्णितैर्मगैः ॥ ४०२॥ उद्बुद्धसूचिव्याजेन, सञ्जातपलितैरिव । जरद्भिः केतकीवृक्षरशून्याधित्यकाभुवम् ॥ ४०३ ॥ स्थाने स्थाने सिन्दुवारैः, श्रीखण्डद्रवपाण्डुभिः । कृतसर्वाङ्गमङ्गल्यपुण्ड्रावलिमिवोच्चकैः ॥ ४०४ ॥ शाखास्थितगोलोङ्गललाङ्गलजटिलीकृतैः । चिञ्चागुमैरनुकृतप्लक्षन्यग्रोधपादपम् ॥ ४०५॥ 10 अद्भुतस्वपरीणाहसम्पदा मुदितैरिव । नित्यं कण्टकिलफलैः, पनसैरुपशोभितम् ॥ ४०६ ॥ श्लेष्मातकैरमारात्रितमःसब्रह्मचारिभिः । अञ्जनाचलचूलाभिराहताभिरिवाऽङ्कितम् ॥ ४०७ ॥ किंशुकैः शुकचञ्चवदारक्तकुसुमर्द्धिभिः । शोभमानं महानागं, कुङ्कुमस्थासकैरिव ॥ ४०८॥ काऽपि द्राक्षाभवं काऽपि, खारं काऽपि तालजम् । मध्वापिबद्भिराबद्धगोष्ठीकं शबरीजनैः ॥ ४०९ ॥ अभेद्यैरर्ककिरणेघृणामस्खलतामपि । सन्नाहमिव बिभ्राणं, ताम्बूलीवनमण्डपैः ॥ ४१० ॥ 15 आर्द्रदर्वाङ्कुरास्वादसुहितैर्मृगमण्डलैः । आबध्यमानरोमन्थं, महाविटपिनां तले ॥ ४११ ॥ सहकारफलावादमग्नचनूपुटैश्विरम् । शुकैर्निरन्तरैर्जात्यवैडूर्यैरिव मण्डितम् ॥ ४१२ ॥ केतकी-चम्पका-ऽशोक-कदम्ब बकुलोद्भवैः । परागैः पवनोद्भूतै, रजस्खलशिलातलम् ॥ ४१३ ॥ पान्थसास्फाल्यमाननालिकेरीफलाम्भसा । परितः पङ्किलीभूतोपत्यकातटभूतलम् ॥ ४१४ ॥ भद्रशालप्रभृतीनां, मध्याद् वैशाल्यशालिना । वनेनैकतमेनेव, तरुखण्डेन मण्डितम् ॥ ४१५॥ 20 पश्चाशद्योजनं मूले, शिखरे दशयोजनम् । तमष्टयोजनोत्सेधमारुरोह गिरिं प्रभुः ॥ ४१६ ॥ - [एकविंशत्या कुलकम् ] तत्र सद्योऽपि समवसरणे सुरनिर्मिते । सर्वीयो भगवानासाश्चके चक्रे च देशनाम् ।। ४१७ ॥ गम्भीरया गिरा भर्नुर्विदधानस्य देशनाम् । अनूवादेव स गिरिर्गहरोत्थैः प्रतिस्वनैः ॥ ४१८ ॥ वृष्टेरिव पयोवाहः, प्रावृषि त्रिजगत्पतिः । गतायामथ पौरुष्यां, व्यरंसीद् देशनाविधेः ॥ ४१९ ॥ उत्थाय च ततः स्थानान्मध्यप्राकारमण्डले । देवच्छन्दे देवदेवो, न्यषीदद् देवनिर्मिते ॥ ४२० ॥ __ ततश्च स्वामिनः पादपीठे गणधराग्रणीः । श्रीपुण्डरीको न्यषदत् , सम्राजो युवराडिव ॥ ४२१॥ तथैव हि निषेदुष्यां, सभायां गणभृद्वरः । भगवल्लीलया धर्मदेशनां विदधेतराम् ॥ ४२२ ॥ सोऽपि द्वितीयपौरुष्यां, पारयामास देशनाम् । अवश्यायसुधासेकं, समीरण इव पँगे ॥ ४२३ ॥ एवं सत्त्वोपकाराय, कुर्वाणो धर्मदेशनाम् । कश्चित् कालं तत्र तस्थावष्टापद इव प्रभुः ॥ ४२४ ॥ 30 अन्यतश्च प्रतिष्ठोसुरपरेधुर्जगद्गुरुः । गणभृत्पुण्डरीकं तं, पुण्डरीकं समादिशत् ॥ ४२५ ॥ महामुने! प्रयास्यामो, विहत्तुं वयमन्यतः । गिरौ तिष्ठ त्वमत्रैव, मुनिकोटिभिरावृतः॥४२६॥ १ फलगुच्छेषु । २ आम्रावचयनासक्तानाम् । * मुत्कणकैर्मू खंता, सं १ ॥ ३ अशून्यपर्वतोपरिसमभूमिकम्। ४ वृक्षविशेषैः। ५ कपयः । ६ अम्लिकावृक्षैः । ७ विस्तारः। ८ अमावास्यारात्रितमःसमानैः। ९ महागजम् । १°दमुदितै सं॥ १. आबध्यमानचर्वितचर्वणम्। ११ आसन्नभूमिः । १२ विशालत्वशोभिना। १३ अष्टयोजनोच्छ्रितम्। १४ सर्वहितकारी। १५ बिरामं प्राप्तवान् । १६ मण्डलेश्वरस्य । १७ हिमामृतसिञ्चनम् । १८ प्रात:काले। १९ प्रस्थातुमिच्छुः। त्रिषष्टि. १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254