Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 169
________________ 10 १४८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व महाशोकसमाकान्तश्चक्रवर्ती तु तत्क्षणम् । पपात मूञ्छितः पृथ्व्यां, वज्राहत इवाञ्चलः ॥ ४९४ ॥ महत्यप्यागते दुःखे, दुःखशैथिल्यकारणम् । विदाञ्चकार रुदितं, न कश्चिदपि यत् तदा ॥ ४९५ ॥ दुःखशैथिल्यहेतुं तच्चक्रिणोऽज्ञापयत् स्वयम् । शक्रश्चकार रुदितं, महापूत्कारपूर्वकम् ॥ ४९६ ॥ । अनु सङ्क्रन्दनं चक्रे, क्रन्दनं त्रिदशैरपि । समा हि समदुःखानां, चेष्टा भवति देहिनाम् ॥ ४९७ ॥ तेषां च रुदितं श्रुत्वा, संज्ञामासाद्य चयपि । उच्चैःस्वरेण चक्रन्द, ब्रह्माण्डं स्फोटयनिव ॥ ४९८ ॥ रुदितेनाऽस्फुटद् राज्ञः, शोकग्रन्थिमहानपि । पालीबन्धो महास्रोतोरंहसेव महीयसा ॥ ४९९ ॥ सुरासुरमनुष्याणां, रुदितै रुदितैस्ततः । त्रैलोक्ये करुणरस, एकच्छत्र इवाऽभवत् ॥५०॥ ततः प्रभृति लोकेऽपि, देहिनां शोकसम्भवे । रोदनाध्या प्रववृते, शोकशल्यविशल्यकः॥५०१॥ नैसर्गिकमपि त्यक्त्वा, धैर्य भरतभूपतिः । दुःखितो विललापैवं, तिरश्वोऽपि हि दुःखयन् ॥५०२॥ हा तात ! हा जगद्वन्धो !, हा कृपारससागर ! । अज्ञानिह भवारण्ये, त्यक्तवानसि नः कथम् ? ॥५०३॥ अम्लानकेवलज्ञानप्रकाशेन विना त्वया । तमसीव ऋते दीपं, स्थास्यामोऽत्र कथं भवे ॥५०४॥ छमस्थस्येव ते मौनं, किमेतत् परमेश्वर ! १ । कुरुष्व देशनां नाऽनुगृह्णासि किममुं जनम् ? ॥ ५०५॥ लोकाग्रमथवाज्यासीभगवन् ! भाषसे न यत् । आभाषन्ते दुःखितं मां, तेऽपि मद्वन्धयो न किम् ? ॥५०६॥ हुं ज्ञातमथवा ते हि, सदा स्वाम्यनुगामिनः । स्वामिनोऽननुगो नास्ति, मत्कुले मां विनाऽपरः ॥५०७॥ तातो जगत्रयत्राता, बाहुबल्यादयोऽनुजाः । स्वसारौ ब्राह्मीसुन्दयौँ, पुण्डरीकादयः सुताः॥५०८॥ श्रेयांसायाश्च नप्तारो, हत्वा कर्मद्विषोऽखिलान् । ययुर्लोकाग्रमद्याऽपि, जीवामि प्रियजीवितः॥५०९॥ शोकाजीवितनिर्विष्णं, मुमूर्षुमिव चक्रिणम् । दृष्ट्वा बोधयितुमिति, पारेभे पार्कशासनः ॥ ५१० ॥ भरतेश! महासत्त्व!, स्वाम्यसौ तावदावयोः। संसाराम्भोधिमतरत् , तारयामास चाऽपरान् ॥५११॥ एतत्कृतेन तीर्थेन, तीर्थेनेव महानदीम् । उत्तरिष्यन्ति संसारं, चिरं संसारिणोऽपरे ॥ ५१२ ॥ 20 कृतकृत्यः स्वयं ह्येष, भगवानपरानपि । कृतकृत्यान् जनान् कतुं, पूर्वलक्षमवास्थित ॥ ५१३॥ अनुगृह्याखिलं लोकं, स्थानं तदपुनर्भवम् । आसेदुषो जगद्भ, राजन् ! किं नाम शोचसि ? ॥५१४॥ प्रेत्यं यो योनिलक्षेषु, महादुःखैकवेश्मसु । अनेकशः सञ्चरति, पराँसुः स हि शोच्यते ॥ ५१५ ॥ तत् किं न लजसे शोचन् , प्रभावन्यजनेष्विव ? । शोचितुः शोचनीयस्य, चोभयोरपि नोचितम् ।।५१६॥ एकदापि हि योऽश्रौषीत् , स्वामिनो धर्मदेशनाम् । न सोऽपि शोकहर्षाभ्यां, जीयते किं पुनर्भवान् ॥५१७॥ महाम्भोधेरिव क्षोभः, कम्पो मेरुगिरेरिव । उद्वर्त्तनमिवाऽवन्याः, कुलिशस्येव कुण्ठता ॥ ५१८ ॥ पीयूषस्येव वैरैस्यमनुष्णांशोरिवोष्णता । असम्भाव्यं महीनाथ!, तवेदं परिदेवनम् ॥ ५१९ ॥ [ युग्मम् ] धीरो भव धराधीश !, विद्ध्यात्मानं यदीशितुः । जगत्रयैकधीरस्य, तनयस्तस्य नन्वसि ॥ ५२० ॥ गोत्रवृद्धेनेव वृद्धधैवसैवं प्रबोधितः । आललम्बे नृपो धैर्य, सहजं शैत्यमम्बुवत् ॥ ५२१ ॥ __ अथ स्वाम्यङ्गसंस्कारोपस्कराहरणे द्रुतम् । आदिदेश शुनासीरस्त्रिदशानाभियोगिकान् ॥ ५२२ ॥ ततः सङ्क्रन्दनादेशान्नन्दनोद्यानतः क्षणात् । गोशीर्षचन्दनेधांसि, समानिन्युर्दिवौकसः ॥ ५२३ ॥ इन्द्रादेशादथैन्यां ते, स्वामिदेहस्य हेतवे । वृत्तामारचयामासुश्चितां गोशीर्षचन्दनैः ॥ ५२४ ॥ कृते तथा महर्षीणामिक्ष्वाकुकुलंजन्मनाम् । दिशि व्यधुर्दक्षिणस्यां, व्यस्राकारां चितां सुराः॥५२५॥ अन्येषामनगाराणां, कृते च त्रिदिवौकसः । चतुरस्रां चितां चक्रुरपरस्यां पुनर्दिशि ॥ ५२६ ॥ १ महाप्रवाहवेगेन । २ रोदनमार्गः। ३ पौत्राः। ४ कर्मशत्रन् । ५ ममिछुम् । ६ इन्द्रः। ७ जलावतारमार्गेण । ८ मोक्षस्थानम् । ९ मृत्वा । १० मृतः। ११ रसराहित्यम् । १२ चन्द्रस्य । ॥ विलापः। १४ इन्द्रेण । १५ इन्वादेशात् । १६ पूर्वदिशि। * °लजन्मिनाम् सं १॥ 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254