Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 161
________________ 15 १४० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं प्रथमं पर्व भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा । जितो भवान् वर्धते भीस्तस्मान्मा हन मा हन ॥ २२९ ॥ प्रतिपद्य तथा ते तु, भुञ्जते स तदोकसि । तथा च तद् वचः पेठुः, स्वाध्यायमिव तत्पराः ॥ २३० ॥ रतिमनो देव इव, नृदेवोऽपि प्रमद्वरः । तच्छब्दाकर्णनादेव, किश्चिदेवं व्यचिन्तयत् ॥ २३१ ॥ जितोऽस्मि केन ? हुं ज्ञातं, कषायैर्वर्धते च भीः । कुतो मे तेभ्य एवेति, मा हन्यां प्राणिनस्ततः ॥२३२॥ एवं च सारयन्त्येते, नित्यमेव विवेकिनः । अहो ! मम प्रमादित्वमहो ! विषयलुब्धता ॥ २३३ ॥ औदासीन्यमहो! धर्मेऽप्यहो ! संसाररागिता । अहो ! महापुरुषतोचिताचारविपर्ययः ॥ २३४ ॥ अनया चिन्तया धर्मध्यानं प्रावर्त्तत क्षणम् । गङ्गाप्रवाहः क्षाराब्धाविव तस्मिन् प्रमादिनि ॥ २३५ ॥ भूयोऽपि भूपः शब्दादिष्विन्द्रियार्थेष्वसज्यत । कर्म भोगफलं कोऽपि, नाऽन्यथा कर्तुमीश्वरः ॥२३६॥ सूदाध्यक्षैरथाऽन्येधुरेवं व्यज्ञपि भूपतिः । श्रावकोऽश्रावको वाऽपि, भूयस्त्वान्नोपलक्ष्यते ॥ २३७ ॥ 10 आदिशद् भरतः सूदान् , श्राद्धा यूयमपि स्थ यत् । परीक्षापूर्वकं देयमतः प्रभृति भोजनम् ॥ २३८ ॥ को भवान् ? श्रावकोऽहं, तद्वतानि कति? शंसनः। तानि न श्रावकाणां स्युः, किन्त्वसार्क सदापि हि ॥२३९॥ अणुव्रतानि पश्चाऽथ, सप्त शिक्षाव्रतानि च । एवं परीक्षानियूँढास्तैस्तेऽदर्यन्त भूपतेः ॥ २४०॥ ज्ञानदर्शनचारित्रलिङ्गं रेखात्रयं नृपः । वैकक्ष्यमिव काकिण्या, विदधे शुद्धिलक्षणम् ॥ २४१ ॥ अर्द्धवर्षेऽर्द्धवर्षे च, परीक्षां चक्रिरे नवाः । श्रावकाः काकिणीरत्नेनाऽऽलम्ब्यन्त तथैव हि ॥२४२॥ तल्लाञ्छना भोजनं ते, लेभिरेऽथाऽपठनिदम् । जितो भवानित्याधुच्चैर्माहनास्ते ततोऽभवन् ॥ २४३ ॥ निजान्यपत्यरूपाणि, साधुभ्यो ददिरे च ते । तन्मध्यात् स्वेच्छया कैश्चिद्, विरक्तैर्ऋतमाददे ॥ २४४ ॥ परीषहासहैः कैश्चिच्छ्रावकत्वमुपाददे । तथैव बुभुजे तैश्च, काकिणीरत्नलाञ्छितैः ॥ २४५ ॥ भूभुजा दत्तमित्येभ्यो, लोकोऽपि श्रद्धया ददौ । पूजितैः पूजितो यस्मात् , केन केन न पूज्यते ॥२४६॥ अर्हत्स्तुतिमुनिश्राद्धसामाचारीपवित्रितान् । आर्यान वेदान् व्यधाच्चक्री, तेषां स्वाध्यायहेतवे ॥२४७॥ 20 क्रमेण माहनास्ते तु, ब्राह्मणा इति विश्रुताः । काकिणीरत्नलेखास्तु, प्रापुर्यज्ञोपवीतताम् ॥ २४८ ॥ इयं भरतराज्येऽभूत् , स्थितिरर्कयशाः पुनः । स्वर्णयज्ञोपवीतानि, चक्रे काकिण्यभावतः ॥ २४९ ॥ महायशःप्रभृतयः, केचिद् रौप्याणि चक्रिरे । पट्टसूत्रमयान्यन्येऽपरे सूत्रमयानि तु ॥२५०॥ [युग्मम्] भरतादादित्ययशास्ततश्वाऽऽसीन्महायशाः। अतिबलो बलभद्रो, बलवीर्यस्ततोऽपि च ॥२५१॥ कीर्तिवीर्यो, जलवीर्यो, दण्डवीर्यस्ततोऽष्टमः । इत्यष्टौ पुरुषान् यावदाचारोऽयं प्रवृत्तवान् ॥२५२ ॥ 25 एभिर्भूपैश्च बुभुजे, भरताधं समन्ततः । भगवन्मुकुटः शक्रोपनीतो मृयधारि च ॥ २५३ ॥ शेषैर्महाप्रमाणत्वान स वोढुमपार्यत । हस्तिभिर्हस्तिभारो हि, वोढुं शक्येत नाऽपरैः ॥ २५४ ॥ जज्ञे साधुविच्छेदोऽन्तनवमदशमाहतोः । एवं सप्तस्वन्तरेषु, जिनानामेष वृत्तवान् ॥ २५५ ॥ वेदाचार्हत्स्तुतियतिश्राद्धधर्ममयास्तदा । पश्चादनार्याः सुलसायाज्ञवल्क्यादिभिः कृताः ॥२५६ ॥ इतश्च भरतस्तस्थौ, दिवसानतिवाहयन् । श्राद्धदानैः कामकेल्या, विनोदैरपरैरपि ॥ २५७ ॥ 30 अवनि पावयन् पादैर्गगनं चन्द्रमा इव । अन्येचुर्भगवानागादष्टापदमहागिरिम् ॥ २५८ ॥ सघश्च तत्र समवसरणे निर्मिते सुरैः । आसाञ्चके जगनाथो, विदधे धर्मदेशनाम् ॥ २५९ ॥ तथास्थितो जगत्स्वामी, समेत्याऽऽयुक्तपूरुषैः । शशंसे भरतेशाय, त्वरितैरनिलैरिव ॥ २६०॥ पूर्वप्रमाणं तेभ्योऽदाद्, भरतः पारितोषिकम् । दिने दिने कल्पतरुर्ददानो न हि हीयते ॥ २६१॥ पाचकाधिपतिभिः। २ तिर्यकक्षावलम्बी हारभेदः। * काकण्या खंता॥ काकणी खंता ॥ +काकणी काकणी खंता॥काकण्य खंता ॥ ३ सुविभिशीतलायतीर्थकृतोः। इतः खंता ॥ ४ नियुफपुरुषैः। खंता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254