Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 153
________________ १३२ 15 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं [प्रथमं पर्व वपुषा तद्वपुरवष्टभ्य शैलतटीमिव । वाणसकुलान्यन्त्रभूवन्निद्रासुखं निशि ॥ ७६८ ॥ सल्लकीपल्लवभ्रान्त्या, तत्पाणिचरणं मुहुः । कर्षन्तः कटुमसहा, वैलक्ष्यं करिणो ययुः ।। ७६९ ॥ उत्कण्टककरालाभिर्जिह्वाभिः करपत्रवत् । विश्वस्तास्तं लिहन्ति स्मोदाननाश्चमरीगणाः ॥ ७७० ॥ लताभिः शतशाखाभिः, प्रसरन्तीभिरुच्चकैः । मुरजश्चर्मवीभिरिव सोऽवेश्यताऽभितः ॥ ७७१ ॥ 5 परितस्तं शरस्तम्बाः, प्ररोहन्ति स सन्तताः । पूर्वस्नेहवशायातशराढ्यशरधिश्रियः ॥ ७७२ ॥ उद्ययुः पादयोस्तस्य, प्रावृट्पङ्कनिमग्नयोः । चलच्छंतपदीगर्भा, अदभ्रा दर्भसूचयः ।। ७७३ ॥ प्रचक्रिरे कुलोयांश्च, तदेहे वल्लिसङ्कुले । परस्पराविरोधेन, ते श्येनचटकादयः ।। ७७४ ॥ अरण्यकेकिकेकातस्त्रस्तास्तत्र महोरगाः । वल्लीवितानगहने, समारोहन् सहस्रशः ॥ ७७५ ॥ शरीरमधिरूढेस्तैलंम्बमान जङ्गमैः । बभौ बाहुबलिर्बाहुसहस्रमिव धारयन् ॥ ७७६ ॥ 10 पादपर्यन्तवल्मीकविनियोतैर्महोरगैः । पादयोर्वेष्टयाश्चक्रे, स पादकटकैरिख ।। ७७७ ॥ इत्थं स्थितस्य ध्यानेन, तस्यैको वत्सरो ययौ । विनाऽऽहारं विहरतो, वृषभस्वामिनो यथा ॥ ७७८ ॥ पूर्णे तु वत्सरे विश्ववत्सलो वृषभध्वजः । आहूय भगवान् ब्राह्मीसुन्दर्यावेवमादिशत् ॥ ७७९॥ स इदानीं बाहुबलिः, क्षीणप्रचुरकर्मकः । शुक्लचतुर्दशीरात्रिरिव प्रायेण निस्तमाः ।। ७८० ॥ मानात् स मोहनीयांशाज्ज्ञानं नाऽऽमोति केवलम् । तिरोहितः काण्डपटेनाऽप्यर्थो न हि दृश्यते ॥७८१॥ युवयोर्वचसा मानं, सद्यस्त्यक्ष्यति सोऽद्य तत् । यातं तस्योपदेशाय, समयः खलु वर्तते ॥ ७८२ ॥ तामाज्ञां शिरसाऽऽदाय, नत्वा च चरणौ प्रभोः। प्रति बाहुबलिं ब्राह्मीसुन्दर्यो चेलतुस्ततः ।।७८३॥ ज्ञात्वाऽपि तन्मानमुपेक्षाञ्चके वत्सरं प्रभुः । अगूढलक्ष्या अर्हन्तः, समये ह्युपदेशकाः ॥ ७८४ ।। ते आर्ये जग्मतुस्तत्र, देशे वल्लीतिरोहितम् । रनं रजश्छन्नमिवाऽलक्षयेतां न तं मुनिम् ॥ ७८५ ॥ मुहुरन्वेषयन्तीभ्यां, ताभ्यामथ तथास्थितः । पालक्षि कथञ्चित् स, वृक्षेभ्यो ह्यविशेषमाक् ।। ७८६ ॥ 20 निपुणं लक्षयित्वा तं, कृत्वा त्रिश्च प्रदक्षिणाम् । महामुनि बाहुबलिं, ते वन्दित्वैवमूचतुः ॥ ७८७ ।। आज्ञापयति तातस्त्वां, ज्येष्ठार्य! भगवानिदम् । हस्तिस्कन्धाधिरूढानामुत्पद्येत् न केवलम् ॥ ७८८ ।। इत्युदित्वा भगवत्यौ, जग्मतुस्ते यथागतम् । सोऽपि विस्मयमानोऽन्तर्महात्मैवमचिन्तयत् ॥ ७८९ ॥ त्यक्तसावद्ययोगस्य, कायोत्सर्गजुषस्ततः । असिंस्तरोरिवाऽरण्ये, ममेभारोहणं कुतः १ ॥ ७९० ॥ इमे भगवतः शिष्ये, भाषेते न मृपा क्वचित् । तत् किमेतदहो ! यद्वा, हुं ज्ञातं हि चिरान्मया ॥ ७९१ ॥ को हि व्रतगरिष्ठानां, कनिष्ठानां नमस्क्रियाम् । कति मान एवेभस्तमारूढोऽसि निर्भरम् ॥ ७९२ ॥ जगत्रयगुरोस्तस्य, चिरं सेवाजुषोऽपि मे । नाऽभूद् विवेकस्तरणं, कुलीरस्येव वारिणि ।। ७९३ ॥ प्रतिपन्नवतेष्वादौ, स्वभ्रातृषु महात्मसु । कनिष्ठा इति यत् तेषु, नाऽभून्मम विवन्दिषा ॥ ७९४ ॥ इदानीमपि गत्वा तान् , वन्दिष्येऽहं महामुनीन् । चिन्तयित्वेति स महासत्त्वः पादमुदक्षिपत् ।। ७९५॥ लतावल्लीवत् त्रुटितेष्वभितो घातिकर्मसु । तस्मिन्नेव पदे ज्ञानमुत्पेदे तस्य केवलम् ॥ ७९६ ॥ 30 उत्पन्नकेवलज्ञानदर्शनः सौम्यदर्शनः । वेरिव शशी सोऽथ, जगाम स्वामिनोऽन्तिकम् ।। ७९७ ॥ प्रदक्षिणां तीर्थकृतो विधाय, तीर्थाय नत्वा च जगन्नमस्यः । महामुनिः केवलिपर्षदन्तस्तीर्णप्रतिज्ञो निषसाद सोऽथ ॥ ७९८ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरूषचरित महाकाव्ये प्रथमे पर्वणि बाहुबलिसङ्ग्राम-दीक्षा-केवलज्ञानसङ्कीर्तनो नाम पञ्चमः सर्गः ॥५॥ १ गण्डकाख्यः पशुविशेषः। २ अर्ध्वमुखाः । ३ मृदङ्गः । ४ कीटविशेषः। ५ नीडानि। ६ अटवीमयूरवाणीतः। ७ पटखण्डेन । ८ गतम् । ९ हस्स्यारोहणम् । १० कर्कटस्य जलजन्तुविशेषस्य । ११ वन्दितुमिछा। १२ जगतां नमस्करणीयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254