Book Title: Trishashtishalakapurushcharitammahakavyam Parva 1
Author(s): Hemchandracharya, Charanvijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 138
________________ 10 पञ्चमः सर्गः ] त्रिपष्टिशलाकापुरुषचरितम । अज्ञासीदागतं तत्र, सुनन्दानन्दनोऽपि तम् । राजनीतिगृहस्तम्भः, सद्यः प्रणिधिपूरुपैः ॥ २८५ ॥ अथ बाहुबलियाबाहेतोभम्भामवीवदत् । प्रतिनादेनिनदन्ती, द्यां भम्भीकुर्वतीमिव ॥ २८६ ॥ कृतप्रस्थानकल्याणः, कल्याणमिव मूर्तिमत् । आरुरोहोत्साहमिव; भद्रं बाहुबलिपिम् ॥ २८७ ॥ नृपैः कुमारैः सचिवैः, प्रवीररपरैरपि । सद्योऽपि परिवत्रे स, सुररिव पुरन्दरः ॥ २८८ ॥ महाबलैर्महोत्साहरेककार्यप्रवृत्तिभिः । अभेद्यस्तरात्मनोऽशरिव बाहुबलिबभौ ।। २८९ ॥ निषादिनः सादिनश्च, रथिनोऽथ पदातयः । तस्येयुर्लक्षशः सद्यस्तन्मनोधिष्ठिता इव ॥ २९० ॥ ओजस्विभिरुदत्रैः स्वैरेकवीरमयीमिव । स वीर रचयन्नुर्वी, चचालाऽचलनिश्चयः ॥ २९.१ ॥ अहमेकोऽपि जेष्यामि, परानिति परस्परम् । तद्वीरा व्यवदनिःसंविभागजयगृनवः ॥ २९२ ॥ तत्र सैन्ये वीरमानी, कोहलावादकोऽप्यभूत् । सर्वेऽपि मणिताभाजः, कर्करा अपि रोहणे ॥ २९३ ॥ महामाण्डलिकच्छत्रमण्डलैरिन्दुपाण्डुभिः । पुण्डरीकमयीव द्यौस्तदानीं समजायत ॥ २९४ ॥ ययौ बाहुबलिः पश्यन् , प्रत्येकमपि भूभुजः । भुजानिव निजानुच्चैर्मन्यमानो महौजसः ॥ २९५ ॥ भुवं भारैरनीकानां, जयतूर्यरवैर्दिवम् । आस्फोटयदिवोदामैत्रजन् बाहुबलिः पथि ॥ २९६ ॥ स्वदेशसीग्नि दूरेऽपि, शीघ्रं बाहुबलिययो । वायुतोऽपि भृशायन्ते, समरोत्कण्ठिताः खलु ॥ २९७ ।। गङ्गातटे बाहुबलिः, स्कन्धावारं न्यवेशयत् । नात्यासन्ने नातिदूरे, शिबिराद् भरतेशितुः ॥२९८ ॥ प्रातयुद्धोत्सवायाऽथ, मागधैर्ऋषभात्मंजौ । निमन्त्रयामासतुस्तावन्योऽन्यमतिथी इव ॥ २९९ ॥ 15 ___ अथ बाहुबलिनक्तं, राजकानुमतं सुतम् । चक्रे सेनापति सिंहरथं सिंहमिवौजसा ॥ ३०० ॥ मूर्ध्नि पट्टद्विपस्येव, रणपट्टोऽस्य भूभुजा । स्वयं न्यवेशि सौवर्णः, प्रताप इव भासुरः ॥ ३०१॥ स राजानं नमस्कृत्य, लब्धया रणशिक्षया । भुवेव प्राप्तया हृष्टो, ययावावासमात्मनः ॥ ३०२॥ राजा यद्धार्थमादिश्याऽन्यानपि व्यसजन्नपान । स्वयं रणार्थिनां तेषां सत्कारः स्वामिशासनम ॥३०३॥ कुमारनृपसामन्तसम्मतां भरतोऽपि हि । रणदीक्षां सुषेणस्य, ददावाचार्यवर्यवत् ॥ ३०४॥ 20 *सिद्धिमत्रमिवाऽऽदाय, सुषेणः स्वामिशासनम् । चक्रवाक इव प्रातः, काम्यन् निजगृहं ययौ ॥३०५॥ कुमारान् बद्धमुकुटान् , सामन्तानितरानपि । आहूय भरताधीशः, समरायैवमन्वशात् ।। ३०६॥ सेनापतिः सुषेणोऽयं, रणे मदनुजन्मनः । अप्रमत्तैरहमिवाऽनुगम्यो हे महौजसः ॥ ३०७ ॥ भो भो ! भवद्भिर्भूयांसो, भूभुजो भुजदुर्मदाः । महामात्रैरिव व्याला, व्यधीयन्त वशंवदाः ॥ ३०८ ॥ वैताढ्याद्रिमतिक्रम्य, किराताश्च दुराक्रमाः। विक्रान्तैर्बाढमाक्रान्ता, हन्त ! देवैरिवाऽसुराः ॥३०९ ॥25 जीयन्तां हन्त ते सर्वे, यतस्तेषु न कोऽप्यभूत् । अपि तक्षशिलाधीशपत्तिमात्रस्य सनिमः ॥ ३१० ॥ एकोऽपि सोमः सैन्यानि, तूलानीव समीरणः । दिशो दिशि क्षेप्नुमलं, ज्येष्ठो बाहुबले सुतः॥३११॥ कनिष्ठो वयसा तस्याऽकनिष्ठो विक्रमेण तु । महारथः सिंहरथः, शत्रुसैन्यदवानलः ॥ ३१२ ॥ किश्च बाहुबले पुत्रपौत्रादिष्वपरेषु च । एकैकोऽक्षोहिणीमल्लः, कृतान्तस्यापि भीतये ॥ ३१३ ॥ सामन्ताद्याश्च ये तस्य, स्वामिभक्त्या बलेन च । तोल्यन्ते तेऽपि तैः सार्द्ध, प्रतिमानस्थिता इव ॥३१४|| 30 अन्यसैन्येऽग्रणीर्यादृग्, भवत्येको महाबलः । सर्वेऽपि तादृशाः सैन्याः, सैन्ये तस्य महौजसः ॥ ३१५ ॥ दूरे बाहुबलिस्तावत् , स महाबाहुराहवे । एतस्यैकोऽपि हि व्यूहो, दुःस्फोटो हन्त ! वज्रवत् ॥ ३१६ ॥ तयुद्धायाऽभिगच्छन्तं, सुषेणमनुगच्छत । प्रावृषेण्यं पयोवहिं, पौरस्त्यपवना इव ॥ ३१७ ॥ सुधोपमगिरा भर्तुरन्तस्ते पूरिता इव । स्फारीबभूवुर्वपुषः, पुलकेन समन्ततः ॥ ३१८ ॥ - गुप्तचरैः। २ कांस्याख्यवाद्यविशेषः। ३रोहणाचले। ४ चारणैः। ५ रात्रौ। *सिद्धम सं., खं ॥ ६ दुष्टगजाः । ७ पराक्रमेण श्रेष्ठः । ८ प्रतिबिम्बस्थिता इव । ९ युद्धे । १० सैन्यरचनाविशेषः। ११ मेघम् । १२ पूर्वदिक्पवनाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254