________________
10
पञ्चमः सर्गः ]
त्रिपष्टिशलाकापुरुषचरितम । अज्ञासीदागतं तत्र, सुनन्दानन्दनोऽपि तम् । राजनीतिगृहस्तम्भः, सद्यः प्रणिधिपूरुपैः ॥ २८५ ॥
अथ बाहुबलियाबाहेतोभम्भामवीवदत् । प्रतिनादेनिनदन्ती, द्यां भम्भीकुर्वतीमिव ॥ २८६ ॥ कृतप्रस्थानकल्याणः, कल्याणमिव मूर्तिमत् । आरुरोहोत्साहमिव; भद्रं बाहुबलिपिम् ॥ २८७ ॥ नृपैः कुमारैः सचिवैः, प्रवीररपरैरपि । सद्योऽपि परिवत्रे स, सुररिव पुरन्दरः ॥ २८८ ॥ महाबलैर्महोत्साहरेककार्यप्रवृत्तिभिः । अभेद्यस्तरात्मनोऽशरिव बाहुबलिबभौ ।। २८९ ॥ निषादिनः सादिनश्च, रथिनोऽथ पदातयः । तस्येयुर्लक्षशः सद्यस्तन्मनोधिष्ठिता इव ॥ २९० ॥
ओजस्विभिरुदत्रैः स्वैरेकवीरमयीमिव । स वीर रचयन्नुर्वी, चचालाऽचलनिश्चयः ॥ २९.१ ॥ अहमेकोऽपि जेष्यामि, परानिति परस्परम् । तद्वीरा व्यवदनिःसंविभागजयगृनवः ॥ २९२ ॥ तत्र सैन्ये वीरमानी, कोहलावादकोऽप्यभूत् । सर्वेऽपि मणिताभाजः, कर्करा अपि रोहणे ॥ २९३ ॥ महामाण्डलिकच्छत्रमण्डलैरिन्दुपाण्डुभिः । पुण्डरीकमयीव द्यौस्तदानीं समजायत ॥ २९४ ॥ ययौ बाहुबलिः पश्यन् , प्रत्येकमपि भूभुजः । भुजानिव निजानुच्चैर्मन्यमानो महौजसः ॥ २९५ ॥ भुवं भारैरनीकानां, जयतूर्यरवैर्दिवम् । आस्फोटयदिवोदामैत्रजन् बाहुबलिः पथि ॥ २९६ ॥ स्वदेशसीग्नि दूरेऽपि, शीघ्रं बाहुबलिययो । वायुतोऽपि भृशायन्ते, समरोत्कण्ठिताः खलु ॥ २९७ ।। गङ्गातटे बाहुबलिः, स्कन्धावारं न्यवेशयत् । नात्यासन्ने नातिदूरे, शिबिराद् भरतेशितुः ॥२९८ ॥ प्रातयुद्धोत्सवायाऽथ, मागधैर्ऋषभात्मंजौ । निमन्त्रयामासतुस्तावन्योऽन्यमतिथी इव ॥ २९९ ॥ 15 ___ अथ बाहुबलिनक्तं, राजकानुमतं सुतम् । चक्रे सेनापति सिंहरथं सिंहमिवौजसा ॥ ३०० ॥ मूर्ध्नि पट्टद्विपस्येव, रणपट्टोऽस्य भूभुजा । स्वयं न्यवेशि सौवर्णः, प्रताप इव भासुरः ॥ ३०१॥ स राजानं नमस्कृत्य, लब्धया रणशिक्षया । भुवेव प्राप्तया हृष्टो, ययावावासमात्मनः ॥ ३०२॥ राजा यद्धार्थमादिश्याऽन्यानपि व्यसजन्नपान । स्वयं रणार्थिनां तेषां सत्कारः स्वामिशासनम ॥३०३॥
कुमारनृपसामन्तसम्मतां भरतोऽपि हि । रणदीक्षां सुषेणस्य, ददावाचार्यवर्यवत् ॥ ३०४॥ 20 *सिद्धिमत्रमिवाऽऽदाय, सुषेणः स्वामिशासनम् । चक्रवाक इव प्रातः, काम्यन् निजगृहं ययौ ॥३०५॥ कुमारान् बद्धमुकुटान् , सामन्तानितरानपि । आहूय भरताधीशः, समरायैवमन्वशात् ।। ३०६॥ सेनापतिः सुषेणोऽयं, रणे मदनुजन्मनः । अप्रमत्तैरहमिवाऽनुगम्यो हे महौजसः ॥ ३०७ ॥ भो भो ! भवद्भिर्भूयांसो, भूभुजो भुजदुर्मदाः । महामात्रैरिव व्याला, व्यधीयन्त वशंवदाः ॥ ३०८ ॥ वैताढ्याद्रिमतिक्रम्य, किराताश्च दुराक्रमाः। विक्रान्तैर्बाढमाक्रान्ता, हन्त ! देवैरिवाऽसुराः ॥३०९ ॥25 जीयन्तां हन्त ते सर्वे, यतस्तेषु न कोऽप्यभूत् । अपि तक्षशिलाधीशपत्तिमात्रस्य सनिमः ॥ ३१० ॥ एकोऽपि सोमः सैन्यानि, तूलानीव समीरणः । दिशो दिशि क्षेप्नुमलं, ज्येष्ठो बाहुबले सुतः॥३११॥ कनिष्ठो वयसा तस्याऽकनिष्ठो विक्रमेण तु । महारथः सिंहरथः, शत्रुसैन्यदवानलः ॥ ३१२ ॥ किश्च बाहुबले पुत्रपौत्रादिष्वपरेषु च । एकैकोऽक्षोहिणीमल्लः, कृतान्तस्यापि भीतये ॥ ३१३ ॥ सामन्ताद्याश्च ये तस्य, स्वामिभक्त्या बलेन च । तोल्यन्ते तेऽपि तैः सार्द्ध, प्रतिमानस्थिता इव ॥३१४|| 30 अन्यसैन्येऽग्रणीर्यादृग्, भवत्येको महाबलः । सर्वेऽपि तादृशाः सैन्याः, सैन्ये तस्य महौजसः ॥ ३१५ ॥ दूरे बाहुबलिस्तावत् , स महाबाहुराहवे । एतस्यैकोऽपि हि व्यूहो, दुःस्फोटो हन्त ! वज्रवत् ॥ ३१६ ॥ तयुद्धायाऽभिगच्छन्तं, सुषेणमनुगच्छत । प्रावृषेण्यं पयोवहिं, पौरस्त्यपवना इव ॥ ३१७ ॥
सुधोपमगिरा भर्तुरन्तस्ते पूरिता इव । स्फारीबभूवुर्वपुषः, पुलकेन समन्ततः ॥ ३१८ ॥ - गुप्तचरैः। २ कांस्याख्यवाद्यविशेषः। ३रोहणाचले। ४ चारणैः। ५ रात्रौ। *सिद्धम सं., खं ॥ ६ दुष्टगजाः । ७ पराक्रमेण श्रेष्ठः । ८ प्रतिबिम्बस्थिता इव । ९ युद्धे । १० सैन्यरचनाविशेषः। ११ मेघम् । १२ पूर्वदिक्पवनाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org