________________
कलिकालसर्वज्ञश्रीक्षेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
सम्मुखालोकनेनानुयुक्तो वसुमतीभुजा । वाचस्पतिसमोऽवोचदथैवं सचिवाग्रणीः ।। २५३ ॥ सेनानीरुक्तवान् युक्तं, कोऽन्यो वक्तुमिदं क्षमः ? | स्वामितेजो ह्युपेक्षन्ते, विक्रमायासंभीरवः ॥ २५४ ॥ तेजसे स्वामिनाऽऽदिष्टा, अपि प्रायो नियोगिनः । रचयन्त्युत्तरं स्वार्थे, व्यसनं वर्द्धयन्ति वा ॥ २५५ ।। अयं तु सेनाधिपतिर्देवकीयस्य तेजसः । पवनः पावकस्येव, केवलं वृद्धिहेतवे ।। २५६ ।। 5. चक्ररत्नमिव स्वामिन्!, सेनाधिपतिरप्यसौ । अपि स्तोकं द्विषच्छेषमविजित्य न तुष्यति ।। २५७ ।। पर्याप्तं तद् विलम्बेन, दण्डहस्तैस्त्वदाज्ञया । प्रयाणभम्भा तेऽद्यैव, ताड्यतां प्रतिपक्षवत् ॥ २५८ ॥ सर्पता तन्निनादेन, सवाहनपरिच्छदाः । मिलन्तु सैन्याः सुघोषाघोषेणेव दिवौकसः । २५९ ।। विदधातु प्रयाणं च देवस्तक्षशिलां प्रति । उत्तराभिमुखं तेजोवृद्धये भानुमानिव ।। २६० ।। गत्वा स्वयमपि स्वामी, भ्रातुः सौभ्रात्रमीक्षताम् । वेत्तु सत्यमसत्यं वा, सुवेगमुखवाचिकम् ।। २६१ ।। तद्वचो भरताधीशस्तथेति प्रत्यपद्यत । युक्तं वचोऽपरस्याऽपि मन्यन्ते हि मनीषिणः ॥ २६२ ॥ ततः शुभेऽह्नि भुपालः कृतयात्रिकमङ्गलः । आरुरोह प्रयाणाय, नागं नगमिवोन्नतम् ॥ २६३ ॥ स्यन्दनाश्वरथारूढैः पत्तिभिश्च सहस्रशः । यात्रातूर्याण्यवाद्यन्ताऽन्यराजैकच सूनिभैः ॥ २६४ ॥ नादैः प्रयाणतूर्याणां सर्वसैन्यान्यथाऽमिलन् । समहस्तकनिर्घोषैरिव सङ्गीतकारिणः || २६५ ।। नरेन्द्रमन्त्रिसामन्तचमूपैः परिवारितः । अनेकमूर्त्तिर्भूत्वेव, नगर्या निर्ययौ नृपः ॥ २६६ ॥
"
I
अथ यक्षसहस्रेणाधिष्ठितं भरतेशितुः । अभूत् सेनापतिरिव, चक्ररनं पुरस्सरम् || २६७ ॥ राज्ञः प्रयाणपिशुनाः, पांशुपूराश्वमृत्थिताः । दूरमाशु प्रससृपुरपसर्पा इव द्विषाम् || २६८ ।। तदा प्रचलितैस्तस्य, लक्षसङ्ख्यैर्मतङ्गजैः । अलक्ष्यन्त गजोत्पत्तिभूमयो निर्गजा इव ॥ २६९ ॥ चलद्भिस्तस्य तुरगैः, स्यन्दनैर्वेसरैर्मयैः । निर्वाहनमभून्मन्ये, सर्वमन्यन्महीतलम् ॥ २७० ॥ पादतिं पश्यतां तस्य, बभौ नरमयं जगत् । अम्भोधिं वीक्षमाणानामम्भोमयमिवाऽखिलम् || २७१ ।। 20 साधितं भरतक्षेत्रं, क्षेत्रमेकमिवाऽमुना । पूर्वाणीव मुनिः प्राप, रत्नान्येष चतुर्दश ॥ २७२ ॥
10
15
११६
आयुक्त व नियोsस्याऽभूवन् वशगा नव । एवं सति कुतो हेतोः क्व वा प्रास्थित पार्थिवः १ ॥ २७३ ॥ यदृच्छया गच्छति वा, स्वदेशान् वैष वीक्षितुम् । द्विषत्साधनहेतुस्तच्चक्रमग्रे प्रयाति किम् ? ॥ २७४ ॥ ध्रुवं दिगनुमानेन याति बाहुबलिं प्रति । अहो ! अखण्डप्रसराः, कषाया महतामपि ।। २७५ ।। स तावच्छ्रयते देवासुरैरपि सुदुर्जयः । तं जिगीषुरसौ मेरुमङ्गुल्योद्धर्तुमिच्छति ।। २७६ ।। जितोऽनुजोऽनुजेनाऽपि, जित इत्ययशो महत् । महीपतेरुभयथाऽप्यत्र नूनं भविष्यति ॥ २७७ ॥ इति प्रवादा लोकानां, ग्रामे ग्रामे पुरे पुरे । मार्गे मार्गे च भूपस्य, गच्छतो जज्ञिरे चिरम् ॥ २७८ ॥ [ सप्तभिः कुलकम् ] वर्द्धिष्णुमिव विन्ध्याद्रिमन्धकारमिवोच्छलत् । उत्पतत्पांशुपूरेण, सर्वतोऽपि प्रदर्शयन् ।। २७९ ।। हेषाबृंहितचीत्कारकरास्फोटरवैर्दिशः । नादयन् पृतनाङ्गानां चतुर्णामानकैरिव ॥ २८० ॥ 30 शोषयन् मार्गसरितो, ग्रीष्मार्क इव सर्वतः । पवमान इवोद्दामः, पातयन्नध्वपादपान् ॥ २८९ ॥ बलाकिनीमिव दिवं कुर्वन् सैन्यध्वजांशुकैः । सैन्यार्दितामिभमदैर्भुवं निर्वापयनिव ॥ २८२ ॥ दिने दिने नरपतिर्गच्छंश्चक्रपदानुगः । राश्यन्तरमिवाऽऽदित्यो, बहलीदेशमासदत् ॥ २८३ ॥ [ पञ्चभिः कुलकम् ] प्रवेशे तस्य देशस्य, निवेश्य शिविरं नृपः । अवतस्थे समर्यादो, मर्यादायामिवाऽर्णवः ॥ २८४ ॥ १ प्रेरितः । २ देवसम्बन्धिनः । * ३ शत्रुवत् । • मन्तैश्वमू° सं २, भा ॥ * प्रयाणसूचकाः । ६ पदातीनां समूहम् । ७ ढक्काख्यवाद्यविशेषैः । ८ पवनः । ९ बलाकायुताम् । १० मेषादिराश्यन्तरम् ।
५ गुप्तचराः ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org