________________
पञ्चमः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम। तातदत्तांशतुष्टस्य, ममेवोपेक्षयाऽग्रहीत् । भरतो भरतक्षेत्रपखण्डमिति चाऽऽह सः ॥ २२० ॥ पर्याप्तं सेवया तस्य, प्रत्युताऽऽह्वयतेऽधुना । रणाय देवं स व्याघीमिव दोहाय निर्भयः ॥ २२१ ॥ ईदृक् तावत् तव भ्रातौजस्वी मानी महाभुजः । गन्धद्विप इवाऽसह्यः, सहते नाऽन्यविक्रमम् ॥ २२२ ॥ सभायां तस्य सामन्ता, हरेः सामानिका इव । प्रचण्ड जशोण्डीया, न हीयन्ते तदाशयात् ॥ २२३॥ कुमारा अपि तस्योचे, राजतेजोभिमानिनः । रणकण्डूलदोर्दण्डास्ततो दशगुणा इव ॥ २२४ ॥ तन्मत्रमनुमन्यन्ते, मत्रिणोऽप्यस्य मानिनः । यादृशो भवति स्वामी, परिवारोऽपि तादृशः ॥ २२५ ॥ तस्याऽनुरागिणः पौरा, अप्यन्यं पार्थिवं न हि । जानन्ति न सहन्ते च, सत्योऽपरपतीनिव ॥ २२६ ॥ जना जानपदा ये च, तस्याऽष्टकरविष्टयः । भृत्या इवाऽनुरागेण, तेऽपि प्राणैः प्रियैषिणः ॥ २२७ ।। वनेचरा गिरिचराः, सिंहा इव भटाश्च ये । मानसिद्धिं चिकीर्षन्ति, तेऽपि तस्य वशंवदाः ॥ २२८ ॥ अलमुक्त्वा बह्वथवा, स वीरो वर्ततेऽधुना । युयुत्सया दिक्षुस्त्वां, स्वामिन्नुत्कण्ठया न तु ॥ २२९ ॥ 10 यदात्मने रोचतेऽतः परं स्वामी करोतु तत् । दूता न मत्रिणः किन्तु, सत्यवाचिकवाचिनः ॥ २३० ॥ युगपद् विसयामर्षमर्षहर्षादि तत्क्षणम् । नाटयित्वा भरतवद्, भरतोऽथाऽब्रवीदिति ॥ २३१ ॥
सुरासुरमनुष्येषु, तुल्यो नाऽमुष्य कश्चन । अर्थोऽनुभूत एवाऽयं, शिशुक्रीडास्वपि स्फुटम् ॥ २३२ ॥ जगत्रयस्वामिसूनोस्तस्याऽसदनुजन्मनः । त्रिलोक्यपि तृणायेति, वास्तवं न पुनः स्तवः ॥ २३३ ॥ सर्वथा श्लाघ्य एवाऽहमनेनाऽवरजन्मना । भाति नैको गुरुर्बाहुर्द्वितीयस्मिन् लघीयसि ॥ २३४ ॥ 15 सिंहः सहेताऽऽलोनं चेच्छरभो वा वशं व्रजेत् । वश्यो बाहुबलिश्च स्यात् , किं हि न्यूनं तदा भवेत् ॥२३५॥ तत् सहिष्यामहे तस्य, वयं दुर्विनयानपि । यदि लोका अशक्तं मां, वदिष्यन्ति वदन्तु तत् ॥ २३६ ॥ सर्वमप्याप्यते वस्तु, पौरुषेण धनेन वा । न भ्राता प्राप्यते क्वाऽपि, तादृशस्तु विशेषतः ॥ २३७ ॥ किमेवं युज्यते नो वा?, तूष्णीमास्थाय किं स्थिताः । उदासीना इव यूयं ?, यथार्थं ब्रूत मत्रिणः!॥२३८॥
क्षमया स्वामिनो बाहुबलेरविनयेन च । प्रहारेणेव दूनोऽथ, सेनानीरित्यवोचत ॥ २३९ ॥ 20 ऋषभस्वामिनः सूनोः, सुप्रभोर्भरतेशितुः । उचितैव क्षमा किन्तु, करुणाभाजने जने ॥ २४ ॥ वसेद् ग्रामेऽपि यो यस्य, तस्याधीनः स जायते । स देशमपि भुञ्जानो, वाचाऽपि न वशस्तव ॥ २४१ ॥ प्राणापहार्यपि वरं, वैरी तेजः प्रवर्द्धयन् । न तु बन्धुरपि भ्रातुस्तेजोवधविधायकः ॥ २४२ ॥ कोशैः सैन्यैः सुहृद्भिश्च, तनयैर्वपुषाऽपि च । तेजो रक्षन्ति राजानस्तेषां तेजो हि जीवितम् ॥ २४३ ॥ किमपूर्ण स्वराज्येनाऽप्यभूद् भर्तुः कृतस्तु यः । षट्खण्डभरतक्षेत्रविजयस्तेजसे स तु ॥ २४४॥ 25 एकत्रापि क्षतं तेजः, सर्वत्र क्षतमेव हि । एकदापि सती लुप्तशीला स्यादसती सदा ॥ २४५॥ संविभागो धनेष्वेव, गृहिणामपि बान्धवैः । गृह्यमाणं तेजप तेजो, नोपेक्षन्ते मनागपि ॥ २४६ ॥ सकलं भरतं जिष्णोर्यदिहाविजयः प्रभोः । उत्तीर्णस्य पयोरीशिं, गोष्पदे तनिमजनम् ॥ २४७॥ किश्च श्रुतमिदं क्वापि, दृष्टं वा काऽपि यद् भुवि । चक्रिणोऽपि प्रतिस्पर्धी, राजा राज्यं भुनक्ति च ॥२४८॥ तत्राविनीते यः स्नेहो, भ्रातृसम्बन्धमात्रजः । तदेतदेकहस्तेन, तालिकावादनं विभोः ॥ २४९॥ 30 वेश्याजन इवाऽस्नेहे, तत्रापि स्नेहलः प्रभुः । एवं निगदतो नश्चेन्निषेधति निषेधतु ॥ २५० ॥ शत्रून् सर्वान् विजित्याऽन्तःप्रवेक्ष्यामीति संश्रवात् । निषेधिता कथं चक्र, देवोऽद्यापि बहिःस्थितम्।।२५१।। भ्रातृव्याजाद् द्विषयेष, युज्यते न घुपेक्षितुम् । अमुमर्थं प्रभुः पृच्छत्वपरानपि मत्रिणः ॥ २५२ ॥
१ गन्धहस्ती इव । २ प्रचण्डभुजपराक्रमाः। * किं च तस्य कुमारा अप्योजस्ते खंता ॥ ३ रणकण्डूयुक्तभुजदण्डाः । ५ पतिव्रताः खियः। ५ योदुमिछया। ६ सत्यसन्देशवाचिनः। ७ सूत्रधारवत् । ८ सत्यम् । + राजत्येको गुरुर्बाहुर्न द्वितीये ल° खंता ॥ ९ बन्धनम् । १० दयापाने।" गृहिणोऽपि। १२ समुद्रम् । ते स्नेहोऽयं, खंता ॥ । शत्रुः।
मुजपराक
बितीयेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org