________________
११५ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व प्राणरपि प्रियं राज्ञोऽनुरागेण चिकीर्षताम् । जनानामेवमारम्भ, स ददर्श पथि वजन् ।।१८७ ॥ श्रुत्वा दृष्ट्वा च तल्लोके, “पर्वतीयनृपा अपि । प्रतिराजानमद्वैतभक्तिमानितयाऽमिलन् ॥ १८८ ॥ गावो गोपखरेणेव, निकुञ्जेभ्यः सहस्रशः । तेषां गोशृङ्गनादेन, किराताः प्रदधाविरे ॥ १८९ ॥
द्वीपिपुच्छत्वचा केचित् , केकिपिच्छैश्च केचन । लताभिः केपि वेगेन, वबन्धुः कुन्तलान् भटाः ॥१९०। 5 दन्दशंकत्वचा केऽपि, तारख्या केचन त्वचा । केचिद् गोधात्वचाऽबधन्, परिधानं मृगत्वचम् ॥१९१ ।
ग्रावहस्ता धनुर्हस्ताः, प्लवमानाः प्लवङ्गवत् । स्वपतीन् परिवत्रुस्ते, पतिभक्ताश्ववद् भृशम् ॥ १९२ ॥ अद्य दो बाहुबलिप्रसादावक्रयं चिरात् । भरताक्षौहिणीक्षोदादिति तेषां गिरोऽभवन् ॥ १९३ ॥ __ तैषामप्येवमारम्भ, ससंरम्भं निरूपयन् । मुवेगश्चिन्तयामास, मनसैवं विविक्तधीः ॥ १९४ ॥
पैतृकेणेव वैरेण, त्वरन्ते रणकर्मणे । अहो! अमी बाहुबलिगृह्या विषयवासिनः ॥ १९५ ॥ 10 *किराता अप्यमी हन्तोत्सहन्ते हन्तुमागतम् । अमद्धलं बाहुबलिबलाग्रे समरेच्छवः ॥ १९६ ॥
तं कञ्चन न पश्यामि, यः सज्जति युधे नहि । विद्यते स न कोऽपीह, रक्तो बाहुबलौ न यः ॥१९७।। शूराश्च स्वामिभक्ताश्च, बहल्यां हलिनोऽप्यहो! । तत् किं देशस्वभावोऽयमुत बाहुबलेर्गुणः? ॥१९८॥ भवन्तु वेतनक्रीताः, सामन्ताद्याः पदातयः । अहो ! अस्य गुणक्रीती, पत्तीभूताऽखिलाऽपि भूः ॥१९९॥
बह्वीमपि चक्रिच , मन्ये लध्वीं लघीयसः। श्रीबाहुबलिसैन्यस्य, तण्या वह्वेरिवाऽग्रतः ॥२०॥ 15
महावीरस्य किं चाऽस्य, न्यूनं बाहुबले पुरः ? । कलभं शरभस्येव, शङ्के चक्रिणमप्यहो! ॥२०१॥ ओजस्वी भुवि चक्र्येव, वज्येव दिवि विश्रुतः । तयोरन्तरवर्द्धवर्ती वा लघुरांर्षभिः ॥ २०२ ॥ अपि तच्चक्रिणश्चक्रमपि वज्रं च पत्रिणः। मन्ये विफलमेवाऽस्य, चपेटाघातमात्रतः॥२०३॥ ऋक्षः कर्णे तदात्तोऽयं, महाहिर्मुष्टिना धृतः । विरोधितो यदस्माभिरहो ! बाहुबलिर्बली ॥२०४ ॥
मृगमेकमिव द्वीपी, गृहीत्वा भूमिखण्डलम् । सन्तुष्टोऽयं मुधाऽसाभिस्तर्जयित्वा खलीकृतः ॥२०५॥ 20 अनेकनृपसेवाभिः, किमपूर्ण नृपस्य ? यत् । अयमारम्भि सेवायै, वाहनायेव केसरी ॥ २०६॥
धिग् मत्रिणः स्वामिहितमानिनोऽस्मानपीह धिक् । यैर्द्विषद्भिरिवोपेक्षाश्चके स्वाम्यत्र कर्मणि ॥२०७॥ गत्वैकेन सुवेगेन, विग्रहश्चालितः प्रभोः । भणिष्यतीति लोकस्तु, धिर दौत्यं गुणदूषणम् ॥ २०८ ॥ एवं विचिन्तयन् नित्यं, दिनैः कतिपयैरपि । सुवेगो नगरी प्राप, विनीतां नीतिकोविदः ॥ २०९ ॥
नीतः सभायां द्वास्थेन, प्रणामरचिताञ्जलिः । न्यषीदत् सोऽथ पप्रच्छ, सादरं चक्रवर्तिना ॥ २१० ॥ 25 किं नाम कुशलं बाहुबलेर्मदनुजन्मनः । यत् त्वं सुवेग! वेगेनाऽऽगतोऽसि क्षुभितोऽस्मि तत् ॥२११॥ अथवा तेन पर्यस्तस्ततस्त्वरितमागतः । वीरवृत्तिरियं युक्ता, मद्भातस्तस्य दोष्मतः ॥ २१२ ॥
सुवेगोपि जगादेवं, देव! देवोऽपि न क्षमः । तस्याऽकुशलमाधातुं, तवेवाऽनवमौजसः ॥ २१३ ॥ स उक्तः स्वामिसेवार्थ, पूर्व विनयपूर्वकम् । मया तवाऽनुजन्मेति, नितान्तहितकाशिणा ॥ २१४ ॥
मेषजेनेव तीव्रण, परिणामोपकारिणा । सोऽवाच्यवचनीयेन, वचसा तदनन्तरम् ।। २१५ ॥ 50 न साम्ना न खरेणाऽपि, देवसेवां स मन्यते । किं नाम भेषजं कुर्याद्, विकारे सान्निपातिके ? ॥२१६॥
मानसारस्तृणायैतत् , त्रैलोक्यमपि मन्यते । स सिंह इव जानीते, प्रतिमल्लं न कञ्चन ॥ २१७ ॥ असिन् सुषेणसेनान्यां, सैन्ये च तव वर्णिते । किमेतदिति दुर्गन्धादिवाऽभासीत् स नासिकाम् ॥२१८॥ प्रभोर्भरतपदखण्डविजये प्रस्तुते च सः । अनाकर्णितकं कुर्वन्, खंदोर्दण्डौ निरीक्षते ॥ २१९ ॥ ___ * भूभुजःपार्वता अपि खंता । पार्व. सं ॥ १ पर्वतसम्बन्धिनो नृपाः। २ लतागृहेभ्यः। ३ व्याघ्रपुच्छत्वचा। ४ मयूरपिच्छैः। ५ सर्पस्वचा। ६ तहसम्बन्धिन्या। * अयं श्लोक आ पुस्तके पतितः। + रे कच खं ॥ ७ कृषीवलाः । ८ तृणसमूहम् । ९ बाहुबलिः । १० बलवतः। ११ उत्तमपराक्रमस्य । १२ तीक्ष्णेन । १३ स्वभुजदण्डौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org