________________
११३
पञ्चमः सर्गः]
त्रिपष्टिशलाकापुरुपचरितम् । हनिष्यते वराकोऽयं, केनाऽपि रभसाजुषा । नः स्वामिपैदिकेनेति, चिन्त्यमानश्च मत्रिभिः ॥ १५८ ॥ सजीकृतेन हस्तेन, पादमुत्क्षिप्य तस्थुषा । कण्ठे धर्तुमिवोत्केनोत्थापितो वेत्रपाणिना ॥ १५९ ॥ सुवेगो धैर्यमालम्ब्य, मनसि क्षुभितोऽपि सन् । निर्जगाम समुत्थाय, सदासदनतस्ततः ।। १६० ॥
[षड्भिः कुलकम् ] क्रुद्धतक्षशिलाधीशतारशब्दानुमानतः । द्वारस्थया पत्तिँचम्वा, रोपाभितया भृशम् ॥ १६१॥ 5 आस्फाल्यमानैः फेलकैनर्त्यमानैर्महासिभिः । उदस्यमानश्चक्रेश्च, गृह्यमाणैश्च मुद्गरैः ॥ १६२ ॥ स्फाव्यमानैर्खिशल्यैश्च, पीड्यमानश्च तूणकैः । आदीयमानैर्दण्डैश्वोद्यम्यमानेश्च पशुभिः ॥ १६३ ।। सर्वतोऽप्यात्मनो मृत्युमिव पश्यन् पदे पदे । स्खलत्पदो नृसिंहस्य, सिंहद्वारात् स निर्ययो ॥ १६४ ॥
[चतुर्भिः कुलकम् ] क एष नूतनो राजद्वारान्निरगमत् पुमान् ? । आगतः खल्वयं दृतो, भरतस्य महीपतेः ॥ १६५ ॥ 10 राजा किमपरः कश्चिदप्यस्तीह महीतले ? । भ्राता बाहुबलेज्येष्ठोऽयोध्यायां भरतेश्वरः ॥ १६६ ।। अत्र च प्रजिघायेमं, स दूतं केन हेतुना ? । आकारणाय स्वभ्रातुः, श्रीबाहुबलिभूपतेः ॥ १६७ ॥ इयत्कालं गतः क्वाऽऽसीद्, भ्राताऽस्मत्स्वामिनो ननु ? । पटखण्ड भरतक्षेत्रजयाय स गतो ह्यभृत्।।१६८॥ उत्कण्ठितः कनिष्ठं स, किं समाह्वयतेऽधुना? । अन्यराजन्यसामान्यां, सेवां कारयितुं ननु ॥ १६९ ॥ तस्याऽसारान् नृपान् जित्वा, किं कीलेऽत्राऽधिरोहणम् ? । अखण्डश्चक्रवर्तित्वाभिमानस्तत्र कारणम् ॥१७०।। 15 कनिष्ठेन जितो राज्ञां, स्खं कथं दर्शयिष्यति ? । न वेत्ति जितकासी म, भाविनं स्वपराभवम् ॥ १७१ ॥ मत्रणे नाऽऽखुरप्यस्ति, भूपतेर्भरतस्य किम् ? । भूयांसो मत्रिणः सन्ति, मतिमन्तः क्रमागताः ॥१७२।। स कण्डूयियिपुस्तुण्डमहेः किं तैर्न वारितः ? । न वारितः प्रेरितः किन्त्वीदृशी भवितव्यता ॥ १७३ ॥ नागराणामिति मिथो, जल्पतामुच्चकैर्गिरम् । आकर्णयन् रथारूढो, नगर्या निर्जगाम सः ॥ १७४ ।।
_ [दशभिः कुलकम् ] 20 देवताभिरिव प्रादुष्कृतां द्वारे व्रजन्नसौ । आर्षभ्योर्विग्रहकथामितिहासमिवाऽशृणोत् ॥ १७५ ॥ क्रोधात् त्वरितमप्यस्य, गच्छतः स्पर्धयेव सा । वर्त्मनि त्वरिततरं, तद्विग्रहकथा ययौ ॥ १७६ ॥ वार्त्तयाऽपि तया राजादेशेनेव क्षणाद् भटाः । प्रतिग्रामं प्रतिपुरं, कटकाय ससजिरे ॥ १७७ ॥ रधान् साङ्ग्रामिकान कृष्ट्वा, शालाभ्योऽक्षादिभिर्नवैः । केचिद् दृढतरीचक्रुः, शरीराणीय योगिनः ॥१७८॥ आरुह्याऽऽरुह्य बाँह्याल्यां, धाराभिरपि पञ्चभिः । कर्तु रणसहानश्वान् , केपि श्रममजापयन् ॥ १७९ ॥ 25 अयस्कोरगृहेष्वेत्य, कृपाणादिकमायुधम् । अपरे तेजयामासुस्तेजोमूर्तिमिव प्रभोः ॥ १८० ॥ संयोज्य शृङ्गसाराणि, बद्धाऽभिनवतत्रिभिः । यमभ्रूसोदराण्यन्ये, शार्ङ्गधन्वान्यसूत्रयन् ॥ १८१॥ वर्मादिवहनायोष्ट्रानरण्यात् केचिदानयन् । तूर्याणि प्राणवन्तीव, प्रयाणेषु प्रणादिनः ॥ १८२ ॥ सबाणान् वाणधीन केचित् , सशिरस्कांश्च कङ्कटान् । दृढानपि दृढीचक्रुः, सिद्धान्तानिव तार्किकाः ॥१८३॥ केऽपि गुप्यद्गुरून् काण्डपेटान् पटकुटीरपि । गन्धर्वभवनानीव, वितत्याऽऽलोकयन् क्षणात् ॥ १८४ ॥ 30 स्पर्द्धयेव मिथः सर्वे, भक्ता बाहुबलौ नृपे । युधि सजीभवन्ति स्म, जना जानपदा अपि ॥ १८५ ॥ आप्तेन तत्र यः कोऽपि, न्यवार्यत रणोन्मुखः । अनाप्तायेव तस्मै सोऽकुप्यद् भक्तिचिकीर्नृपे ॥१८६ ॥
साहसिकेन । २ स्वामिपत्तिना । ३ उत्कण्ठितेन । ४ पदातिसेनया। ५ अस्त्रप्रतिघातनिवारकैः "ढाल" इति लोके । ६ शस्त्रविशेषैः। ७ निषङ्गैः। * ध्यते खं, सं १ ॥ ८ मूषकः। ९ मुखम् । १० बाहुबलि-भरतयोः। ११ सैन्याय । १२ रथावयवादिभिः। १३ अश्वपाटिकायाम्। १४ अश्वगतिभिः। १५ लोहकारगृहेषु। १६ यमभ्रूसदृशानि । १७ निषङ्गान् । १८ वर्माणि । १९ “कनात"इति लोके ।
त्रिषधि १५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org