________________
११२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीनं
[ प्रथमं पर्व पष्टिं वर्षसहस्राणि, परराज्यानि गृह्णतः । कनिष्ठराज्यग्रहणे, व्यग्रता तस्य कारणम् ॥ १२५ ॥ सौभ्रात्रं कारणं तस्य, यदि तत् प्राहिणोत् कथम् । भ्रातृणामेकशो दृतान् , गज्यसङ्ग्रामकाम्यया ? ॥१२६॥ को भ्राता ज्यायसा सार्द्ध, लुब्धेनाऽपि हि योत्स्यते ? । इति बुद्ध्या महासच्चाः, कनिष्ठाम्तातमन्वगुः ॥१२७॥
तेषां च राज्यग्रहणेनाऽपि त्वत्स्वामिनो ध्रुवम् । छलमन्वीक्षमाणस्य, प्रकट बकचेष्टितम् ॥ १२८ ॥ 5 असावस्मास्वपि स्नेह, तादृशं दर्शयन्नहो! । प्रजिंघाय विशिष्टं त्वां, वाक्प्रपञ्चविचक्षणम् ॥ १२९ ॥
प्रव्रज्य भ्रातृभी राज्यदानाद् याऽकारि तस्य मुत् । आगतेन मया रोज्यगृथ्नोः किं सा करिष्यते ॥१३०॥ वज्रादपि कठोरोऽहं, यत् स्वल्पविभवोऽपि मन् । तस्य ऋद्धिं न गृह्णामि, भ्रातृन्यकारकातरः ॥ १३१ ॥ स तु पुष्पादपि मृदुमायावी योऽनुजन्मनाम् । अवर्णवादभीरूणां, राज्यानि स्वयमाददे॥१३२ ॥ निर्भया निर्भयेभ्योऽपि, कथं दूत! वयं ननु । भ्रातराज्यानि गृह्णन्तं, यदुपेक्षामहे स्म तम् ॥ १३३ ॥ गुरौ प्रशस्यो विनयी, गुरुर्यदि गुरुर्भवेत् । गुरौ गुरुगुणीने, विनयोऽपि वपास्पदम् ॥ १३४ ॥ गुरोरप्यवलिप्तस्य, कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य, परित्यागो विधीयते ॥ १३५ ।। तस्याऽऽच्छिन्नं किमश्वादि ?, भग्नं वा नगरादिकम् ? । येनाऽविनयमसाकं, सोढा सर्वसहो नृपः ॥१३६॥ दुर्जनप्रतिकाराय, न तत्र प्रयतामहे । विमृश्यकारिणः सन्तः, किं दृष्यन्ते खलोक्तिभिः? ॥ १३७ ॥
इयत्कालं नाऽऽगताः मो, यतो हेतोःस किं ययौ । अनीहालक्षणः क्वाऽपि ?, यामो येनाऽद्य चक्रिणम् ॥१३८॥ 15 सर्वत्राऽप्यप्रमत्तानामलुब्धानां च नः सदा । स्खलितं किं स गृह्णीयाच्छलान्वेष्यपि भूतवत् ? ॥ १३९ ॥
किमप्यनाददानानां, तदीयं नीवृदादिकम् । वाम्येव नः कथं नाम, स भवेद् भरतेश्वरः? ॥ १४०॥ भगवानृषभवामी, स्वाम्येको मम तस्य च । मिथः स्वस्वामिसम्बन्धो, घटते कथमावयोः? ॥ १४१ ॥ तेजोहेतोर्मयि गते, तत्र स्यात् तस्य कीदृशम् । तेजोऽभ्युदितवत्यर्के, तेजस्वी नहि पावकः ॥१४२ ॥ खामीयन्तोऽक्षमास्ते तु, निषेवन्तां क्षमाभुजः । एष येषु वराकेषु, निग्रहानुग्रहक्षमः ॥ १४३ ॥ सेवाऽसिन् भ्रातृसौहार्दपक्षेणापि मया कृता । चक्रवर्त्तित्वपक्षे स्याद् , यदबद्धमुखो जनः ।। १४४ ॥ भ्राताऽस्म्यभीः स चाऽऽज्ञेश, आज्ञापयतु यद्यलम् । ज्ञातिस्लेहेन किं वज्र, वज्रेण न विदार्यते ? ॥१४५।। सुरासुरनरोपास्त्या, प्रीतोऽस्त्वेष मयाऽस्य किम् ? । मार्ग एव क्षमः स्तम्बे, रथः सजोऽपि भज्यते ॥१४६।। तातभक्तो महेन्द्रश्चेज्येष्ठं तं तातनन्दनम् । आसयत्यासनस्याऽढे, स किं तेनाऽपि दृप्यति ? ॥१४७॥ ते त्वन्येऽस्मिन् समुद्रे ये, ससैन्याः सक्तुमुष्टिवत् । तेजोभिर्दुःसहोऽहं तु, हन्त ! स्यां वडवानलः ॥१४८॥ पत्तयोऽश्वा रथा नागाः, सेनानीभरतोऽपि च । मयि सर्वे प्रलीयन्तां, तेजांसीवाऽर्कतेजसि ॥ १४९ ॥ करिणेव करेणोच्चैर्यः समादाय पादयोः । मयोदलालि गगने, बालत्वे लोष्टुलीलया ॥ १५०॥ गगने दूरमध्वानं, गत्वा यश्च पतन भुवि । मा भूत् परासुरित्येप, मया प्रत्यैषि पुष्पवत् ॥ १५१ ॥ चाटुभिश्चाटुकाराणां, निर्जितानां क्षमाभुजाम् । व्यस्मार्षीत् तदसौ प्राप्तो, जन्मान्तरमियाऽधुना ॥१५२॥
चाटुकाराः प्रणश्यन्ति, ते सर्वेऽपि स्वयं त्वसौ । एकः सहिष्यते बाहुबलिबाहुवलाद् व्यथाम् ॥१५३॥ 30 याहि दूत ! स एवैतु, राज्यजीवितकाम्यया । तातदत्तांशतुष्टेन, मयैवोपैक्षि तस्य भूः ॥१५४॥
चित्रकायैरिव दृढस्वाम्याज्ञापाशयत्रितैः । प्रकोपताम्रनयनैः, प्रेक्ष्यमाणो नरेश्वरैः ॥ १५५ ॥ रोषाद्धत हतेऽत्यन्तणद्भिः स्फुरिताधरैः । कटाक्ष्यमाणो विकटं, कुमारैश्च मुहुर्मुहुः ॥ १५६ ॥ जित्सुभिरिवोदकः, किञ्चिञ्चलितहेतिभिः । दृढाबद्धपरिकरैरीक्ष्यमाणोऽङ्गरक्षकैः ॥ १५७ ॥
प्रेषयामास । २राज्यलुग्धस्य। ३ प्रातृतिरस्कारकातरः । । लज्जास्थानम् । ५ सावलेपस्य । ६ नि:स्पृहालक्षणः । प्रामाणानाम्। ८देशादिकम् । ९सामिपक्षाचरतः। १. भरतः। ११ निर्भीकः । १२ आज्ञाकारकः । उपासना .काण्डरहिते रक्षादौ। १५ प्रवाही मिभिः ।१७ चीकृतकुटिभिः। १८चलितखहै।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org