________________
पञ्चमः सर्गः]
त्रिपष्ट्रिालाकापुरुषचरितम । पष्टिवर्षसहस्रान्तादेयुपा ज्यायसा तव । उत्कण्ठया कनिष्ठानामागंमाध्या निरीक्षितः ॥ ९२॥ सर्वे तत्राऽऽययुर्वन्धुसम्बन्धिसुहृदादयः । विदधुश्च महाराज्याभिषेकं भरतेशितुः ॥ ९३ ॥ आसतां तैः समायातैः, सुरैरपि मवासवैः । न हप्यति महीनाथोऽपश्यन् पार्थे निजानुजान ॥ १४ ॥ द्वादशस्वपि वर्षषु, ज्ञात्वा भ्रातृननागतान् । तानाह्वातुं नरं प्रैपीदुत्कण्ठा हि बलीयसी ॥ ९५ ॥ कश्चिद् विकल्पं सङ्कल्प्य, भरलं न समाययुः । ययुस्तु नातपादान्तं, दीक्षामाददिरे च ते ॥ ९६ ॥ 5 तेषां सम्प्रत्यरागाणां, न कोऽपि स्वो न वा परः । तैः कथं पूर्यते राज्ञो, भ्रातृवात्सल्यकौतुकम् ? ॥९७॥ तदेहि देहि हृदयप्रमोदं मेदिनीपतेः । तवाऽपि यदि तत्राऽस्ति, स्नेहः सौभ्रात्रसम्भवः ।। ९८ ॥ कुलिशादप्यधिकं वः, कठोरांस्तर्कयाम्यहम् । चिराद् दिगन्तादायाते, ज्येष्ठेऽप्येवं यदास्यते ॥ ९९ ॥ शङ्के वो गुर्ववज्ञानान्निभयेभ्योऽपि निर्भयान् । शूरैरपि वर्तितव्यं, गुगै हि सभयैरिव ॥ १० ॥ एकत्र विश्वविजयी. विनयी चाऽन्यतो गरौ । पारिषौर्षिचार्यालं.द्वैतीयीकः प्रशस्यते ॥१०१॥ 10 तवाऽविनयमप्येवं. सोदा सर्वसहो नपः । कर्णजपानां किन्त्वेवमवकाशो निराशः ॥ १०२॥ पिशुनानां गिरस्तत्र, त्वदभक्तिप्रकाशिकाः । दुपयिप्यन्ति तचेतः, क्षीरं शुक्तच्छंटा इव ॥ १०३॥ अत्यल्पमपि तद रक्ष्यमात्मच्छिद्रं निजे प्रभौ। छिद्रेण लघुनाऽप्यम्भः, सेतुमुन्मूलयत्यहो! ॥१०४॥ इयत्कालं नागतोऽस्मीत्याशङ्कां हृदि मा कृथाः । अधुनाऽप्येहि सुस्वामी, गृह्णाति स्खलितं नहि ॥१०५॥ त्वयि तत्र गते सद्यः, पिशुनानां मनोरथाः । विलीयन्तां हिमानीव, नभोभाजि नभोमणौ ॥ १०६॥ 15 तेजोभिश्चिरमेधस्व, बामिना तेन सङ्गमात् । अद्यैव पर्वणि दिवाकरेणेव निशाकरः ॥१०७॥ म्वामीयन्तस्तमन्येऽपि, बहवो बाहुशालिनः । सेवाशालीनतां हित्वा, सेवन्ते प्रतिवासरम् ॥ १०८ ॥ अवश्यं सेवनीयो हि, चक्रवर्ती महीधरैः । निग्रहानुग्रहसहः, सहस्राक्ष इवाऽमरैः ॥ १०९ ॥ चक्रवर्तित्वपक्षेपि, तस्य सेवा त्वया कृता । अद्वैतभ्रातृसौहार्दपक्षमुझ्योतयिष्यति ॥ ११० ॥ भ्रातेति यदि निर्भीको, नाऽऽयास्येतन साम्प्रतम् । आज्ञासारा न गृह्यन्ते, ज्ञातेयेन महीभुजः ॥ १११ ॥20 अयस्कान्तैरिवाऽयोंसि, देवदानवमानवाः । कृप्टाः प्रकृष्टैस्तेजोभिरायान्ति भरतेश्वरम् ।। ११२ ॥ यमर्द्धासनदानेन, वासवोऽपि सँखीयति । तमागमनमात्रेणाऽनुकूलयसि किं नहि ? ॥ ११३ ॥ वीरमानितया चेत् तं, गजानमवमन्यसे । तर्हि तस्मिन् समैन्योऽपि, त्वमब्धौ सक्तुमुष्टिवत् ॥ ११४ ॥ चतुरशीतिलक्षास्तद्गजाः शक्रेभसन्निभाः । सह्याः केनाभिसर्पन्तः, पर्वता इव जङ्गमाः ? ॥ ११५ ॥ तावतोऽश्वान् रथांश्चाऽस्य, विष्वक् प्लावयतो महीम् । कल्लोलानिव कल्पान्तोदधेः कः स्खलयिष्यति ॥११६॥25 तस्य षण्णवतिग्रामकोटिभर्तुः पदातयः । तेंद्रामप्रमिताः सिंहा, इव त्रासाय कस्य न ? ॥ ११७ ॥ एकः सुषेणः सेनानीर्दण्डपाणिः समापतन् । कृतान्त इव किं शक्यः, मोढुं देवासुरैरपि ? ॥ ११८ ॥ अमोघं बिभ्रतश्चक्र, चक्रिणो भरतस्य तु । सूर्यस्येव तमस्तोमः, स्तोकिकैव त्रिलोक्यपि ॥ ११९ ॥ तेजसा वयसा ज्येष्ठो, नृपः श्रेष्ठः स सर्वथा । राज्यजीवितकामेन, सेव्यो बाहुबले! त्वया ॥ १२० ॥ ___ अथ वाहुबलिर्बाहुबलापास्तजगदलः । इत्यभाषिष्ट गम्भीरध्वानोऽर्णव इवाऽपरः ॥ १२१॥ 30 साधु दूत! त्वमेवैको, वाग्मिनामैग्रणीरसि । ममाऽपि पुरतो वाचं, य एवं वक्तुमीशिपे ॥ १२२ ॥ ताततुल्यो हि मे भ्राता, ज्यायान् सोऽपि यदिच्छति । समागम बान्धवानां, युक्तमेव तदप्यहो। ॥१२३॥ सुरासुरनृपश्रीभित्रद्धः सोऽस्माभिरागतैः । लजिष्यतेऽल्पविभवैरागमायेति नो वयम् ॥ १२४॥
१ आगतेन । २ आगमनमार्गः। ३ पिशुनानाम् । ? भरतस्य चेतः। ५ काञ्जिकन् । ६ हिमसमूहः। ७ सूर्ये । ८ स्वामिवदाचरन्तः । ९ इन्द्रः। १० अद्वैतभ्रातृवात्सल्यपक्षम् । ११ ज्ञातिभावेन । १२ लोहानि। १३ सखिवदाचरति । * कोट्यः एण्णवति सि सं २, आ॥ १४ अल्पमात्रा। १५ अग्रेसरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org