________________
कालिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व सहस्ररोचिपो रोचीप्याच्छियव विनिर्मितान् । कुन्तान् दधानः कुत्राऽपि, पत्त्यनीकैरधिष्ठितम् ॥ ६१॥ - विभ्राणैरिक्षुपत्रास्यान्ययःशल्यानि पत्तिभिः । शोभितं कुत्रचिच्छौर्यद्रुमैः पल्लवितैरिव ॥ ६२ ॥ अभङ्गानश्मभङ्गऽपि, विभ्रलिहिमुद्गरान् । सनाथं क्वाऽपि सुभटैरेकदन्तैरिव द्विपः ॥ ६३ ॥ फलकासिधरैः क्वाऽपि, चन्द्रकेतुधरैरिव । शोभितं वीरपुरुपत्रकाण्डश्चण्डशक्तिभिः ॥ ६४ ॥ आ नक्षत्रगणं दुरापातिभिः शब्दवेधिभिः । तूगपृष्ठः कालपृष्ठपाणिभिः क्वाऽप्यधिष्ठितम् ।। ६५ ॥ उद्दामशुण्डादण्डाभ्यां, स्थिताभ्यां पार्श्वयोर्द्वयोः । इभाभ्यां द्वारपालाभ्यामिव दूराद् भयङ्करम् ॥६६॥ सिंहद्वारं नृसिंहस्स, पश्यन् विसितमानसः । द्वाःस्थप्रतीक्षितस्तस्थौ, स्थितिरेपा नृपोकसाम् ॥ ६७ ॥
[सप्तभिः कुलकम् ] गत्वा च वाहुबलये, द्वास्थेनेति न्यवेद्यत । त्वद्भातुज्यायसो दृतः, सुवेगो द्वारि तिष्ठति ॥ ६८॥ 10 वेत्रिणाऽथाऽऽज्ञया राज्ञोऽनुमतो धीमतां वरः । बुधोऽर्कमण्डलमिव, सुवेगः प्राविशत् सदः ॥ ६९ ॥
आबद्धरत्नमुकुटैस्तंजस्विभिरिलाधवैः । दिवाकरेरिव दिवो, भुवं प्राप्तरुपासितम् ॥ ७० ॥ प्रदीप्तचूलामणिभिरधृष्यैर्जगतोऽपि हि । कुमारप्रवरेनागकुमारैरिव सेवितम् ॥ ७१ ॥ स्वामिविश्वाससर्वस्ववल्लीसन्तानमण्डपैः । सचिवैरुपधाशुद्धीमद्भिः परिवारितम् ॥ ७२ ॥
सहस्रशश्चाऽऽत्मरक्षनिष्कोशायुधपाणिभिः । उज्जिद्वैरिव फणिभिभीषणं मलयाद्रिवत् ॥ ७३ ॥ 15 वारस्त्रीभिर्वीज्यमानं, चामरेरतिचारुभिः । शैलं हिमालयमिव, चमरीभिर्निरन्तरम् ॥ ७४ ॥
वर्णदण्डधरेणाऽग्रे, शुचिवेषेण वेत्रिणा । सविद्युता शरद्वारिधरेणेवोपशोभितम् ॥ ७५ ॥ रत्नसिंहासनासीनं, तेजसामिव दैवतम् । ददर्श बाहुबलिनं, स तत्रोद्भूतविसयः ॥ ७६ ॥
[सप्तभिः कुलकम् ] नरनाथं ननामाऽथ, ललाटस्पृष्टभूतलः । स करीव रणदीर्घतरकाश्चनशृङ्खलः ॥ ७७ ॥ 20 ततो भ्रसंज्ञया राज्ञा, तत्कालमुपनायितं । प्रदर्शित प्रतीहारणाऽऽसाञ्चक्र स आसनं ।। ७८ ॥
___ तं प्रसादसुधाधौतदृशा पश्यन् नृपोऽब्रवीत् । सुवेग ! कुशलं कच्चिदार्यस्य भरतशितुः ? ॥ ७९ ॥ नातपादैलालितायां, पालितायां च मुन्दर ! । तस्यां पुरि विनीतायां, कञ्चित् कुशलिनी प्रजा ? ॥८॥ पण्णां भरतखण्डानां, कामादीनामिव द्विपाम् । निरन्तरायं विजयं, कच्चिद् व्यधित भूपतिः ? ॥ ८१॥
षष्टिं वर्षसहस्राणि, कृत्वा कटकमुत्कटम् । सेनान्यादिपरीवारः, कञ्चित् कुशलमागतः ? ॥ ८२ ॥ 25 सिन्दूरारुणितेः कुम्भैद्या सन्ध्याभ्रमयीमिव । वितन्वती करिघटा, राज्ञः कञ्चिन्निरामया ? ॥ ८३ ॥
आ हिमाद्रिमहीमेतां, समाक्रम्य समेयुषाम् । राज्ञो वरतुरङ्गाणां, वर्तते कच्चिदक्लमः ? ॥ ८४ ॥ अखण्डाज्ञस्य सर्वत्र, सेव्यमानस्य पार्थिवैः । सुखेन व्यतिगच्छन्ति, कच्चिदार्यस्य वासराः ? ॥ ८५ ॥ परिपृच्छयति तूष्णीके, स्थितं वृषभनन्दने । कृताञ्जलिरनावेगः, सुवेग इदमभ्यधात् ॥ ८६ ॥
इलायाः सकलाया यः, करोति कुशलं स्वयम् । अस्ति तस्य स्वतः सिद्धं, कुशलं भरतेशितुः ॥८७।। 30 पुर्याः सुषेणादीनां च, हस्त्यश्वस्य च किं क्षमः? । देवोऽप्यकुशलं कर्तुं, येषां नेती तवाऽग्रजः॥ ८८॥
तुल्योऽधिको वा किं कोऽपि,क्वाऽप्यस्ति भरतशितुः। पण्णां भरतखण्डानां,जये यो विघ्नकृद् भवेत्॥८९॥ अखण्डिताज्ञः सर्वत्र, सेव्यते च नरेश्वरैः । तथापि भरताधीशो, जातु नाऽन्तः प्रमोदते ॥ ९ ॥ दरिद्रोऽपि कुटुम्बन, सेव्यते यः म ईश्वरः । न सेव्यते तु यस्तेन, तस्यैश्वर्यसुखं कुतः? ॥ ९१ ॥
१ सूर्यस्य । २ तेजांसि। ३ नक्षत्रगणपर्यन्तम्। ४ धनुःपाणिभिः। ५ भूपतिभिः। ६ काम-क्रोध-लोभ-मान-मदहर्षाणाम् । ७ अश्रमः। * सुखेनैवातिग सं 1, स्वं ॥ एवमापृच्छय सं २, आ॥ ८ स्थिरः। ९पृथ्थ्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org