________________
पश्चमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् ।
15
उत्ततार पुरस्तस्य, प्रलम्बः कृष्णपन्नगः । क्षिप्तागलेव देवेन, तद्याननिरुरुत्सया ॥ ३२ ॥ प्रतिकूलो ववौ वायुश्चक्षुषोः प्रक्षिपन रजः । पर्यस्यन्निव तं पश्चाद् , विचारकविपश्चितम् ॥ ३३ ॥ तस्य दक्षिणतो भूत्वा, विररास च रासभः । अभोजितप्रस्फुटितमृदङ्गविरसखरः ॥ ३४ ॥
सुवेगोऽगादनिमित्तान्येतानि प्रविदन्नपि । सद्धृत्याः स्वामिनः कापि, काण्डवत् प्रस्खलन्ति न ॥३५॥ ललझे स बहून् ग्रामनगराकरकटान् । तद्वासिभिदृश्यमानो, वात्यावर्त इव क्षणम् ॥ ३६॥ तरुखण्डसरःसिन्धुपुलिनप्रभृतिष्वपि । विशश्राम न स स्वामिकार्यतोत्र प्रवर्तितः ॥ ३७॥ किरातैः सज्जकोदण्डैः, शरव्यीकृतकुञ्जरैः । चमूरुचर्मसंव्यानैर्जातुधानेरिवाऽऽकुलाम् ॥ ३८॥ चमूरु-चित्रक-व्याघ्र-हरिभिः शरभैरपि । सगोत्रैरन्तकस्येव, क्रूरसत्त्वैर्निरन्तराम् ॥ ३९ ॥ युध्यमानाहि-नकुलवामलूरविभीषणाम् । भल्लूकीकेशधरणव्यग्रवालकिरातिकाम् ॥ ४० ॥ मिथो महिषसङ्ग्रामभज्यमानजरत्तरुम् । नाहलोत्थापितक्षौद्रमक्षिकाभिरसञ्चराम् ॥४१॥ अभ्रंलिहतरुस्तोमतिरोहितदिवाकराम् । रहोरतभुवं मृत्योरिवाऽऽप स महाटवीम् ॥४२॥ [पञ्चभिः कुलकम्] घोरां तामटवीं वेगात् , सुवेगो वेगवद्रथः । सलीलं लङ्घयामास, विपदं पुण्यवानिव ॥ ४३ ॥ मार्गान्ततरुविश्रान्तैरलङ्करणधारिभिः । संलक्ष्यमाणसौराज्य, सुस्थैः पान्थवधूजनैः ॥ ४४ ॥ गोकुले गोकुले वृक्षतलासीनैः प्रमोदिभिः । गीयमानर्षभस्वामिचरितं गोपदारकैः ॥ ४५ ॥ भद्रशालादिवाऽऽहृत्याऽऽरोपितैः फलमालिभिः । अलङ्कृताखिलग्राम, बहलैर्बहुभिर्दुमैः ॥ ४६॥ पत्तने पत्तने ग्रामे, ग्रामे वेश्मनि वेश्मनि । दानकदीक्षितैरिभ्यैः, शोध्यमानवनीपकम् ॥ ४७॥ आगतैर्भरतात् त्रस्तैरिवोदग्भरतार्द्धतः । प्रायेणाऽध्यासितग्राम, म्लेच्छैरक्षीणऋद्धिभिः॥४८॥ षड्भ्यो भरतखण्डेभ्यः, खण्डान्तरमिव स्थितम् । भरताज्ञानभिज्ञं स, बलीदेशमासदत् ॥ ४९ ॥
.. [सप्तभिः कुलकम् ] ऋते श्रीबाहुबलिनं, राजान्तरमजानतः । जनान् जानपदान मार्गेष्वनानि वार्तयन मुहुः ॥ ५० ॥ 20 वनेचरान् गिरिचरान् , दुर्मदान् श्वापदानपि । द्राक् खञ्जीभवतः पश्यन् , सुनन्दानन्दनाज्ञया ॥५१॥ प्रजानामनुरागोक्त्या, महतीभिश्च ऋद्धिभिः । अद्वैतमनुमिमानः, श्रीबाहुबलिनो नयम् ॥ ५२ ॥ भरतावरजोत्कर्षाकर्णनाद् विस्मृतं मुहुः । अनुस्मरन् वाचिकं स, प्राप तक्षशिलापुरीम् ॥ ५३॥
[चतुर्भिः कलापकम् ] किचिल्लोचनपातेन, पुरीपरिसरोषितैः । प्रेक्ष्यमाणः क्षणं लोकैरेकपान्थावलीढया ॥ ५४॥ लीलोद्यानेषु सम्भूय, खेलेन खुरलीजुषाम् । सुभटानां भुजास्फोटैखस्यद्रथतुरङ्गमः ॥ ५५ ॥ इतस्ततः पौरऋद्धिप्रेक्षणव्यग्रताजुषा । दक्षिणस्थेनाऽनिषिद्धोत्पथगामिस्खलद्रथः ॥ ५६ ।। एकत्रेवेभरत्नानि, समस्तद्वीपचक्रिणाम् । बद्धान वरगजान् पश्यन् , बहिरुद्यानशाखिषु ।। ५७ ।। प्रेक्षमाणो मन्दुरीश्च, बन्धुरास्तुरगोत्तमैः । ज्योतिष्काणां विमानानि, विहायेव समागतैः ॥ ५८ ॥ भरतावरजैश्वर्याश्चर्यालोकनजन्मना । शिरोऽत्येव शिरो धुन्वन् , प्रविवेश स तां पुरीम् ॥ ५९ ॥ 30
[ षड्भिः कुलकम् ] स्वच्छन्दवृत्तीनत्याढ्यानपिणेषु वणिग्जनान् । अहमिन्द्रानिव पश्यन् , राजद्वारं जगाम सः ॥ ६ ॥
कृष्णसर्पः। * ननिषिषित्सया खंता॥ २ विचारकचतुरम् । ३ गर्दभः। ४ बाणवत् । ५ चक्रवातः। ६ लक्ष्यीकृतकुअरः। चमूरच खंता, सं २, आ॥ ७ मृगविशेषः। चमूरैश्चित्रकैात्रैर्ह खंता, सं २, आ॥ ८ अष्टापदैः । ९ वल्मीकाः। १० घनैः। १५ याचकम् । १२ सुखिनः। १३ हिनप्राणिनः। १४ अनुमानं कुर्वन् । १५ नीतिम् । १६ सन्देशम्। १७ भराभ्यासजुषाम्। १८ साराथना। १९ मझाक्षाः३०हषु ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org