________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व पञ्चमः सर्गः। ततश्च भरताधीशा, सदासदनमीयिवान् । सुषेणसेनापतिना, नमस्कृत्येत्यभाष्यत ॥१॥ कृत्वापि दिग्जयमिदं, तव चक्र पुरीमिमाम् । अद्याऽपि न प्रविशति, स्तम्भं व्याल इव द्विपः ॥२॥ बभाषे भरतोऽप्येवं, षट्खण्डभरतान्तरे । अद्यापि वीरः को नाम, ममाऽऽज्ञां न प्रतीच्छति ? ॥३॥
तदैव सचिवोऽवोचजाने देवेन निर्जितम् । एतद्धि भरतक्षेत्रमा क्षुद्रहिमवगिरि ॥ ४ ॥ जेयः किमवशिष्टोऽस्ति, दिग्यात्राकृत्यपि त्वयि ? । भ्रमद्धरट्टे पतितास्तिष्ठन्ति चणकाः किमु ? ॥५॥ पुर्यामप्रविशचैतच्चक्र सूचयति प्रभो ! । कमप्यद्याऽपि जेतव्यं, त्वदाज्ञालङ्घनोन्मदम् ॥ ६॥ देवेष्वपि न पश्यामि, जेतव्यं दुर्जयं च ते । आ ज्ञातमथवाऽस्त्येको, जेतव्यो विश्वदुर्जयः॥ ७ ॥
ऋषभस्वामिनः सूनुः, स्वामिन्नवरजस्तव । महावलो बाहुबलिबेलिनां बलसूदनः ॥८॥ 10 सर्वास्त्राण्येकतो वज्रमेकतश्च यथा तथा । एकतो राजकं सर्वं, स बाहुबलिरेकतः ॥९॥
लोकोत्तरो यथाऽसि त्वमृषभस्वामिनन्दनः । तथा सोऽपि तदेतस्मिन्नजिते किं जितं त्वया ? ॥१०॥ षट्खण्डे भरते दृष्टो, न कोऽपि स्वामिनः समः । तज्जये परंभागोऽस्तु, को नाम भरतेशितुः१ ॥११॥ अयं खलु जगन्मान्यां, भवदाज्ञां न मन्यते । तदसाधनतश्चक्रमेति हीणमिवेह न ॥ १२॥
उपेक्षितव्यो न परः, स्वल्पोऽप्यामयवद् यतः । तदद्याऽलं विलम्बेन, यतध्वं तज्जयं प्रति ॥ १३ ॥ 15 दावाग्निमेघवृष्टिभ्यामिवाद्रिर्भरतेश्वरः । सद्यः कोपोपशान्तिभ्यामाश्लिष्टोऽथाऽब्रवीदिदम् ॥ १४ ॥
नाऽनुजोऽपि करोत्याज्ञामिति लज्जाकृदेकतः । सार्द्ध कीया युद्धमिति चैकत्र बाधते ॥ १५ ॥ खगृहेऽपि न यस्याऽऽज्ञा, तस्याऽऽज्ञा हासकृद् बहिः । प्रवादश्च कनिष्ठस्याऽविनयासहने मम ॥ १६ ॥ एकतो राजधर्मोऽयं, दृप्तानां दर्पशातनः । इतो भ्रातरि सौत्रात्रं, सङ्कटे पतितोऽसि हा! ॥ १७ ॥
अमात्योऽप्यभ्यधादेवं, स्वमहत्त्वेन सङ्कटम् । यद् देवस्य कनीयांस्तत् , स एव ह्यपनेष्यति ॥ १८॥ 20 आज्ञा हि ज्यायसा देया, कर्त्तव्या च कनीयसा । आचारो रूढ एवाऽयं, सामान्यगृहिणामपि ॥ १९ ॥
भ्रातरं तत् कनीयांसं, लोकरूढेन वर्त्मना । आज्ञापयतु देवोऽपि, प्रेष्य सन्देशहारकम् ॥ २० ॥ आज्ञां सर्वजगन्मान्यां, वीरमानी तवाऽनुजः । सहिष्यते न चेद् देव!, पर्याणमिव केसरी ॥ २१ ॥ प्रशास्यास्त्वं तदा पाकशासनोगाढशासनः । न चाऽपवादस्ते लोके, लोकाचारानतिक्रमात् ॥ २२ ॥
तथेति प्रतिपेदे तद्वचनं मेदिनीपतिः । उपादया शास्त्रलोकव्यवहारानुगा हि गीः ॥ २३ ॥ अनुशिष्य ततो दूतं, नयज्ञं वाग्मिनं दृढम् । सुवेगं नाम नृपतिः, प्रैषीद् बाहुबलिं प्रति ॥ २४ ॥ खामिशिक्षा दौत्यदीक्षामिवाऽऽदाय स सौष्ठवाम् । सुवेगो रथमारुह्याऽचलत् तक्षशिलां प्रति ॥२५॥ सारसैन्यपरीवारो, रथेनाऽसह्यरंहसा । निर्ययौ स विनीताया, राजाज्ञेव वपुष्मती ॥ २६ ॥ __ कार्यारम्भविधौ वामं, दैवं पश्यदिवाऽसकृत् । पस्पन्दे लोचनं वाम, गच्छतस्तस्य वर्त्मनि ॥ २७ ॥
नाडी नाडीन्धमस्येव, वह्निमण्डलमध्यतः । उवाह दक्षिणा तस्य, रोगाभावेऽप्यनारतम् ॥ २८ ॥ 30 समेष्वपि हि मार्गेषु, रथस्तस्याऽस्खलन्मुहुः । अप्यसंयुक्तवर्णेषु, जिह्वा ललंगिरामिव ॥ २९ ॥
सादिभिर्वार्यमाणोऽपि, प्रेर्यमाण इवाऽसकृत् । कृष्णसारः पुरस्तस्य, दक्षिणाद् वामतो ययौ ॥ ३० ॥ तस्याऽग्रे करटः शुष्के, निविष्टः कण्टकद्रुमे । अरसत् कटुकं घर्षश्चञ्चं शस्त्रमिवोपले ॥ ३१ ॥
१सभामण्डपम् । २ दुष्टाजः । ३ लघुभ्राना । ४ राजसमूहम् । ५ उत्कर्षता । ६ लजितमिव । ७ शत्रुः। ८ गर्वनाशकः । ९ ज्येष्ठेन। १० लघुना। ११ वाचालम् । १२ वेगवता । १३ प्रांत कूलम् । १४ सुवर्णकारस्य। १५ स्खलदिराम् । १६ मृगविशेषः। १७ काकः । १८ पाषाणे।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org