SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ] त्रिपष्टिशलाकापुरुषचरितम् । तथैव तृषितोऽथाsपात् सरितः सरितांपतीन् । न च तस्य तृषाऽत्रुट्यन्नारकस्येव वेदना || ८४० || मरुकूपे ततो यातः, कुशलं स रज्जुभिः । बद्धा चिक्षेप पयसे, किमार्त्तः कुरुते नहि ? ॥ ८४१ ॥ दूराम्बुत्वेन कूपस्य, मध्येऽपि गलिताम्बुकम् । निश्चोत्य पूलं द्रमकः, स्नेहपोतमिवाऽपिवत् ॥। ८४२ ।। न च्छिन्ना याऽर्णवाद्यैस्तृट्, छेद्या पूलाम्भसा न सा । तद्वद् वः स्वःसुखाच्छिन्ना, छैद्या राज्यश्रिया किमु ? अमन्दानन्दनिःस्यन्दनिर्वाणप्राप्तिकारणम् । वत्साः ! संयमराज्यं तद्, युज्यते वो विवेकिनाम् ॥ ८४४ ॥ 5 तत्कालोत्पन्नसंवेगवेगा भगवदन्तिके । तेऽष्टानवतिरप्याशु, प्रव्रज्यां जगृहुस्ततः ।। ८४५ ।। अहो ! धैर्यमहो ! सचमहो ! वैराग्यधीरिति । चिन्तयन्तस्तत्स्वरूपं, दूता राज्ञे न्यवेदयन् ॥ ८४६ ॥ ज्योतींषीव ज्योतिषां ज्योतिरीशस्तेजांसीवाऽहर्पतिः पावकानाम् । वाणीव स्रोतसां वारिराशिस्तेषां राज्यान्याददे चक्रवर्ती ॥ ८४७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरितं महाकाव्ये प्रथमे पर्वणि भरतच - 10 क्रोत्पत्ति-दिग्विजय- राज्याभिषेक सोदर्यव्रतग्रहणकीर्त्तनो नाम चतुर्थः सर्गः ॥ ४ ॥ १ दर्भपूलम् । Jain Education International * प्रोत खं, सं १ ॥ १०७ २ स्वर्गसुखाच्छिन्ना । For Private & Personal Use Only www.jainelibrary.org
SR No.001455
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 1
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy