________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
प्रथमं पर्व अविज्ञपय्य तातं तु, सोदर्येणाऽग्रजन्मना । त्वदीयस्वामिना योद्धं, न वयं प्रोत्सहामहे ॥ ८०७ ॥
ते दूतानभिधायैवं, तदैवाऽष्टापदाचले । स्थितं समवसरणे, वृषभखामिनं ययुः ॥ ८०८ ॥ त्रिश्च प्रदक्षिणीकृत्य, प्रणेमुः परमेश्वरम् । शिरःसु बद्धाञ्जलयः, सर्वेऽप्येवं स्तुतिं व्यधुः॥ ८०९ ॥ देवैरप्यपरिज्ञेयगुणं कः स्तोतुमीश्वरः? । त्वां स्तोष्यामस्तथापीश !, विलसद्भालचापलाः ॥ ८१० ॥ तपस्यतामप्यधिकास्त्वां नमस्यन्ति ये सदा । वरिवस्यन्ति ये तु त्वां, योगिनामपि तेऽधिकाः॥८११॥ नमस्यतां प्रतिदिनं, विश्वालोकदिनेश्वर! । धन्यानामैवतंसन्ति, त्वत्पादनखरश्मयः ॥ ८१२ ॥ न किञ्चित् कस्यचित् साम्ना, बलाद् वा गृह्यते त्वया । त्रैलोक्यचक्रवर्ती त्वं, तथाऽप्यसि जगत्पते ! ॥८१३॥ खामिस्त्वमेको जगतां, समं चेतःसु वर्त्तसे । पीयूषदीधितिः सर्वजलाशयजलेष्विव ॥ ८१४ ॥
त्वां स्तोता स्तूयते देव !, सर्वैस्त्वामर्चिताऽर्च्यते। त्वां नन्ता नम्यते सर्वा, त्वयि भक्तिर्महाफला ॥८१५॥ 10 त्वं देव ! दुःखदावाग्नितप्तानामेकवारिदः । मोहान्धकारमूढानामेकदीपस्त्वमेव हि ॥ ८१६ ॥
रोराणामीश्वराणां च, मूर्खाणां गुणिनामपि । साधारणोपकारी त्वं, छायाद्रुम इवाऽध्वनि ॥ ८१७ ॥ __ इति स्तुत्वा भ्रमरवत् , स्वामिपादारविन्दयोः । निवेशितदृशस्तेऽथ, सम्भूयैवं व्यजिज्ञपन् ॥ ८१८ ॥ तदानीं तातपादैनः, संविभज्य पृथक् पृथक् । देशराज्यानि दत्तानि, यथार्ह भरतस्य च ॥ ८१९ ॥
तैरेव राज्यैः सन्तुष्टास्तिष्ठामो विष्टपेश्वर! । विनीतानामलङ्घन्या हि, मर्यादा स्वामिदर्शिता ॥ ८२० ॥ 15 स्वराज्येनाऽन्यराज्यैश्वाऽपहृतैर्भरतेश्वरः । न सन्तुष्यति भगवन् !, वडवाग्निरिवाऽम्बुभिः ॥ ८२१ ॥
आचिच्छेद यथाऽन्येषां, राज्यानि पृथिवीभुजाम् । अस्माकमपि भरतस्तद्वदाच्छेत्तुमिच्छति ॥ ८२२ ॥ त्यज्यन्तामाशु राज्यानि, सेवा वा क्रियतां मम । आदिदेशेति पुरुषैर्भरतो नः परानिव ॥ ८२३ ॥ वचोमात्रेण मुश्चामस्तस्याऽऽत्मबहुमानिनः । तातदत्तानि राज्यानि, क्लीवा इव कथं वयम् ? ॥ ८२४ ॥
सेवामपि कथं कुर्मो, निरीहा अधिकर्द्धिषु ? । अतृप्ता एव कुर्वन्ति, सेवां मानविघातिनीम् ॥ ८२५ ॥ 20 राज्यामुक्तांचसेवायां, युद्धं स्वयमुपस्थितम् । तातपादांस्त्वनापृच्छय, न किञ्चित् कर्तुमीश्महे ॥ ८२६ ॥
__ अम्लानकेवलज्ञानसङ्कान्ताशेषविष्टपः । कृपावान् भगवानादिनाथोऽपीत्यादिदेश तान् ॥ ८२७॥ वत्साः! पुरुषवीरैर्हि, पुरुषव्रतधारिभिः । योद्धव्यं वैरिवर्गेणाऽनर्गलं द्रोहकारिणा ॥ ८२८ ॥ रागो द्वेषश्व मोहश्च, कपायाश्चेति वैरिणः । अनर्थदायिनः पुंसां, जन्मान्तरशतेष्वपि ॥ ८२९ ॥
रागो हि सद्गतौ पुंसामायसी पादशृङ्खला । द्वेषश्च नरकावासनिवासप्रतिभूवली ।। ८३० ॥ 25 मोहो भवार्णवावर्त्तप्रक्षेपणपणो नृणाम् । कषायाः स्वाश्रयानेव, दहन्ति दहना इव ॥ ८३१ ॥
अनपायमयैस्तैस्तैरुपायास्त्रैर्निरन्तरम् । युद्धा युद्धा विजेतव्यास्तदमी वैरिणो नृभिः ॥ ८३२ ॥ सेवाऽपि हि विधातव्या, धर्मस्यैवैकतायिनः । तच्छाश्वतानन्दमयं, पदमीपत्करं यया ॥ ८३३ ।। अनेकयोनिसम्पातानन्तवाधानिबन्धनम् । अभिमानफलैवेयं, राज्यश्रीः साऽपि नश्वरी ॥ ८३४ ॥
किं च या खःसुखैस्तृष्णा, नाऽत्रुट्यत् प्राग्भवेषु वः । साऽङ्गारकारकस्येव, मर्त्यभोगैः कथं त्रुटे ? ॥८३५।। 30 अङ्गारकारकः कश्चिदादाय पयसो दृतिम् । जगाम कर्तुमङ्गारानरण्ये रीणवारिणि ॥ ८३६ ॥
सोऽङ्गारानलसन्तापान्मध्याह्नातपपोषितात् । उद्भूतया तृषाऽऽकान्तः, सर्व दृतिपयः पपौ ॥ ८३७ ॥ नेनाऽप्यच्छिन्नतृष्णः सन् , सुप्तः स्वमे गृहं गतः । आलूकलसनन्दानामुदकान्यभितोऽप्यपात् ॥ ८३८ ॥ तजलैरप्यशान्तायां, तृष्णायामग्नितैलवत् । वापीकूपतडागानि, पायं पायभशोषयत् ॥ ८३९ ॥
१ सेवन्ते। २ हे विश्वप्रकाशसूर्य !। ३ अवतंसदाचरन्ति । ४ चन्द्रः। ५ दीनानाम् । ६ हे जगदीश्वर । ७ नपुंसकाः। निःस्पृहाः। ९ अमोचने। १० सेवाया अकरणे। १: लोहमयी। १२ प्रतिनिधिः। १३ ग्लहः । १४ नित्यानन्दमयम् । १५ शुष्कजले। १६ जलपात्रभेदाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org